2022-10-18 04:13:55 by ambuda-bot
This page has not been fully proofread.
सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् ॥ हरि० ॥ ८ ॥
श्रीजयदे॒वभ॑णितमिदमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ हरि० ॥ ९ ॥
विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
-
स्तथा । अथवा 'अङ्गनामङ्गनामन्तरे माधवः' इममर्थ प्रकटयति ॥७॥ एकस्यैव हरेः
प्राकाम्यसिद्ध्या सर्वाभिः सह्रैककालं क्रीडनमाह - लिष्यतीति । स हरिः रासरसे
क्वचित्कामपि अन्ययान्यया सह उक्तरीत्या क्रीडति । रामेति रमणशीला तां रमयति ।
स्मितचारुतरेति रसदृष्टेरुपलक्षणम् । स्मिते हि रतिभाव उल्बणो भवतीति । वामामि-
त्यनुनयेऽपि पराङ्मुखीत्वम् । तामनुगमनेन साधयतीति चातुर्यम् । अथवा नानारूपाणि
विधाय तया तथा सह तया तयावस्थया क्रीडितवान् । अथवा सममेवैकामाश्लिष्य
तामाश्लिष्यन्नेव परां चुम्बति । तत्कुर्वन्नेवान्यां रमयति । चेष्टाविशेषेण तदैवान्यां
पश्यति । अन्यामनुगच्छ ती त्यनुकरोतीति योज्यम् । श्लिष्यतीत्यादिषु क्रमेण शठधृष्टदक्षि-
णानुकूलधूर्ता नायकाः । नायिकास्तु अभिसारिका एव ॥ ८ ॥ उपसंहरति - श्रीज
यदेवेति । अत्र स्वरा ऋषभाद्याः पाटाः । श्रीजयदेव कवेरिदमद्भुत के शव के लिरहस्यं
अद्भुतं च तत्केशव केलिरहस्यं च तच्चरितं शुभानि वितनोतु । अर्थाद्गायतां शृण्व-
तां च । किंभूतम् । यशस्यं यशस्करम् । व । वृन्दावन विपिने । अत्रैकेनानेकासामुप-
रञ्जनादद्भुतत्वम् । लयो नाम छन्दः । तल्लक्षणम् – 'मुनियगणैर्लयमा मनन्ति तज्ज्ञाः
तदुक्तं छन्दचूडामणौ 'चिलय' इति ॥ ९ ॥ इदानीं काचित्सखी राधां प्रति कृष्णस्याति-
शयशृङ्गारशालिता दर्शन
व्याजेन तदुन्मुखीकर्तुमाह
- विश्वेषामिति । हे सखि राधे,
३३
पङ्क्तिः'
इत्यमरः । 'वंशो वेणौ कुले वर्गे काष्ठस्यावयवेऽपि च' इति विश्वः । 'रासस्तु
वनरासे स्यात्' इति च । 'रासस्तु गोदुहां क्रीडा' इति हारावलिः ॥ ७ ॥ श्लिष्यतीति ।
कामपि रामां क्रीडाशीलां गोपीं श्लिष्यत्यालिङ्गति, कामपि चुम्बति, कामपि रमयति,
निभृतः संभोगेन क्रीडयति, स कृष्णः स्मितेन चारुतरामतिशयेन मनोहरामपरां गोपीं
पश्यति । कांचिद्वामां वामस्वभावां कोपवतीमनुगच्छति अनुनयार्थमनुगतिं करोति ।
अत्र कृष्णेनाषादौ क्रियमाणेऽपि ताभिर्न कृतमित्यव्यवैदग्ध्यं सूचितम् । 'सुन्दरी रमणी
रामा' इत्यमरः । 'विद्या वामा अपि स्त्रियाम्' इति च ॥ ८ ॥ संप्रति गीतसमाप्तौ कविः
स्वनाम निबध्नन्नेवाशिषं प्रार्थयते – श्रीजयदेवेति । श्रीजयदेवकवेरिदं ललितं गीतं
शुभानि वितनोतु विस्तारयतु । कीदृशम् । वृन्दावनेऽद्भुतं केशवस्य केलिरहस्यं गुप्तक्रीडा
यत्र तादृशम् । अद्भुतत्वं चैकेनैव कृष्णेनानेककामिनीनां कामपूरणात् । पुनः कीदृशम् ।
यशस्यं यशः सहितम् ॥ ९ ॥ ननु सकलशृङ्गारकलाभिज्ञः श्रीकृष्णः कथं हावाद्यनभिशा-
भिर्गोपीभिः सह केलिं कृतवानित्यत आह - विश्वेषामिति । हे सखि हे राधे, मधौ
१ 'देवकवेरिदमद्भुत' इति पाठः ।
-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri