This page has been fully proofread once and needs a second look.

३२
 
[ सर्ग: १
 
गीतगोविन्दकाव्यम्
 
केलिकलाकुतुकेन
 
च काचिदमुं यमुनाजलकूले ।
 

मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ हरि० ॥ ६ ॥

 
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
 

रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे ॥ हरि० ॥ ७ ॥

 
लतले गण्डप्रदेशे चारु मनोहरं यथा स्यात्तथा चुचुम्ब । किंभूता । सखीषु

चातुर्यात्किमपि कार्यान्तरं लपितुं श्रुतिमूले लग्ना । किंभूते श्रुतिमूले । अनुकूले-

ऽभिमुखमानीते । किंभूते कपोलतले । रोमाञ्चोपलक्षिते । हरेः सात्त्विकभावेन

रोमाञ्चोद्गमः । अत्रानुगन्तुमशक्ता कार्यान्तरकथनव्याजेन हरिं स्थापयतीति नितम्ब,
-
वतीत्युचितम् । सखीषु दयितचुम्बनं लज्जाकरमिति कार्यान्तरव्याजौचिती । अत्र

प्रौढा नायिका । अनुकूलो नायकः ॥ ५ ॥ <pratika>केलिकलेति ।</pratika> काचिद्गोपी केलि.
-
कलाकुतुकेन क्रीडाविज्ञान कौतुकेनामुं कृष्णं करेण दुकूले विचकर्ष । किंभूतम् ।

यमुनावनकूले मञ्जुलमनोहरवञ्जुलबकुलकुञ्जगतम्, वेतसकुञ्जगतं वा यमुनाया

विपिनोपलक्षिततीर इत्यर्थः । अत्र चकारोऽनुक्तसमुच्चयार्थः । तेन परिहासा-

द्युच्चीयते । '"यमुनाजलतीरे'" इति पाठः । अत्र यमुनातीर इति वक्तव्ये जलग्रह
णं
शैत्यपावनत्व संनिकर्षादिद्योतनार्थम् ॥ ६ ॥ करतलेति ।<pratika>करतलेति ।</pratika> हरिणा कृष्णेन कापि

युवतिः प्रशशंसे स्तुता । किंभूता । रासरसे गोपीनां क्रीडानुरागे सह नृत्यपरा कृष्णेन

सह तुल्यकालं नृत्यन्ती । किंभूते रासरसे । करतलयोस्तालस्तालिका तथाया तरला

या वलयावलिर्हस्तकटक श्रेणिस्तया कलितोऽनुगतः कलस्वनो वंशो यत्र यस्मिं
-
 
कपोलतले चारु मनोहरं यथा तथा चुचुम्ब चुम्बनं कृतवती । कीदृशी । किमपि कार्
यं
लपितुं मन्त्रयितुं श्रुतिमूले मिलिता संलग्ना । कीदृशे । पुलकै रोमाञ्चैरनुकुले प्रियवि-

लाससूचके। औत्सुक्येन सहसा कान्तमुखचुम्बनं सखीजनहास्यकरं भवतीति व्याजेन

तया तदारब्धमिति भावः । अत्र प्रथमतो मुखस्पर्शनेन कृष्णकपोले रोमाञ्चमुत्पाद्य चुम्ब
ने
तस्या अत्राधीरत्वं ध्वनितम् ॥ ५ ॥ <pratika>केलिकलेति । </pratika>काचिद्गोपी अमुं कृष्णं केलिकलाकुतुकेन

दुकूले पट्टवस्त्रविषये विचकर्षाकृष्टवती । दुकूलं गृहीत्वामुं कृष्णं विचकर्षेति केचिद्योजयन्ति

कीदृशम् । मञ्जुलो मनोहरो वञ्जुलो वेतसो यत्र तादृशो यः कुञ्जस्तत्र गतं प्राप्तम् । कुत्र

विचकर्ष । यमुनाजलकूले यमुनाया जलयुक्ते रोधसि । वञ्जुलकुञ्जस्थं कृष्णं यमुनाकूलं प्रति

क्रीडार्थमाकृष्टवतीत्यर्थः । अत्र अन्यानुरक्तस्य कृष्णस्य नायिकया वस्त्राकर्षणादधीरत्वं तस्या

व्यङ्ग्यम् । '"कुतुकं तु कुतूहलम्" त्यमरः । "मनोज्ञं मञ्जु मञ्जुलम्'"त्यमरः । 'मनोशं मञ्जु मञ्जुलम्' इति च । '"वञ्जुलो

वेतसे'" इति विश्वः । '"दुकूलं क्षौमे सूक्ष्मांशुकेऽपि च'" इति ॥ ६ ॥ करतलेति ।
<pratika>करतलेति ।</pratika>
काचिद्युवतिर्हरिणा प्रशशंसे स्तुता । कीदृशी । रासरसो गोपीनां क्रीडाविशेषस्तत्र

सह नृत्यपरा कृष्णेन समं नृत्यन्ती । कीदृशे रासरसे । करतलयोस्तालेन परस्परं वादनेन

तरला चञ्चला या वलयावलिः कङ्कणपङ्किस्तया कलितो मिश्रितोऽव्यक्तमधुरशब्दसहितो

वंशो वेणुर्यंत्र तादृशे । अत्र रासरसे इत्यादिना गोदुहां क्रीडास्वेव सा स्तुत्या न तु सक-

लसंगीतकलास्विति ध्वनितम्, '"द्रुममेभेदे करास्फाले तालं तु हरितालके'" इति विश्वः ।

तरलश्चञ्चले खिन्ने हारमध्यमणौ'" इति च । '"वलयं कङ्कणेऽपि च '" इति । '"आवलिः
 
.
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri