2022-10-18 04:13:55 by ambuda-bot
This page has not been fully proofread.
३२
[ सर्ग: १
गीतगोविन्दकाव्यम्
केलिकलाकुतुकेन
च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ हरि० ॥ ६ ॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे ॥ हरि० ॥ ७ ॥
लतले गण्डप्रदेशे चारु मनोहरं यथा स्यात्तथा चुचुम्ब । किंभूता । सखीषु
चातुर्यात्किमपि कार्यान्तरं लपितुं श्रुतिमूले लग्ना । किंभूते श्रुतिमूले । अनुकूले-
ऽभिमुखमानीते । किंभूते कपोलतले । रोमाञ्चोपलक्षिते । हरेः सात्त्विकभावेन
रोमाञ्चोद्गमः । अत्रानुगन्तुमशक्ता कार्यान्तरकथनव्याजेन हरिं स्थापयतीति नितम्ब,
वतीत्युचितम् । सखीषु दयितचुम्बनं लज्जाकरमिति कार्यान्तरव्याजौचिती । अत्र
प्रौढा नायिका । अनुकूलो नायकः ॥ ५ ॥ केलिकलेति । काचिद्गोपी केलि.
कलाकुतुकेन क्रीडाविज्ञान कौतुकेनामुं कृष्णं करेण दुकूले विचकर्ष । किंभूतम् ।
यमुनावनकूले मञ्जुलमनोहरवञ्जुलबकुलकुञ्जगतम्, वेतसकुञ्जगतं वा यमुनाया
विपिनोपलक्षिततीर इत्यर्थः । अत्र चकारोऽनुक्तसमुच्चयार्थः । तेन परिहासा-
द्युच्चीयते । 'यमुनाजलतीरे' इति पाठः । अत्र यमुनातीर इति वक्तव्ये जलग्रहण
शैत्यपावनत्व संनिकर्षादिद्योतनार्थम् ॥ ६ ॥ करतलेति । हरिणा कृष्णेन कापि
युवतिः प्रशशंसे स्तुता । किंभूता । रासरसे गोपीनां क्रीडानुरागे सह नृत्यपरा कृष्णेन
सह तुल्यकालं नृत्यन्ती । किंभूते रासरसे । करतलयोस्तालस्तालिका तथा तरला
या वलयावलिर्हस्तकटक श्रेणिस्तया कलितोऽनुगतः कलखनो वंशो यत्र यस्मिं
कपोलतले चारु मनोहरं यथा तथा चुचुम्ब चुम्बनं कृतवती । कीदृशी । किमपि कार्य
लपितुं मन्त्रयितुं श्रुतिमूले मिलिता संलग्ना । कीदृशे । पुलकै रोमाञ्चैरनुकुले प्रियवि-
लाससूचके। औत्सुक्येन सहसा कान्तमुखचुम्बनं सखीजनहास्यकरं भवतीति व्याजेन
तया तदारब्धमिति भावः । अत्र प्रथमतो मुखस्पर्शनेन कृष्णकपोले रोमाञ्चमुत्पाद्य चुम्ब
तस्या अत्राधीरत्वं ध्वनितम् ॥ ५ ॥ केलिकलेति । काचिद्गोपी अमुं कृष्णं केलिकलाकुतुकेन
दुकूले पट्टवस्त्रविषये विचकर्षाकृष्टवती । दुकूलं गृहीत्वामुं कृष्णं विचकर्षेति केचिद्योजयन्ति
कीदृशम् । मञ्जुलो मनोहरो वञ्जुलो वेतसो यत्र तादृशो यः कुञ्जस्तत्र गतं प्राप्तम् । कुत्र
विचकर्ष । यमुनाजलकूले यमुनाया जलयुक्ते रोधसि । वञ्जलकुञ्जस्थं कृष्णं यमुनाकूलं प्रति
क्रीडार्थमाकृष्टवतीत्यर्थः । अत्र अन्यानुरक्तस्य कृष्णस्य नायिकया वस्त्राकर्षणादधीरत्वं तस्या
व्यङ्ग्यम् । 'कुतुकं तु कुतूइलम्' इत्यमरः । 'मनोशं मञ्जु मञ्जुलम्' इति च । 'वञ्जुलो
वेतसे' इति विश्वः । 'दुकूलं क्षौमे सूक्ष्मांशुकेऽपि च' इति ॥ ६ ॥ करतलेति ।
काचिद्युवतिर्हरिणा प्रशशंसे स्तुता । कीदृशी । रासरसो गोपीनां क्रीडाविशेषस्तत्र
सह नृत्यपरा कृष्णेन समं नृत्यन्ती । कीदृशे रासरसे । करतलयोस्तालेन परस्परं वादनेन
तरला चञ्चला या वलयावलिः कङ्कणपङ्किस्तया कलितो मिश्रितोऽव्यक्तमधुरशब्दसहितो
वंशो वेणुर्यंत्र तादृशे । अत्र रासरसे इत्यादिना गोदुहां क्रीडास्वेव सा स्तुत्या न तु सक-
लसंगीतकलास्विति ध्वनितम्, 'द्रुममेदे करास्फाले तालं तु हरितालके' इति विश्वः ।
तरलश्चञ्चले खिन्ने हारमध्यमणौ' इति च । 'वलयं कङ्कणेऽपि च ' इति । 'आवलिः
.
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri