This page has been fully proofread once and needs a second look.

रसमञ्जर्याख्यटीकाद्वयोपेतम् ।
 
सर्गः १] रसिकप्रिया-
पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।
 

गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ हरि० ॥ ३ ॥

 
कापि विलासविलोलविलोच
नखेलनज नितमनोजम् ।
 

ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ हरि० ॥ ४ ॥

 
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
 

चा[^१]रु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ हरि० ॥ ५ ॥
 
३१
 

 
नास्य प्रसारणेन ॥ २ ॥ अथ परस्परं गोपिकानां केलिचेष्टितमाह - - <pratika>पीनपयो-

रेति ।<pratika> काचिद्गोपवधूर्हरिं गायन्तं हरिमनुगायति वंशकृत्येन गायति । किं

कृत्वा । सरागं साभिलाषं तमेव हरिं परिरभ्य । किंभूता । पीनपयोधरभार-

भरेणोपलक्षिता । अथवा विपुलस्तनभारातिशयेन परिरभ्य । किंभूतं हरिम् ।

सरागं तदालिङ्गनसाभिलाषम् । पुनः किंभूतम् । उदश्चित आ तारावध्यू
र्ध्वं
नीतः पञ्चमरागो येन, वा उदश्ञ्चितः पञ्चमस्वरोपलक्षितो रागो येन, वा

उदञ्चितः पञ्चमरागोऽनुरागो येन । अथवा उदञ्चितपञ्चमरागं यथा स्यात्तथेति

गान क्रियाविशेषणम् । शृङ्गारे हि पञ्चमभूयिष्ठस्य गानस्य प्राधान्यात्, अथवा उद-

ञ्चितहृद्यरागं यथा स्यात्तथा ॥ ३ ॥ <pratika>कापि विलासेति ।</pratika> कापि मुग्धवधूरधिकं

सातिशयं यथा स्यात्तथा मधुसूदनवदनसरोजं ध्यायति । अधिकं सुखमधिकृत्य वा ।

किंभूतम् । विलासेन चेष्टाविशेषेण विलोले चञ्चले ये विलोचने तयोः खेलनेनाव-

र्तनेन जनित उत्पादितो मनोजो येन । अत्र सरोजे योजितो मधुसूदनशब्द-

औचितीमावहति । सूद स्रुतिहत्योरिति मुखसरोजान्मधु स्रवतीत्यतिशयाधा-

नम् ॥ ४ ॥ <pratika>कापि कपोलतले इति । </pratika>कापि नितम्बवती दयितं श्रीकृष्णं कपो-

 
धीरमुत्तमानां स्मितं भवेत् ॥'" इति ॥ २ ॥ गोपीनां सौन्दर्यविलासानभिज्ञत्वं च कथयन्नेव

केलिमाह -- <pratika>पीनेति ।</pratika> काचिद्गोपवधूः पीनपयोधरभारभरेण पीनस्तनगौरवातिशयेन सरागं

सानुरागं यथा स्यादेवं हरिं परिरभ्यालिङ्ग्य उदञ्चित ऊर्ध्वमञ्चितः पञ्चमाख्यो रागो यत्र

एवं यथा स्यात्तथानुगायति अनु पश्चाद्धरेर्गानानन्तरं गायति । अत्र गोप्याः सौन्दर्
यं
पीनपयोधरेत्यादिना प्रतिपादितम् । अवैदग्ध्यं तु कृष्णस्य, परिरम्भोद्यमं विनैव स्वयं प्रथमं

परिरम्भणात् । अन्योन्यकृते हि परिरम्मे शृङ्गाररसः पुष्टो भवति । तदुक्तं दशरूपके -
'
-
"
रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मरतिः सैव यूनोरन्योन्यसक्तयोः । प्रकृष्य-

माणः शृङ्गारो मधुराङ्गावचेष्टितैः ॥'" इति । शृङ्गारे पञ्चमः स्वरो बाहुल्येन भवति स एवात्र

कथितः । यदाह भरतः—' -- "पञ्चमं मध्यभूयिष्ठं हास्यशृङ्गारयोर्भवेत्'" इति ॥ ३ ॥ <pratika>कापीति ।
</pratika>
कापि मुग्धवधूः मधुसूदनवदनसरोजं मुखपद्ममधिकं यथा स्यात्तथा ध्यायति चिन्तयति ।

कीदृशम् । विलासेन विलोलयोश्चञ्चलयोर्विलोचनयोनेंर्नेत्रयोः खेलनं च तेन जनित उत्पादितो

मनोज:जः कामो येन अर्थात्तस्यामेव तादृशम् । अत्र प्रत्यक्षस्यापि मधुसूदनस्य ध्याना-

दवैदग्ध्यं तस्या अवगम्यते ॥ ४ ॥ <pratika>कापीति ।</pratika> कापि नितम्बवती गोपी दयितं कृष्णं

 
[^
'.] "कापि चुचुम्ब'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri