2022-10-18 04:13:55 by ambuda-bot
This page has not been fully proofread.
रसमञ्जर्याख्यटीकाद्वयोपेतम् ।
सर्गः १] रसिकप्रिया-
पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ हरि० ॥ ३ ॥
कापि विलासविलोलविलोच
नखेलनज नितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ हरि० ॥ ४ ॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ हरि० ॥ ५ ॥
३१
नास्य प्रसारणेन ॥ २ ॥ अथ परस्परं गोपिकानां केलिचेष्टितमाह - पीनपयो-
घरेति । काचिद्गोपवधूर्हरिं गायन्तं हरिमनुगायति वंशकृत्येन गायति । किं
कृत्वा । सरागं साभिलाषं तमेव हरिं परिरभ्य । किंभूता । पीनपयोधरभार-
भरेणोपलक्षिता । अथवा विपुलस्तनभारातिशयेन परिरभ्य । किंभूतं हरिम् ।
सरागं तदालिङ्गनसाभिलाषम् । पुनः किंभूतम् । उदश्चित आ तारावयू
नीतः पञ्चमरागो येन, वा उदश्चितः पञ्चमस्वरोपलक्षितो रागो येन, वा
उदञ्चितः पञ्चमरागोऽनुरागो येन । अथवा उदञ्चितपञ्चमरागं यथा स्यात्तथेति
गान क्रियाविशेषणम् । शृङ्गारे हि पञ्चमभूयिष्ठस्य गानस्य प्राधान्यात्, अथवा उद-
ञ्चितहृद्यरागं यथा स्यात्तथा ॥ ३ ॥ कापि विलासेति । कापि मुग्धवधूरधिकं
सातिशयं यथा स्यात्तथा मधुसूदनवदनसरोजं ध्यायति । अधिकं सुखमधिकृत्य वा ।
किंभूतम् । विलासेन चेष्टाविशेषेण विलोले चञ्चले ये विलोचने तयोः खेलनेनाव-
र्तनेन जनित उत्पादितो मनोजो येन । अत्र सरोजे योजितो मधुसूदनशब्द-
औचितीमावहति । सूद स्रुतिहत्योरिति मुखसरोजान्मधु स्रवतीत्यतिशयाधा-
नम् ॥ ४ ॥ कापि कपोलतले इति । कापि नितम्बवती दयितं श्रीकृष्णं कपो-
धीरमुत्तमानां स्मितं भवेत् ॥' इति ॥ २ ॥ गोपीनां सौन्दर्यविलासानभिज्ञत्वं च कथयन्नेव
केलिमाह—पीनेति । काचिद्गोपवधूः पीनपयोधरभारभरेण पीनस्तनगौरवातिशयेन सरागं
सानुरागं यथा स्यादेवं हरिं परिरभ्यालिङ्ग्य उदञ्चित ऊर्ध्वमञ्चितः पञ्चमाख्यो रागो यत्र
एवं यथा स्यात्तथानुगायति अनु पश्चाद्धरेर्गानानन्तरं गायति । अत्र गोप्याः सौन्दर्य
पीनपयोधरेत्यादिना प्रतिपादितम् । अवैदग्ध्यं तु कृष्णस्य, परिरम्भोद्यमं विनैव स्वयं प्रथमं
परिरम्भणात् । अन्योन्यकृते हि परिरम्मे शृङ्गाररसः पुष्टो भवति । तदुक्तं दशरूपके-
'रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मरतिः सैव यूनोरन्योन्यसक्तयोः । प्रकृष्य-
माणः शृङ्गारो मधुराङ्गावचेष्टितैः ॥' इति । शृङ्गारे पञ्चमः स्वरो बाहुल्येन भवति स एवात्र
कथितः । यदाह भरतः—'पञ्चमं मध्यभूयिष्ठं हास्यशृङ्गारयोर्भवेत्' इति ॥ ३ ॥ कापीति ।
कापि मुग्धवधूः मधुसूदनवदनसरोजं मुखपद्ममधिकं यथा स्यात्तथा ध्यायति चिन्तयति ।
कीदृशम् । विलासेन विलोलयोश्चञ्चलयोर्विलोचनयोनेंत्रयोः खेलनं च तेन जनित उत्पादितो
मनोज: कामो येन अर्थात्तस्यामेव तादृशम् । अत्र प्रत्यक्षस्यापि मधुसूदनस्य ध्याना-
दवैदग्ध्यं तस्या अवगम्यते ॥ ४ ॥ कापीति । कापि नितम्बवती गोपी दयितं कृष्णं
१ 'कापि चुचुम्ब' इति पाठः ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri