This page has been fully proofread once and needs a second look.

<pratikabold>रामकरीरागयतितालाभ्यां गीयते ॥ प्र० ॥ ४ ॥</pratikabold>
 
चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगः स्मितशाली ॥ २ ॥
 
हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ ध्रुवम् ॥
 
रम्भसंभ्रमेण त्वरया स्फुरन्तो मनोहारिणो ये विलासास्तेषु लालसा यस्य, तेषु
लालस उत्सुको वा । "वदन्ति वंशस्थमिदं जतौ जरौ" इति वर्णसाम्यमनुप्रासः ।
दक्षिणो नायकः ॥ १ ॥ तदेव गीतेन दर्शयति झम्पातालेन -- <pratika>चन्दनचर्चितेति ।</pratika>
पदानां बाहुल्यात्पूर्वं ध्रुवपदं व्याक्रियते --<pratika>हरिरिति ।</pratika>हे राधे हे विलासिनि, इह
मुग्धवधूनिकरे हरिर्विलसति । कीदृशे निकरे । केलिपरे । पुनः कीदृशे । विलासिनि
विलासो विद्यते यस्य । एकस्यैवोभयविशेषणत्वम् । इति ध्रुवः । अथ पदानि ।
<pratika>चन्दनेत्यादि ।</pratika>चन्दनेन चर्चितमनुलिप्तम् । चर्चिस्तु यद्यप्यध्ययने वर्तते तथापि
धातूनामनन्तार्थत्वादनुलेपे वर्तत इति । तथा चोक्तम् -- "क्रियावाचि समाख्यातुं
प्रसिद्धार्थप्रदर्शिनः । प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः ॥" इति । नीलं
कलेवरं शरीरं यस्य, पीतं वसनं यस्य, वनमाला विद्यते यस्य, ततः कर्मधारयः ।
अथवा चन्दनेन चर्चिते नीलकलेवरे पीतवसने वनमालाश्च विद्यन्ते यस्यासौ
तथा । चन्दनेन चर्चिते ये नीलकलेवरपीतवसने तयोर्वनं संसक्तिरचनावि-
शेषस्तं मलते धारयतीति स तथा । केल्या चलन्ती ये मणिकुण्डले ताभ्यां मण्डितं
गण्डयुगं यस्य स तथा । तथा स्मितशाली स्मिताढ्यः ईषद्धसितयुक्त इति
द्वे पदे । अथवा द्वे पदे कृत्वा कर्मधारयः । अथवा ईदृशं गण्डयुगं च स्मितं
च ताभ्यामाढ्यः । अथवा गण्डयुगे स्मिताढ्य इति तन्मात्रेणैवानुमेयं स्मितं
 
रम्भसंभ्रमेणालिङ्गनादरेण स्फुरन् यो मनोहारिविलासस्तस्य लालसौत्सुक्यं यस्य
तादृशम् । "संभ्रमास्त्रयमिच्छन्ति भयमुद्वेगमादरम्" । "सोऽत्यर्थं लालसा द्वयोः"
इत्यमरः । "आराद्दूरसमीपयोः" इति च ॥ १ ॥ तदेव गीतेन कथयति -- <pratika>चन्दनेति ।</pratika>
गीतस्यास्य रामकरी रागः । तालश्च रूपकः । ताललक्षणं प्रागेवोक्तम् । गीतार्थस्तु हे
विलासिनि विलासशीले, वृन्दावने मुग्धवधूनिकरे सुन्दरवधूनिचये हरिर्विलसति क्रीडति ।
कीदृशे वधूनिकरे । केलिपरे क्रीडापरायणे । यत्र मुग्धवधूनिकरे हावभावाद्यनभिज्ञे
स्त्रीचये केलिपरे सामान्यक्रीडापरायणे विलसतीति ध्वनेरर्थः । तथा च हावाद्यभिज्ञां त्वां
विना सकलकलाभिज्ञस्य हरेर्विलासो न शोभत इति भावः । "मुग्धः सुन्दरमूर्खयोः"
इति विश्वः । विलासो हावविशेषस्तल्लक्षणं तु भरते -- "स्थाने यानासने वापि नेत्रवक्त्रादि-
कर्मणा । उत्पाद्यते विशेषो यः स विलासः प्रकीर्तितः ॥" इति । एतच्च ध्रुवपदम् । कीदृशो
हरिः । चन्दनेन चर्चिते नीलकलेवरे श्यामशरीरे पीतं वसनं वस्त्रं वनमाला च यस्य
तादृशः । पुनः कीदृशः । केलिषु चलती कम्पमाने मणियुक्ते कुण्डले ताभ्यां मण्डितमलं-
कृतं गण्डयुगं कपोलयुग्मं यस्य तादृशः । पुनः कीदृशो हरिः । स्मितेन ईषद्धास्येन
शाली शोभमानः । "अथ कलेवरम् । गात्रं वपुः संहननम्" इत्यमरः । "गण्डे कपोलौ"
इत्यपि । स्मितलक्षणं तु भरते -- "ईषद्विकसितैर्गण्डैः कटाक्षः सौष्ठवान्वितैः । अलक्षितद्विजं