This page has been fully proofread once and needs a second look.

सर्गः १ ]
 
रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-

क्रीडत्कोकिलकाकलीक[^१]लरवैरुद्गीर्णकर्णज्वराः ।

नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण-

प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ११ ॥
 

 

 
अनेकनारीपरिरम्भसंभ्रमस्फुरन्मनोहारिविलासलालसम्

मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १ ॥
 
२९
 

 
<pratika>
उन्मीलदिति । </pratika>पथिकैरमी वसन्तसमयवासराः कथंकथमिव महता कष्टेन नीय-

न्ते । कैः कृत्वा । ध्यानावधानक्षणे प्रियानुचिन्तनैकाग्रता प्रस्तावे प्राप्तो यः प्राणस-

मासमागमरसोऽनुरागस्तस्य प्रकटीभावैः । अथवा रसस्योल्लासो येष्विति पथिकविशेष-

णम् । किंभूता वासराः । उन्मीलन्योऽसौ मधुगन्धः पुष्परसगन्धस्तत्र लुब्धा ये मधुपा

भ्रमरास्तैर्व्याधूता आन्दोलिता ये चूताङ्कुरास्तेषु क्रीडन्तो ये कोकिलास्तेषां काकल्युप-

लक्षितकलरवैरुद्गीर्ण उत्पादितः कर्णज्वरो यैस्ते तथा । कोकिलो वसन्तमासे पञ्चमं वद-

तीति स्थितिः। अत्र च चूतधूननेन मधुपे रोषावेशान्निषादकाकलीमुक्तवानित्याशयः ।

अथवांवा कथंकथमपीति ध्यानेनेत्यादिना योज्यम् । ततो विरहिणो ह्यनवस्थितचित्त-

त्वाद्ध्यातुमपि न शक्नुवन्ति । शार्दूलविक्रीडितं छन्दः । अत्र काव्यलिङ्गमलंकारः ।

गौडीया रीतिः । विप्रलम्भाख्यशृङ्गारो रसः । अत्र कामोद्दीपनविभावैः कोकिलका-

कलीकलरवाद्यैः संजनितकर्णज्वरत्वेन प्राणसमसमागमाकाङ्क्षित्वेन विरहासहिष्णुत्वा-

पेक्षया यद्वासराणां कर्मगतं बहुत्वमापादितं तत्सुतरामौचित्यकोटिमाटीकते ॥ ११ ॥
 

<pratika>
अनेकेति ।</pratika> असौ सखी राधां पुनर्वक्ष्यमाणमाह । किं कुर्वती । आरात्समीपे समक्षं

प्रत्यक्षं यथा स्यात्तथा मुरारिं दर्शयन्ती दृष्टिपथ्मवतारयन्ती । अनेकनारीणां परि-

 
प्राणः'" इति च । '"गन्धवाहानिलाशुगाः'" इति च ॥ १० ॥ संप्रति वसन्तदिवसानां

दुरन्तत्वमाह - - <pratika>उन्मीलदिति । </pratika>अमी वसन्तसंबन्धिनो वासरा दिवसा:साः पथिकैः

कथंकथमपि महता कष्टेन नीयन्ते समाप्यन्ते । कीदृशा वासरा:राः । उद्गीर्णाः प्रकटिताः

कर्णज्वराः श्रोत्रसंतापा येषु तादृशाः । कैः । उन्मीलन्ति प्रकटीभवन्ति यानि मधूनि

गन्धाश्च तेषु लुब्धा लोलुपा ये मधुपा भ्रमरास्तैर्व्याधूताः कम्पिता ये चूताङ्कुरा

आम्रमुकुलानि तेषु क्रीडतां कोकिलानां काकल्योऽव्यक्तमधुरध्वनयस्ताभिः कृता ये कल-

कलाः कोलाहलास्तैः । केन प्रकारेण नीयन्त इत्याह — --- <pratika>ध्यानेति । </pratika>ध्याने स्वप्रियचिन्तने

यदवधानं तत्परता तेन क्षणं प्राप्तो यः प्राणसमाया जीवतुल्यायाः कान्तायाः समागमरूपो

रसस्तस्मादुत्पन्ना ये उल्लासा उत्साहास्तैः । '"काकली तु कले सूक्ष्मे'" इति, '"कोलाहल : कल-
लः' कल-
कलः"
इति च ॥ ११ ॥
 

<pratika>
अनेकेति . ।</pratika>असौ सखी राधिकां पुनराह पुनरुवाच । किं कुर्वती । आरा-

रतः समक्षं प्रत्यक्षं मुरारिमुपदर्शयन्तीति । कीदृशम् । अनेकासां नारीणां परि-
10
 

 
[^
'.] "कलकलैः'" इति पाठः ।
 
५ गीत•
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri