This page has been fully proofread once and needs a second look.

२८
 
गीतगोविन्दकाव्यम्
 
दरविर्द
दरविद[^१]लितमल्लीवल्लिचञ्चत्पराग-

प्रकटितपटवासैर्वासयन्काननानि ।

इह हि दहति चेतः केतकीगन्धबन्धुः

प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ १०॥
 
[ सर्गः १
 

 
गुर्जरीरागेण ऋषभादिना । दक्षिणो नायकः । तल्लक्षणं प्रागुक्तम् । विप्रलम्भाख्यः

शृङ्गारो रसः । लयो नाम छन्दः । तल्लक्षणम् – '-- "मुनियगणैर्लयमामनन्ति तज्ज्ञाः '
"
इति । तदुक्तं छन्दश्चूडामणौ चलय इति । विप्रलम्भविभावप्रसङ्गाद्वायुं वर्णयति – '-- "रचितो

गद्यपद्याद्यैर्वसन्ते पार्थिवोत्सवे । वसन्तरागे झम्पाख्यताले मध्यलयाञ्चिते ॥ गमकाल.
-
प्तिभूयिष्ठः पूर्णकल्पः प्रकीर्तितः । पूतौ पुनस्तेन पाटस्वराञ्चित विराजितः ॥ माधवोत्सवः

कमलाकरनामा प्रबन्धरा'ट्" ॥ ९ ॥ इति माधवोत्सवकमलाकरनामा तृतीयः प्रबन्धः ॥

<pratika>
दरेति ।</pratika> इह वने वसन्ते वा गन्धवाहो वायुश्चेतो दहति । अर्थाद् विरहिणाम् । किंभूतं

चेतः । प्रसरत् । अर्थान्मनोरथं प्रति । पुनः किंभूतम् । असमबाण प्राणवत्का मस्य

जीवितमिव । अथवा प्रसरदसमबाणप्राणवद्गन्धवाह इति पदम् । प्रसरता असमबाणेन

प्राणवांश्चासौ गन्धवाहः । वा प्रसरन्योऽसावसमबाणः तस्य प्राणवज्जीवितमिव ।

प्राणवतो वा । किंभूतो वायुः । केतकीगन्धसहचरः । किं कुर्वन् । काननानि वासयन् ।

कैः : । ईषद्विकसितमल्लीनां जातीलतानां चञ्चन्तो गच्छन्तो ये परागास्तैः प्रकटिता

ये पटवासाः वासचूर्णानि तैः । '"ननमयययुतेयं मालिनी भोगिलोकैः'" इति मालि-

नीछन्दः । अत्र समासोक्तिवर्णानुप्रासोपमालंकाराः । विप्रलम्भाख्यः शृङ्गारो रसः ।

पाञ्चाली रीतिः । अत्र विरहिहृदयविदारणपटीयसः पवनस्य त्रैविध्येन चेतोदाहक.
-
त्वोपन्यासेन युवतिजनस्य आत्मसात्कर्तृत्वेन यत्स्मरप्राणवत्त्वमुदितं तदौचित्यसर-

णिसागरप्लवनतरणित्वमातनोतितराम् । यदभाणि क्षेमेन्द्रेण - '- "तिलकं बिभ्रती सूक्ति-

र्भात्येकमुचितं पदम् । चन्द्राननेव कस्तूरीकृतं श्यामेव चन्दनम् ॥" इति ॥ १० ॥
 

 
रसमयसंबन्धिनो वनस्य वर्णनं यत्र । अतएव अनुगतमदनविकारं अनुगतः संप्राप्तो

मदनस्य विकारो यत्र तत् तादृशम् ॥ ९ ॥ संप्रति वसन्तकालीनवायोरपि विरहिजन-

संतापकारित्वमाह-- <pratika>दरेति । </pratika>इह हि अस्मिन्नेव वसन्ते गन्धवाहो वायुश्चेतो दहति ।
कैः । दरं

अर्थाद्विरहिणाम् । किं कुर्वन् । काननानि वनानि वासयन्सुरभीकुर्वन् ।
कैः । दरं
ईषद्विगलिता विकासिता मल्लीवल्लिर्मल्लिकालता तस्याः सकाशाच्चञ्चन्तः प्रसरन्तो ये परागा:
गाः
पुष्परेणवस्त एव प्रकटिता:ताः पटवासाः पिष्टातकास्तैः । कीदृग्गन्धवाहः । केतकीगन्धबन्धुः

केतकीपुष्पसौरभबन्धुः । पुनः कीदृशः । प्रसरतः प्रतिदिशं संचरतोऽसमबाणस्य कामस्य
प्र

प्रा
णवत्प्राणसदृशः । यद्वा प्रसरता असमबाणेन प्राणवान् शक्तिसंपन्नो यो गन्धवाह इत्येवं

पदम् । '"ईषदर्थे दरोऽव्ययम्'" इति विश्व: । 'वः । "परागः पुष्परजसि'" इति च '"पिष्टातः पटवासकः'
"
इत्यमरः । '"काननं वनम्'" इति च । ' "असव:वः प्राणाः'" इत्यपि । '"शक्ति:तिः पराक्रमः
 

 
[^
'.] "विगलित'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri