This page has not been fully proofread.

२८
 
गीतगोविन्दकाव्यम्
 
दरविर्दलितमल्लीवल्लिचञ्चत्पराग-
प्रकटितपटवासैर्वासयन्काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ १०॥
 
[ सर्गः १
 
गुर्जरीरागेण ऋषभादिना । दक्षिणो नायकः । तल्लक्षणं प्रागुक्तम् । विप्रलम्भाख्यः
शृङ्गारो रसः । लयो नाम छन्दः । तल्लक्षणम् – 'मुनियगणैर्लयमामनन्ति तज्ज्ञाः '
इति । तदुक्तं छन्दचूडामणौ चलय इति । विप्रलम्भविभावप्रसङ्गाद्वायुं वर्णयति – 'रचितो
गद्यपद्याद्यैर्वसन्ते पार्थिवोत्सवे । वसन्तरागे झम्पाख्यताले मध्यलयाञ्चिते ॥ गमकाल.
प्तिभूयिष्ठः पूर्णकल्पः प्रकीर्तितः । पूतौ पुनस्तेन पाटस्वराञ्चित विराजितः ॥ माधवोत्सवः
कमलाकरनामा प्रबन्धरा' ॥ ९ ॥ इति माधवोत्सवकमलाकरनामा तृतीयः प्रबन्धः ॥
दरेति । इह वने वसन्ते वा गन्धवाहो वायुश्चेतो दहति । अर्थाद् विरहिणाम् । किंभूतं
चेतः । प्रसरत् । अर्थान्मनोरथं प्रति । पुनः किंभूतम् । असमबाण प्राणवत्का मस्य
जीवितमिव । अथवा प्रसरदसमबाणप्राणवद्गन्धवाह इति पदम् । प्रसरता असमबाणेन
प्राणवांश्चासौ गन्धवाहः । वा प्रसरन्योऽसावसमबाणः तस्य प्राणवज्जीवितमिव ।
प्राणवतो वा । किंभूतो वायुः । केतकीगन्धसहचरः । किं कुर्वन् । काननानि वासयन् ।
कैः : । ईषद्विकसितमल्लीनां जातीलतानां चञ्चन्तो गच्छन्तो ये परागास्तैः प्रकटिता
ये पटवासाः वासचूर्णानि तैः । 'ननमयययुतेयं मालिनी भोगिलोकैः' इति मालि-
नीछन्दः । अत्र समासोक्तिवर्णानुप्रासोपमालंकाराः । विप्रलम्भाख्यः शृङ्गारो रसः ।
पाञ्चाली रीतिः । अत्र विरहिहृदयविदारणपटीयसः पवनस्य त्रैविध्येन चेतोदाहक.
त्वोपन्यासेन युवतिजनस्य आत्मसात्कर्तृत्वेन यत्स्मरप्राणवत्त्वमुदितं तदौचित्यसर-
णिसागरप्लवनतरणित्वमातनोतितराम् । यदभाणि क्षेमेन्द्रेण - 'तिलकं बिभ्रती सूक्ति-
र्भात्येकमुचितं पदम् । चन्द्राननेव कस्तूरीकृतं श्यामेव चन्दनम् ॥" इति ॥ १० ॥
 
रसमयसंबन्धिनो वनस्य वर्णनं यत्र । अतएव अनुगतमदनविकारं अनुगतः संप्राप्तो
मदनस्य विकारो यत्र तत् तादृशम् ॥ ९ ॥ संप्रति वसन्तकालीनवायोरपि विरहिजन-
संतापकारित्वमाह—दरेति । इह हि अस्मिन्नेव वसन्ते गन्धवाहो वायुश्चेतो दहति ।
कैः । दरं
अर्थाद्विरहिणाम् । किं कुर्वन् । काननानि वनानि वासयन्सुरभीकुर्वन् ।
ईषद्विगलिता विकासिता मल्लीवल्लिर्मल्लिकालता तस्याः सकाशाच्चञ्चन्तः प्रसरन्तो ये परागा:
पुष्परेणवस्त एव प्रकटिता: पटवासाः पिष्टातकास्तैः । कीदृग्गन्धवाहः । केतकीगन्धबन्धुः
केतकीपुष्पसौरभबन्धुः । पुनः कीदृशः । प्रसरतः प्रतिदिशं संचरतोऽसमबाणस्य कामस्य
प्रणवत्प्राणसदृशः । यद्वा प्रसरता असमबाणेन प्राणवान् शक्तिसंपन्नो यो गन्धवाह इत्येवं
पदम् । 'ईषदर्थे दरोऽव्ययम्' इति विश्व: । 'परागः पुष्परजसि' इति च 'पिष्टातः पटवासकः'
इत्यमरः । 'काननं वनम्' इति च । ' असव: प्राणाः' इत्यपि । 'शक्ति: पराक्रमः
 
१ 'विगलित' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri