This page has been fully proofread once and needs a second look.

[ सर्गः १
 

 
विगलितलज्जितजगद्वलोक[^१]नतरुणकरुणकृतहासे

विरहिनिकृन्तनकुन्तमुखाकृतिकेत[^२]कदन्तुरिताशे ॥ विह० ॥ ६ ॥

 
माधविकापरिमलललिते नवमालतिजातिसुगन्धौ ।
 

मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ विह० ॥ ७॥
 
२६
 
गीतगोविन्दकाव्यम्
 

 
कत्वान्महीपतिशब्दसाहचर्यादविरोधः । अथवा हेमदण्डरुचीनि केसराणीति योज्यम् ।

महीपतेरप्ग्रे कनकवेत्रधारिणो भवन्ति । <pratika>मिलितेति । </pratika>संगत शिलीमुखैः पाटलपटलै:
लैः
पाटलाकुसुमसमूहैः । अथवा पाटलिपटलेति पाठः । कृतः स्मरशरधिविलासोऽनुकारो

यत्र । शिलीमुखा भ्रमरा बाणाश्च । '"अलिबाणौ शिलीमुखौ'" इत्यभिधानात् ॥ ५ ॥

<pratika>
विगलितेति ।</pratika> लज्जैव लज्जितम् । भावे क्तः । गतलज्जजगदवलोकनेन तरुणैः करुणैः

कृतः कुसुमविकासव्याजेन हासो यत्र । विरहिनिकृन्तनकुन्तमुखाकारैः केतकैर्दन्तु-

रिता विषमीकृता आशा दिशो यत्र । निकृन्तन मिति चिन्त्यम् ॥ ६ ॥ <pratika>माधवि -

कापरिमलेति । </pratika>किंभूते वसन्ते । वासन्त्याः परिमलेन गन्धविशेषेण ललिते मोमनोहरे 1

 
कदण्ड:डः सुवर्णघटितदण्डयुक्तच्छत्रं तस्येव रुचिर्यस्यैतादृशस्य नागकेसरपुष्पस्य विकासः

प्रकाशो यत्र तादृशे । पुनः किंविशिष्टे । मिलिताः शिलीमुखा एवं बाणा यि
यस्मिं-
स्तादृशं यत्पाटलिपटलं पाटलापुष्पसमूहस्तेन कृतः स्मरतूणस्य कंदर्पतूणीरस्य विलास-

श्चेष्टितं यत्र तादृशे । अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां बाणसाम्यम् । '"चाम्पेयः

केसरो नागकेसरः काञ्चनाह्वयः'" इत्यमरः । '"अलिबाणौ शिलीमुखौ'" इति च । '"समूहे

पटलं स्मृतम्'" इति च । '"तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः'" इति च ॥ ५ ॥

पुनः कीदृशे । <pratika>विगलितेति । </pratika>विगलितं लज्जितं लज्जा यस्य जगतः प्राणिगणस्यावलो-

कितेन दर्शनेन तरुणकरुणैर्नवकरुणवृक्षैः पुष्पविकासव्याजेन कृतो हासो यत्र तादृशे

वसन्ते । अत्र हास्यरसस्य श्वेतत्वात्पुष्पविकासेन साम्यम् । यदाह भरतः -- "श्वेतो

हासः प्रकीर्तितः'" इति । यद्वा विगलितलज्जितानां विप्रयोगिजनानामवलोकितैस्तरुणै-

रर्थादवियोगिभिः करुणं करुणरससहितं यथा स्यादेवं कृतो हासो यत्र एतादृशे हासे ।

विरहिणो वराकाः कष्टं प्राप्नुवन्तीति करुणां लज्जां हित्वा विलपन्तीति च हासस्तेषामिति

भावः । बाला रसानभिशाज्ञा एव वृद्धाः परप्रच्यवेऽपि कृतसंवरणाः अतस्तरुणेत्युक्तम् । पुनः

कीदृशे वसन्ते । विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृतिः कुन्त

आयुधविशेषस्तस्य मुखमग्रभागस्तस्ये वाकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्याप्ता

आशा दिशो यस्मिंस्तादृशे वसन्ते । लज्जिते त्यत्रावलोकितेत्यत्रापि च नपुंसके भावे क्तः ।
'

"
करुणस्तु रसे वृक्षे कृपायां करुणा मता'" इति विश्वः । '"प्रासस्तु कुन्तः'" इत्यमरः ।
'

"
निम्नोन्नततया व्याप्ते दन्तुरं कथ्यते बुधैः'" इति धरणिः । '"आशा तृष्णादिशोः'" इति विश्वः ।
'

"
कृती छेदने' । ह" । ह्रस्वान्तसंज्ञकोऽप्यस्तीति केचित् (?) तस्य युप्रत्ययान्तस्य निकृन्तन मिति ।

क्वचिच्च '"केतकिदन्तुरिताशे'" इति पाठः । '"सपाकादौ स्वीकृतो ह्रस्वः कापि'" इत्यत्र कवि-

वचनस्य लज्जानुरोधार्थत्वात्कृतह्रस्वकेतकिशब्देन समर्थनीयम् ॥ ६ ॥ <pratika>माधविकेति ।
 

 
</pratika>
 
[^
'.] "अवलोकितकरुण'" इति पाठः । [^ '.] "केतकी'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri