This page has not been fully proofread.

[ सर्गः १
 

 
विगलितलज्जितजगद्वलोकनतरुणकरुणकृतहासे
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ विह० ॥ ६ ॥
माधविकापरिमलललिते नवमालतिजातिसुगन्धौ ।
 
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ विह० ॥ ७॥
 
२६
 
गीतगोविन्दकाव्यम्
 
कत्वान्महीपतिशब्दसाहचर्यादविरोधः । अथवा हेमदण्डरुचीनि केसराणीति योज्यम् ।
महीपतेरप्रे कनकवेत्रधारिणो भवन्ति । मिलितेति । संगत शिलीमुखैः पाटलपटलै:
पाटलाकुसुमसमूहैः । अथवा पाटलिपटलेति पाठः । कृतः स्मरशरधिविलासोऽनुकारो
यत्र । शिलीमुखा भ्रमरा बाणाश्च । 'अलिबाणौ शिलीमुखौ' इत्यभिधानात् ॥ ५ ॥
विगलितेति । लज्जैव लज्जितम् । भावे क्तः । गतलज्जजगदवलोकनेन तरुणैः करुणैः
कृतः कुसुमविकासव्याजेन हासो यत्र । विरहिनिकृन्तनकुन्तमुखाकारैः केतकैर्दन्तु-
रिता विषमीकृता आशा दिशो यत्र । निकृन्तन मिति चिन्त्यम् ॥ ६ ॥ माधवि -
कापरिमलेति । किंभूते वसन्ते । वासन्त्याः परिमलेन गन्धविशेषेण ललिते मोहरे 1
कदण्ड: सुवर्णघटितदण्डयुक्तच्छत्रं तस्येव रुचिर्यस्यैतादृशस्य नागकेसरपुष्पस्य विकासः
प्रकाशो यत्र तादृशे । पुनः किंविशिष्टे । मिलिताः शिलीमुखा एवं बाणा यि
स्तादृशं यत्पाटलिपटलं पाटलापुष्पसमूहस्तेन कृतः स्मरतूणस्य कंदर्पतूणीरस्य विलास-
श्चेष्टितं यत्र तादृशे । अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां बाणसाम्यम् । 'चाम्पेयः
केसरो नागकेसरः काञ्चनाह्वयः' इत्यमरः । 'अलिबाणौ शिलीमुखौ' इति च । 'समूहे
पटलं स्मृतम्' इति च । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधियोः' इति च ॥ ५ ॥
पुनः कीदृशे । विगलितेति । विगलितं लज्जितं लज्जा यस्य जगतः प्राणिगणस्यावलो-
कितेन दर्शनेन तरुणकरुणैर्नवकरुणवृक्षैः पुष्पविकासव्याजेन कृतो हासो यत्र तादृशे
वसन्ते । अत्र हास्यरसस्य श्वेतत्वात्पुष्पविकासेन साम्यम् । यदाह भरतः — श्वेतो
हासः प्रकीर्तितः' इति । यद्वा विगलितलज्जितानां विप्रयोगिजनानामवलोकितैस्तरुणै-
रर्थादवियोगिभिः करुणं करुणरससहितं यथा स्यादेवं कृतो हासो यत्र एतादृशे हासे ।
विरहिणो वराकाः कष्टं प्राप्नुवन्तीति करुणां लज्जां हित्वा विलपन्तीति च हासस्तेषामिति
भावः । बाला रसानभिशा एव वृद्धाः परप्रच्यवेऽपि कृतसंवरणाः अतस्तरुणेत्युक्तम् । पुनः
कीदृशे वसन्ते । विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृतिः कुन्त
आयुधविशेषस्तस्य मुखमग्रभागस्तस्ये वाकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्याप्ता
आशा दिशो यस्मिंस्तादृशे वसन्ते । लज्जिते त्यत्रावलोकितेत्यत्रापि च नपुंसके भावे क्तः ।
'करुणस्तु रसे वृक्षे कृपायां करुणा मता' इति विश्वः । 'प्रासस्तु कुन्तः' इत्यमरः ।
'निम्नोन्नततया व्याप्ते दन्तुरं कथ्यते बुधैः' इति धरणिः । 'आशा तृष्णादिशोः' इति विश्वः ।
'कृती छेदने' । हस्वान्तसंज्ञकोऽप्यस्तीति केचित् (?) तस्य युप्रत्ययान्तस्य निकृन्तन मिति ।
क्वचिच्च 'केतकिदन्तुरिताशे' इति पाठः । 'सपाकादौ स्वीकृतो हस्वः कापि' इत्यत्र कवि-
वचनस्य लज्जानुरोधार्थत्वात्कृत हस्वकेतकिशब्देन समर्थनीयम् ॥ ६ ॥ माधविकेति ।
 

 
१ 'अवलोकितकरुण' इति पाठः । २ 'केतकी' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri