This page has been fully proofread once and needs a second look.

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ विह० ॥ ३ ॥
 
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ वि० ॥ ४ ॥
 
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटल[^१]पटलकृतस्मरतूणविलासे ॥ विह० ॥ ५ ॥
 
वसन्ते ॥ २ ॥ <pratika>उन्मदमदनेति ।</pratika>किंभूते वसन्ते । उद्गतौ मदमदनौ हर्षकामौ यत्र ।
पूर्वं भूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र
वसन्ते । उद्रिक्तस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन । अथवा
उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते । अलिकुल-
व्याप्तकुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र । बकुला एव कलापस्तू-
णीरो वा स्मरशरधिः । "कलापो बर्हतूणयोः" इत्यमरः ॥ ३ ॥<pratika>मृगमदसौरभेति ।</pratika>
मृगमदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां
तादृशास्तमाला यत्र वसन्ते । वा तदामोदानि नवदलानि मालन्ते धारयन्तीति । <pratika>युव-
जनेति ।</pratika>युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुचिर्येषां ते
तादृशाः किंशुकानां जालानि कोरका यत्र वसन्ते । अत्र कामस्य नखरायुधत्वं कवि-
समयेऽप्रसिद्धम् ॥ ४ ॥ <pratika>मदनमहीपतीति ।</pratika>अत्रालापः । कामराजस्य हेमदण्डच्छ-
त्रसंनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र । अत्र केवलकनकदण्डस्य छत्रेऽवाच-
 
वसन्तस्य दुरन्ततामाह -- <pratika>उन्मदेति ।</pratika> उन्मद उद्भटो यो मदनः स एव मनोरथदृष्टः
पथिकवधूजनानां तैर्जनितः कृतो विलापो यस्मिंस्तादृशे । पुनः कीदृशे । अलिकुलैर्भ्र-
मरसमूहैः संकुलो व्याप्तो यः कुसुमसमूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः
केसरसमूहो यत्र तादृशे । यद्वा तादृशो बकुल एव कलापो भूषणं यत्र तादृशे । "कलापो
भूषणे बर्हे तूणीरे संहतावपि" इत्यमरः ॥ ३ ॥ पुनः कीदृशे ।<pratika>मृगमदेति ।</pratika>
मृगमदस्य कस्तूरिकायाः यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी
नवदलमालतमालो नूतनपत्रपङ्क्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन् । पुनः कीदृशे ।
युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदयविदारणास्तादृशः ये मनसिजस्य
कामस्य नखास्तेषामिव रुचिर्दीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां
जालं समूहो यत्र तादृशे । यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे ।
अत्र पलाशपुष्पस्य वक्रत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सादृश्यं
बोध्यम् । "मृगनाभिर्मृगमदः कस्तूरी च" इत्यमरः । "रभसो वेगहर्षयोः" इति च । <error>"काम-</error><fix>कामः</fix>
पञ्चशरः स्मरः । शंबरारिर्मनसिजः" इति च । "रुचिर्मयूखे शोभायामभिष्वङ्गविकासयोः" इति
विश्वः । "पलाशे किंशुकः स्मृतः" इति च । "जालं गवाक्ष आनाये कोरके दृप्तवृन्दयोः" इति
विश्वः ॥ ४ ॥ पुनः कीदृशे । <pratika>मदनेति ।</pratika>मदन एव महीपती राजा तस्य यः कन-
 
[^१.] "पाटलिपटल" इति पाठः ।