This page has been fully proofread once and needs a second look.

सर्गः १] रसिकप्रिया-
रस मञ्जर्याख्यटीकाद्वयोपेतम्
 
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे

अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे
॥ विह० ॥ ३ ॥
 
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।

युवजनहृदय विदारणमनसिजनखरुचिकिंशुकजाले
 
॥ वि० ॥ ४ ॥
 
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे

मिलितशिलीमुखपाटलैल[^१]पटलकृतस्मरतूणविलासे
 

 
॥ विह० ॥ ३ ॥
 

 
॥ वि० ॥ ४ ॥
 

 
॥ विह० ॥ ५ ॥
 

 
वसन्ते ॥ २ ॥ <pratika>उन्मदमदनेति । </pratika>किंभूते वसन्ते । उद्गतौ मदमदनौ हर्षकामौ यत्र ।

पूर्वं भूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र

वसन्ते । उद्रिक्तस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन । अथवा

उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते । अलिकुल-

व्याप्तकुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र । बकुला एव कलापस्तू-

णीरो वा स्मरशरधिः । '"कलापो बर्हतूणयोः'" इत्यमरः ॥ ३ ॥ <pratika>मृगमदसौरभेति ।
</pratika>
मृगमदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां

तादृशास्तमाला यत्र वसन्ते । वा तदामोदानि नवदलानि मालन्ते धारयन्तीति । <pratika>युव
-
जनेति । </pratika>युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुचिर्येषां ते

तादृशाः किंशुकानां जालानि कोरका यत्र वसन्ते । अत्र कामस्य नखरायुधत्वं कवि-

समयेऽप्रसिद्धम् ॥ ४ ॥ <pratika>मदनमहीपतीति । </pratika>अत्रालापः । कामराजस्य हेमदण्डच्छ-

त्रसंनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र । अत्र केवलकनकदण्डस्य छत्रेऽवाच-

 
वसन्तस्य दुरन्ततामाह - - <pratika>उन्मदेति ।</pratika> उन्मद उद्भटो यो मदनः स एव मनोरथदृष्टः

पथिकवधूजनानां तैर्जनितः कृतो विलापो यस्मिंस्तादृशे । पुनः कीदृशे । अलिकुलैर्भ्र-

मरसमूहै:हैः संकुलो व्याप्तो यः कुसुमसमूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः

केसरसमूहो यत्र तादृशे । यद्वा तादृशो बकुल एव कलापो भूषणं यत्र तादृशे । '"कलापो

भूषणे बर्हे तूणीरे संहतावपि '" इत्यमरः ॥ ३ ॥ पुनः कीदृशे । <pratika>मृगमदेति ।
</pratika>
मृगमदस्य कस्तूरिकायाः यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी

नवदलमालतमालो नूतनपत्रपङ्क्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन् । पुनः कीदृशे ।

युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदय विदारणास्ता दृशः ये मनसिजस्य

कामस्य नखास्तेषामिव रुचिर्दीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां

जालं समूहो यत्र तादृशे । यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे ।

अत्र पलाशपुष्पस्य वक्रत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सादृश्यं

बोध्यम् । '"मृगनाभिर्मृगमदः कस्तूरी च'" इत्यमरः । '"रभसो वेगहर्षयोः'" इति च । '<error>"काम-
</error><fix>कामः</fix>
पञ्चशरः स्मरः । शंबरारिर्मनसिज: 'जः" इति च । '"रुचिर्मयूखे शोभायामभिष्वङ्गविकासयोः'" इति

विश्व: । 'वः । "पलाशे किंशुकः स्मृतः'" इति च । '"जालं गवाक्ष आनाये कोरके दृप्तवृन्दयोः'" इति

विश्वः ॥ ४ ॥ पुनः कीदृशे । <pratika>मदनेति । </pratika>मदन एव महीपती राजा तस्य यः कन-

 
[^
'.] "पाटलिपटल'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri