This page has not been fully proofread.

सर्गः १] रसिकप्रिया-
रस मञ्जर्याख्यटीकाद्वयोपेतम्
 
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदय विदारणमनसिजनखरुचिकिंशुकजाले
 
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे
मिलितशिलीमुखपाटलैपटलकृतस्मरतूणविलासे
 

 
॥ विह० ॥ ३ ॥
 
२५
 
॥ वि० ॥ ४ ॥
 

 
॥ विह० ॥ ५ ॥
 
वसन्ते ॥ २ ॥ उन्मदमदनेति । किंभूते वसन्ते । उद्गतौ मदमदनौ हर्षकामौ यत्र ।
पूर्वं भूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र
वसन्ते । उद्रिक्तस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन । अथवा
उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते । अलिकुल-
व्याप्तकुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र । बकुला एव कलापस्तू-
णीरो वा स्मरशरधिः । 'कलापो बर्हतूणयोः' इत्यमरः ॥ ३ ॥ मृगमदसौरभेति ।
मृगमदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां
तादृशास्तमाला यत्र वसन्ते । वा तदामोदानि नवदलानि मालन्ते धारयन्तीति । युव
जनेति । युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुचिर्येषां ते
तादृशाः किंशुकानां जालानि कोरका यत्र वसन्ते । अत्र कामस्य नखरायुधत्वं कवि-
समयेऽप्रसिद्धम् ॥ ४ ॥ मदनमहीपतीति । अत्रालापः । कामराजस्य हेमदण्डच्छ-
त्रसंनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र । अत्र केवलकनकदण्डस्य छत्रेऽवाच-
वसन्तस्य दुरन्ततामाह - उन्मदेति । उन्मद उद्भटो यो मदनः स एव मनोरथदृष्टः
पथिकवधूजनानां तैर्जनितः कृतो विलापो यस्मिंस्तादृशे । पुनः कीदृशे । अलिकुलैर्भ्र-
मरसमूहै: संकुलो व्याप्तो यः कुसुमसमूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः
केसरसमूहो यत्र तादृशे । यद्वा तादृशो बकुल एव कलापो भूषणं यत्र तादृशे । 'कलापो
भूषणे बर्हे तूणीरे संहतावपि ' इत्यमरः ॥ ३ ॥ पुनः कीदृशे । मृगमदेति ।
मृगमदस्य कस्तूरिकायाः यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी
नवदलमालतमालो नूतनपत्रपङ्क्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन् । पुनः कीदृशे ।
युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदय विदारणास्ता दृशः ये मनसिजस्य
कामस्य नखास्तेषामिव रुचिदीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां
जालं समूहो यत्र तादृशे । यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे ।
अत्र पलाशपुष्पस्य वऋत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सादृश्यं
बोध्यम् । 'मृगनाभिर्मृगमदः कस्तूरी च' इत्यमरः । 'रभसो वेगहर्षयोः' इति च । 'काम-
पञ्चशरः स्मरः । शंबरारिर्मनसिज: ' इति च । 'रुचिर्मयूखे शोभायामभिष्वङ्गविकासयोः' इति
विश्व: । 'पलाशे किंशुकः स्मृतः' इति च । 'जालं गवाक्ष आनाये कोरके दृप्तवृन्दयोः' इति
विश्वः ॥ ४ ॥ पुनः कीदृशे । मदनेति । मदन एव महीपती राजा तस्य यः कन-
१ 'पाटलिपटल' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri