This page has been fully proofread once and needs a second look.

वसन्तरागयतितालाभ्यां गीयते ॥ प्र० ॥ ३ ॥
 
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ।

विहरति हरिरिह सरसवसन्ते
नृत्यति युवतिजने न समं सखि विरहिजनस्य दुरन्ते ॥ ध्रुवम् ॥ २ ॥
 
वलद्बाधामिति पाठे "वलङ् सृतिसंवरणयोः" इत्यात्मनेपदी । वलङः परस्मैपदत्वं चिन्त्य-
म् ॥१॥ अन्यत्रापि प्रयोगोऽप्यस्ति तथा । सावेवोत्तरत्रोदा दूष्णवान् पुनर्बलः (?) ।
केवलादिति । अमुमेवार्थं विशदयति ॥ झम्पातालेन द्रुतद्वयेन विरामान्तेन । <pratika>ललि -
तेति ।</pratika>विशेषणसौकर्यार्थं पूर्वं ध्रुवपदं व्याख्यायते -- <pratika>विहरतीति ।</pratika>इह राधासखी
सबाधां राधां विनोदार्थं श्रीकृष्णं प्रति प्रेरयति । हे सखि राधे । सर चल । यं हरिं
त्वं विलोकयसे स हरिरिह वृन्दावने वसन्ते वसन्तसमये विहरति । क्व सति । समं
सशोभं साकं युवतिजने नृत्यति सति । किंभूते वसन्ते । चलनार्थहेतुगर्भं विशेषणम् ।
विरहिजनस्य दुरन्ते न इति न अपि तु दुरन्ते एवेति काक्वोभयदर्शनम् । अथवा जनो
जीवनं तेन समं दुरन्ते । जीवनं वसन्तश्चोभयं विरहिणां दुःखप्राप्यं तस्मिन् ।
अथवा सरसवसन्त इति पदम् । सरसः साभिलाषः स चासौ वसन्तश्च तस्मिन् ।
विहरति युवतिजनेन समं नृत्यति च । चकारोऽध्याहार्यः । इति ध्रुवपदम् ॥ <pratika>ललि-
तेति</pratika> -- ललितलवङ्गलतापरिशीलनेन कोमलो मलयमारुतो यत्र वसन्त इति ।
एतेन शीतो मन्दः सुरभिश्चेति वायोस्त्रैविध्यमुक्तम् । अत्र लवङ्गलतासमीरयोर्ना-
यिकात्वनायकत्वेनोद्दीपनविभावत्वमुक्तम् । पुनः किंभूते वसन्ते । मधुकरनिकरेण
करम्बितैर्मिश्रितैः कोकिलैः कूजितः शब्दितः कुञ्ज एव कुटीरोऽल्पा कुटी यत्र
 
जटाभिस्तापस इतिवत् इत्थंभूतलक्षणे तृतीया । "वासन्ती माधवीलता" इत्यमरः । "कान्तारं
वर्त्म दुर्गमम्" इति च । "पीडा बाधा व्यथा दुःखम्" इत्यपि ॥ १ ॥ किमूचे इत्यत आह --
<pratika>ललितेति ।</pratika>गीतस्यास्य वसन्तरागः । रूपकतालः । गीतार्थस्तु हे सखि, इह सरसवसन्ते
शृङ्गाररसप्रधाने हरिः कृष्णो विहरति क्रीडति । क्रीडाप्रकर्षमाह -- <pratika>नृत्यतीति ।</pratika> युवतिजनेन
सह नृत्यति । कीदृशे वसन्ते । विरहिजनस्य वियोगिनो जनस्य दुरन्ते दुःखेनान्तः
समाप्तिर्यत्र स तस्मिन् । अयं वसन्तो विरहिणीदारुणो न तु युवतिभिः सह क्रीडतः
कृष्णस्य । त्वं विरहिणी यदि कृष्णं नानुसरिष्यसि तदा स तवापि दुरन्तो भविष्यतीति
भावः । इदं च ध्रुवपदम् । "समं सह" इत्यमरः । वसन्तस्य सरसतामाह --
<pratika>ललितेति ।</pratika>ललिता मनोहरा या लवङ्गलता तस्याः परिशीलनेन संपर्केण कोमलो मृदुल:
मलयसमीरो मलयाचलसंबन्धी वायुर्यत्र तादृशे । पुनः कीदृशे । मधुकरनिकरेण भ्रमरसमूहेन
करम्बिता मिश्रिता ये कोकिलास्तैः कूजितः शब्दयुक्तः कृतः कुञ्ज एव कुटीरो-
Sल्पकुटी यत्र तादृशे । "समीरमारुतमरुज्जगत्प्राणसमीरणाः" इत्यमरः । "मधुव्रतो
मधुकरो मधुलिण्मधुपालिनः" इति च । "स्तोमौघनिकरव्रातवारसंघातसंचयाः" इत्यपि ।
"मिश्रितेऽपि करम्बितम्" इति विश्वः । "अल्पा कुटी कुटीरः स्यात्" इति च ॥ २ ॥