2022-10-18 04:13:53 by ambuda-bot
This page has not been fully proofread.
२४
गीतगोविन्दकाव्यम्
वसन्तरागयतितालाभ्यां गीयते ॥ प्र० ॥ ३ ॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
[ सर्ग: १
मधुकरनिकरकर म्बितकोकिलकूजितकुञ्जकुटीरे ।
विहरति हरिरिह सरसवसन्ते
नृत्यति युवतिजने न समं सखि विरहिजनस्य दुरन्ते ॥ ध्रुवम् ॥ २ ॥
वलद्वाधामिति पाठे 'वलङ् सृतिसंवरणयोः' इत्यात्मनेपदी । वलङः परस्मैपदत्वं चिन्त्य-
म् ॥१॥ अन्यत्रापि प्रयोगोऽप्यस्ति तथा । सावेवोत्तरत्रोदा दूष्णवान् पुनर्बलः (?) ।
केवलादिति । अमुमेवार्थं विशदयति ॥ झम्पातालेन द्रुतद्वयेन विरामान्तेन । ललि -
तेति । विशेषणसौकर्यार्थ पूर्वं ध्रुवपदं व्याख्यायते - विहरतीति । इह राधासखी
सबाधां राधां विनोदार्थं श्रीकृष्णं प्रति प्रेरयति । हे सखि राधे । सर चल । यं हरिं
त्वं विलोकयसे स हरिरिह वृन्दावने वसन्ते वसन्तसमये विहरति । क सति । समं
सशोभं साकं युवतिजने नृत्यति सति । किंभूते वसन्ते । चलनार्थहेतुगर्भं विशेषणम् ।
विरहिजनस्य दुरन्ते न इति न अपि तु दुरन्ते एवेति काक्कोभयदर्शनम् । अथवा जनो
जीवनं तेन समं दुरन्ते । जीवनं वसन्तश्चोभयं विरहिणां दुःखप्राप्यं तस्मिन् ।
अथवा सरसवसन्त इति पदम् । सरसः साभिलाषः स चासौ वसन्तश्च तस्मिन् ।
विहरति युवतिजनेन समं नृत्यति च । चकारोऽध्याहार्यः । इति ध्रुवपदम् ॥ ललि-
तेति – ललितलवङ्गलतापरिशीलनेन कोमलो मलयमारुतो यत्र वसन्त इति ।
एतेन शीतो मन्दः सुरभिश्चेति वायोस्वैविध्यमुक्तम् । अत्र लवङ्गलतासमीरयोर्ना-
यिकात्वनायकत्वेनोद्दीपनविभावत्वमुक्तम् । पुनः किंभूते वसन्ते । मधुकरनिक रेण
करम्बितैर्मिश्रितैः कोकिलै : कूजितः शब्दितः कुञ्ज एव कुटीरोऽल्पा कुटी यत्र
जटाभिस्तापस इतिवत् इत्थंभूतलक्षणे तृतीया । 'वासन्ती माधवीलता' इत्यमरः । 'कान्तारं
वर्त्म दुर्गमम्' इति च । 'पीडा बाधा व्यथा दुःखम्' इत्यपि ॥ १ ॥ किमूचे इत्यत आह -
ललितेति । गीतस्यास्य वसन्तरागः । रूपकतालः । गीतार्थस्तु हे सखि, इह सरसवसन्ते
शृङ्गाररसप्रधाने हरिः कृष्णो विहरति क्रीडति । क्रीडाप्रकर्षमाह - नृत्यतीति । युवतिजनेन
सह नृत्यति । कीदृशे वसन्ते । विरहिजनस्य वियोगिनो जनस्य दुरन्ते दुःखेनान्तः
समाप्तिर्यत्र स तस्मिन् । अयं वसन्तो विरहिणीदारुणो न तु युवतिभिः सह क्रीडतः
कृष्णस्य । त्वं विरहिणी यदि कृष्णं नानुसरिष्यसि तदा स तवापि दुरन्तो भविष्यतीति
भावः । इदं च ध्रुवपदम् । 'समं सह' इत्यमरः । वसन्तस्य सरसतामाह-
ललितेति । ललिता मनोहरा या लवङ्गलता तस्याः परिशीलनेन संपर्केण कोमलो मृदुल:
मलयसमीरो मलयाचलसंबन्धी वायुर्यन्त्र तादृशे । पुनः कीदृशे । मधुकरनिकरेण भ्रमरसमूहेन
करम्बिता मिश्रिता ये कोकिलास्तैः कूजितः शब्दयुक्तः कृतः कुञ्ज एव कुटीरो.
Sल्पकुटी यत्र तादृशे । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । 'मधुव्रतो
मधुकरो मधुलिण्मधुपालिनः' इति च । 'स्तोमौघनिकरवातवारसंघातसंचयाः' इत्यपि ।
'मिश्रितेऽपि करम्बितम्" इति विश्व: । 'अल्पा कुटी कुटीर: स्यात्' इति च ॥ २ ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri