This page has been fully proofread once and needs a second look.

सर्ग: १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-

र्
भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।

अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
 
वै

व[^१]
लद्वाबाधां राधां सरसमिद्मूचे सहचरी ॥ १ ॥
 

 
इदानीं भणितेषु मरिचावचूर्णना सा ( नूनं ) कटुरपि स्पृहावहेति योगमाश्रित्य विप्र-

लम्भपूर्वको हि संभोगो रसिकजनरसनीयतामापद्यत इति कविना आद्यपद्ये कथाबीजले-
त्वे-
न संभोगस्य यद्विप्रलम्भपूर्वकत्वं सूचितं तदेव प्रकटीकुर्वन्कृष्णोत्कण्ठितां राधां काप्यु-

त्तम्भितमुखेन हरिकथया प्रोत्साहयन्त्याह -- <pratika>वसन्ते वासन्तीति ।</pratika> काचन सहचरी

इदं वक्ष्यमाणं सरसं रसवत् राधामूचे उक्तवती । किंभूताम् । वसन्ते ऋतौ अमन्दं

यथा स्यात्तथा कन्दर्पहेतुज्वरजनितचिन्ताकुलतया वलद्वाबाधाम् । कन्दर्पहेतुज्वरजनि-

तचिन्ताकुलवेन वलन्ती यातायातं कुर्वाणा बाधा यस्याः । चिन्ताकुले हि चेतसि

बाधा यात्यायाति चेति प्रसिद्धम् । किंभूताम् । बहु अनेकधा दूत्यादिना विहितकृष्णा-

नुसरणां तदर्थमेव कान्तारे भ्रमन्तीम् । किंभूताम् । वासन्तीकुसुमवन्माधवीलताकुसु-

मवत्सुकुमारैरवयवैरुपलक्षिताम् । वसन्ते हि माधवीकुसुममुद्रिक्तं भवति । अतः

कामोद्रेकसौकुमार्ये च साम्म् । अत्र लुप्तोपमालंकारः । दक्षिणो नायकः । तल्लक्ष-

णम्-' -- "स्नेहलौल्यमवैषम्यवशतस्तुल्यतामिषम् । नायिका स्वप्यनेकासु दक्षिणः स स्मृतो

यथा'" । विरहोत्कण्ठिता नायिका । '"उत्का भवति सा यस्या वासके नागतः प्रियः ।

तस्याऽनागमने हेतुं चिन्तयत्या कुला यथा ॥" तस्या अभिलाषो नाम दशाविशेषो

यथा - '- "व्यवसायो भवेद्यत्र बाढं तत्संगमाशया । संकल्पाकुलचित्तत्वात्सोभिलाषः स्मृतो

यथा ॥'" वासन्तीकुसुमसुकुमारैरित्यत्र लुप्तोपमालंकारः- ' - "वादेर्लोपे समासे वा कर्मा-

धारक्यचि क्यङि । कर्मकर्त्रारोर्णमुली'" इति । वृत्त्यनुप्रासः-' -- "एकस्याप्यस कृत्परः'" इति

शिखरिणी छन्दः—'रसे -- "रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी'" । वैदर्भी रीतिः । तस्या

अनोपनागरिकेति संज्ञान्तरम् । यथा- ' -- "माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते'" इति ।

 
एताद्ग्रन्थेनाभिधेयप्रयोजनके लिवर्णनोपयुक्तनायकगुणप्रतिपादनपुरःसराणि मङ्गलानि विधाय

कविः शृङ्गाररसप्रधानभगवत्केलिवर्णनं चिकीर्षुस्तत्संभोगापेक्षया विप्रलम्भस्योत्कृष्टत्वादादौ

विप्रलम्भशृङ्गारवर्णनाय विरहोत्कण्ठितराधायाश्चरितानि वर्णयितुं प्रस्तावयति – वसन्त
-- <pratika>वसन्त
इति । </pratika>संभोगापेक्षयात्र विप्रलम्भस्योत्कर्षं प्रति त्वालंकारिकाः -- "न विना विप्रलम्भेन

संभोगः पुष्टिमञ्जश्नुते । कषायिते हि वस्त्रादौ भूयान्रागोऽभिजायते'" । इति ।

श्लोकार्थस्तु -- काचित्सहचरी सखी वसन्ते सरसं यथा स्यादेवं राधामिदं वक्ष्यमाणमूचे

उवाच । कीदृशीम् । अवयवैरुपलक्षिताम् । कीदृशैरवयवैः । वासन्तीकुसुमसुकुमारैर्मा-

धवीलतापुष्पवत्कोमलैः । पुनः कीदृशीम् । कान्तारे महारण्ये भ्रमन्तीम् । हेतुगर्भविशेष-

णमाह । बहुविहितेति । बहु वारंवारं विहितं कृतं कृष्णानुसरणमन्वेषणं यया तादृशीम् ।

अत्र हेतुगर्भविशेषणमाह । <pratika>कंदर्पेति । </pratika>कंदर्पज्वरेण जनिता या चिन्ता तत्कृता या
भा

कुलता तथा अमन्दमधिकं यथा स्यादेवं चलद्वाबाधां प्रवर्धमानपीडाम् । अवयवैरित्यत्र

 
[^
'.] "चलत्'" इति पाठः ।
 
-
 
-
 
२३
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri