2022-10-18 04:13:52 by ambuda-bot
This page has not been fully proofread.
सर्ग: १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-
भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
वैलद्वाधां राधां सरसमिद्मूचे सहचरी ॥ १ ॥
इदानीं भणितेषु मरिचावचूर्णना सा ( नूनं ) कटुरपि स्पृहावहेति योगमाश्रित्य विप्र-
लम्भपूर्वको हि संभोगो रसिकजनरसनीयतामापद्यत इति कविना आद्यपद्ये कथाबीजले-
न संभोगस्य यद्विप्रलम्भपूर्वकत्वं सूचितं तदेव प्रकटीकुर्वन्कृष्णोत्कण्ठितां राधां काप्यु-
त्तम्भितमुखेन हरिकथया प्रोत्साहयन्त्याह – वसन्ते वासन्तीति । काचन सहचरी
इदं वक्ष्यमाणं सरसं रसवत् राधामूचे उक्तवती । किंभूताम् । वसन्ते ऋतौ अमन्दं
यथा स्यात्तथा कन्दर्पहेतुज्वरजनितचिन्ताकुलतया वलद्वाधाम् । कन्दर्पहेतुज्वरजनि-
तचिन्ताकुलवेन वलन्ती यातायातं कुर्वाणा बाधा यस्याः । चिन्ताकुले हि चेतसि
बाधा यात्यायाति चेति प्रसिद्धम् । किंभूताम् । बहु अनेकधा दूत्यादिना विहितकृष्णा-
नुसरणां तदर्थमेव कान्तारे भ्रमन्तीम् । किंभूताम् । वासन्तीकुसुमवन्माधवीलताकुसु-
मवत्सुकुमारैरवयवैरुपलक्षिताम् । वसन्ते हि माधवीकुसुममुद्रिक्तं भवति । अतः
कामोद्रेकसौकुमार्ये च साम्गम् । अत्र लुप्तोपमालंकारः । दक्षिणो नायकः । तल्लक्ष-
णम्-'स्नेहलौल्यमवैषम्यवशतस्तुल्यतामिषम् । नायिका स्वप्यनेकासु दक्षिणः स स्मृतो
यथा' । विरहोत्कण्ठिता नायिका । 'उत्का भवति सा यस्या वासके नागतः प्रियः ।
तस्याऽनागमने हेतुं चिन्तयत्या कुला यथा ॥ तस्या अभिलाषो नाम दशाविशेषो
यथा - 'व्यवसायो भवेद्यत्र बाढं तत्संगमाशया । संकल्पाकुलचित्तत्वात्सोभिलाषः स्मृतो
यथा ॥' वासन्तीकुसुमसुकुमारैरित्यत्र लुप्तोपमालंकारः- 'वादेर्लोपे समासे वा कर्मा-
धारक्यचि क्यङि । कर्मकर्त्रार्णमुली' इति । वृत्त्यनुप्रासः-'एकस्याप्यस कृत्परः' इति
शिखरिणी छन्दः—'रसे रुद्रैश्छिन्ना यमनसभलागः शिखरिणी' । वैदर्भी रीतिः । तस्या
अनोपनागरिकेति संज्ञान्तरम् । यथा- 'माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते' इति ।
एताबद्ग्रन्थेनाभिधेयप्रयोजनके लिवर्णनोपयुक्तनायकगुणप्रतिपादनपुरःसराणि मङ्गलानि विधाय
कविः शृङ्गाररसप्रधानभगवत्केलिवर्णनं चिकीर्षुस्तत्संभोगापेक्षया विप्रलम्भस्योत्कृष्टत्वादादौ
विप्रलम्भशृङ्गारवर्णनाय विरहोत्कण्ठितराधायाश्चरितानि वर्णयितुं प्रस्तावयति – वसन्त
इति । संभोगापेक्षयात्र विप्रलम्भस्योत्कर्षं प्रति त्वालंकारिकाः – न विना विप्रलम्भेन
संभोगः पुष्टिमञ्जते । कषायिते हि वस्त्रादौ भूयान्रागोऽभिजायते' । इति ।
श्लोकार्थस्तु—काचित्सहचरी सखी वसन्ते सरसं यथा स्यादेवं राधामिदं वक्ष्यमाणमूचे
उवाच । कीदृशीम् । अवयवैरुपलक्षिताम् । कीदृशैरवयवैः । वासन्तीकुसुमसुकुमारैर्मा-
धवीलतापुष्पवत्कोमलैः । पुनः कीदृशीम् । कान्तारे महारण्ये भ्रमन्तीम् । हेतुगर्भविशेष-
णमाह । बहुविहितेति । बहु वारंवारं विहितं कृतं कृष्ण नुसरणमन्वेषणं यया तादृशीम् ।
अत्र हेतुगर्भविशेषणमाह । कंदर्पेति । कंदर्पज्वरेण जनिता या चिन्ता तत्कृता या
भाकुलता तथा अमन्दमधिकं यथा स्यादेवं चलद्वाधां प्रवर्धमानपीडाम् । अवयवैरित्यत्र
१ 'चलत्' इति पाठः ।
-
-
२३
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri