This page has been fully proofread once and needs a second look.

२२
 
गीतगोविन्दकाव्यम्
 
पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो
 
[ सर्गः १
 
मधुसूदनस्य ।
 

व्यक्तानुरागमिव
खेलद नङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥१०॥
 
व्यक्तानुरागमिव
 

 

 
इदानीं श्रीकृष्णं क्रीडानिदानं वसन्तं दर्शयन्भक्तान भिनन्दति खड्गादिकेन

पूर्णेन वसन्तरागेण --<pratika>पद्मापयोधरतटीति </pratika>-- अनुपूरयतु पूर्तितिं नयतु । किम् ।

प्रियं वाञ्छितम् । केषां । वो युष्माकम् । किं कर्तृभूतम् । उरो वक्षः । कस्य । मधु-

सूदनस्य । किंभूतम् । पद्मायाः पयोधरौ तयोस्तटी भृगू तयोः परिरम्भेण लग्नं

सक्तं काश्मीरं कुङ्कुमं तेन मुद्रितं कृतमुद्रम् । एतेन स्तनयोः शैलत्वात्तच्छिखरा-

लिङ्गनेन तयोरतिशयालिङ्गनव्याजेन जाता मुद्रा यस्मिंस्तत् । अत एव व्यक्ता-

नुरागमिव प्रतीयमानानुरागमिव । अस्यानुरागो माऽन्यस्यां स्यादिति लक्ष्म्या मुद्रा

दत्ता । अथवा नेदं कुङ्कुमं किंतु हृदिस्थोऽनुरागो बहिर्भूत इव । किंभूतम् ।

खेलन् अनङ्गखेदजातः सुरतश्रमजातः स्वेदाम्बुपूरो यत्र तत्तथा ॥ अत्रेदमा-

कूतम् । अयमालिङ्गति मां परं त्वनुरागो राधायामेवेति मुद्रार्थः । तदसूचि

कविना '"राधामाधवयोः'" इति पूर्वपद्ये । अत्र मुग्धा नायिका । कुशलो नायकः ।

वसन्ततिलका वृत्तम् । आशीर्वर्णानुप्रासालंकारौ उत्प्रेक्षा च
। शृङ्गारो रसः ।

अत्र मधुसूदनस्य परमप्रेमास्पदकान्तोरःस्थलोपगूहुनेन व्यक्तानुरागरूपकाश्मीर-

संवलितस्य परमप्रीतिभाजनरसाद्यद्भक्तानां श्रियानुपूरणमाशीर्वचनमुक्तं ततः सुत-

मौचित्यमावहति । यदुक्तम्
– '
-- "पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः । उचि,
-
ताशीर्नृपस्येव भवत्यभ्युदयावहा ॥'" इति ॥ १० ॥
 

 
विस्वरं विरसं चैव विस्पष्टं विषमाहतम् । व्याकुलं तालहीनं च गीतदोषान्विदुर्बुधाः ॥

॥ ९ ॥ श्रीकृष्णनायकसामान्यगुणानुक्त्वा संप्रति नायकगुणान्कथयन्नाशीरूपं मङ्गलमा.
-
चरति -- <pratika>पद्मेति । </pratika>मधुसूदनस्य उरो हृदयं वो युष्माकं वाञ्छितमनुपूरयतु संपूर्णं करोतु

कीदृशमुरः । पद्माया लक्ष्म्याः पयोधरतटी स्तनप्रान्तस्तस्य परिरम्भे आलिङ्गने लग्नं

यत्काश्मीरं कुङ्कुमं तेन मुद्रितमिव मुद्रा चिह्नविशेषस्तद्युक्तमिव । इदं मधुसूदनहृदयं

ममैव न त्वन्यस्येति स्थापनाय लक्ष्म्या निजस्तनतटे लिप्तकाश्मीरमुद्रेव दत्तेति भावः ।

पुनः कीदृशम् । खेलति क्रीडां कुर्वति अनङ्गे कामदेवे सति यः खेद आयासस्तेन

यत्स्वेदाम्बु प्रस्वेदजलं तस्य पूरः प्रवाहो यत्र तादृशम् । एतेन चिरलिप्तस्य काश्नीरस्य
मीरस्य
शुष्कत्वेऽपि स्वेदसम्बन्धेन तस्य मुद्रा योग्यत्वमिति ध्वनितम् । कीदृशमिव । व्यक्तानुरागमिव ।

व्यक्तः प्रकटीभूतोऽनुरागः स्नेहो यत्र तादृशमिव । अत्र लक्ष्मीविषयानुरागाधिक्यादभ्यन्तरे

समावेशाभाव।वात्कुङ्कुमरागव्याजेन बहिर्निःसृत इति भावः । मुद्रा संजाता अस्येति

तारकादित्वादितच् । '"लक्ष्मी:मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया'" इत्यमरः । '"स्त्रीस्तनाब्दौ

पयोधरौ'" इति च । '"परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्'" इति च । '"काश्मीरं

कुङ्कुमं प्रोक्तं टङ्कपुष्करमूलयोः'" इति विश्वः । अनेन सर्वदा लक्ष्म्या दृढानुरागकथनेन

दाक्षिण्यरूपो नायकगुण उक्तः
। तदुक्तं शृङ्गारतिलके– ' -- "यो गौरवं भयप्रेमसद्भावं

पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥'" इति ॥ १० ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri