2022-10-18 04:13:52 by ambuda-bot
This page has not been fully proofread.
२२
गीतगोविन्दकाव्यम्
पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो
[ सर्गः १
मधुसूदनस्य ।
खेलद नङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥१०॥
व्यक्तानुरागमिव
।
इदानीं श्रीकृष्णं क्रीडानिदानं वसन्तं दर्शयन्भक्तान भिनन्दति खड्गादिकेन
पूर्णेन वसन्तरागेण – पद्मापयोधरतटीति - अनुपूरयतु पूर्ति नयतु । किम् ।
प्रियं वाञ्छितम् । केषां । वो युष्माकम् । किं कर्तृभूतम् । उरो वक्षः । कस्य । मधु-
सूदनस्य । किंभूतम् । पद्मायाः पयोधरौ तयोस्तटी भृगू तयोः परिरम्भेण लग्नं
सक्तं काश्मीरं कुङ्कुमं तेन मुद्रितं कृतमुद्रम् । एतेन स्तनयोः शैलवात्तच्छिखरा-
लिङ्गनेन तयोरतिशयालिङ्गनव्याजेन जाता मुद्रा यस्मिंस्तत् । अत एव व्यक्ता-
नुरागमिव प्रतीयमानानुरागमिव । अस्यानुरागो माऽन्यस्यां स्यादिति लक्ष्म्या मुद्रा
दत्ता । अथवा नेदं कुङ्कुमं किंतु हृदिस्थोऽनुरागो बहिर्भूत इव । किंभूतम् ।
खेलन् अनङ्गखेदजातः सुरतश्रमजातः स्वेदाम्बुपूरो यत्र तत्तथा ॥ अत्रेदमा-
कूतम् । अयमालिङ्गति मां परं वनुरागो राधायामेवेति मुद्रार्थः । तदसूचि
कविना 'राधामाधवयोः' इति पूर्वपद्ये । अत्र मुग्धा नायिका । कुशलो नायकः ।
वसन्ततिलका वृत्तम् । आशीर्वर्णानुप्रासालंकारौ उत्प्रेक्षा च
। शृङ्गारो रसः ।
अत्र मधुसूदनस्य परमप्रेमास्पदकान्तोरःस्थलोपगूहुनेन व्यक्तानुरागरूपकाश्मीर-
संवलितस्य परमप्रीतिभाजनरसाद्यद्भक्तानां श्रियानुपूरणमाशीर्वचनमुक्तं ततः सुत-
मौचित्यमावहति । यदुक्तम्
– 'पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः । उचि,
ताशीर्नृपस्येव भवत्यभ्युदयावहा ॥' इति ॥ १० ॥
विस्वरं विरसं चैव विस्पष्टं विषमाहतम् । व्याकुलं तालहीनं च गीतदोषान्विदुर्बुधाः ॥
॥ ९ ॥ श्रीकृष्णनायकसामान्यगुणानुक्त्वा संप्रति नायकगुणान्कथयन्नाशीरूपं मङ्गलमा.
चरति—पद्मेति । मधुसूदनस्य उरो हृदयं वो युष्माकं वाञ्छितमनुपूरयतु संपूर्ण करोतु
कीदृशमुरः । पद्माया लक्ष्म्याः पयोधरतटी स्तनप्रान्तस्तस्य परिरम्भे आलिङ्गने लग्नं
यत्काश्मीरं कुङ्कुमं तेन मुद्रितमिव मुद्रा चिह्नविशेषस्तयुक्तमिव । इदं मधुसूदनहृदयं
ममैव न त्वन्यस्येति स्थापनाय लक्ष्म्या निजस्तनतटे लिप्तकाश्मीरमुद्रेव दत्तेति भावः ।
पुनः कीदृशम् । खेलति क्रीडां कुर्वति अनङ्गे कामदेवे सति यः खेद आयासस्तेन
यत्स्वेदाम्बु प्रस्वेदजलं तस्य पूरः प्रवाहो यत्र तादृशम् । एतेन चिरलिप्तस्य काश्नीरस्य
शुष्कत्वेऽपि स्वेदसम्बन्धेन तस्य मुद्रा योग्यत्वमिति ध्वनितम् । कीदृशमिव । व्यक्तानुरागमिव ।
व्यक्तः प्रकटीभूतोऽनुरागः स्नेहो यत्र तादृशमिव । अत्र लक्ष्मीविषयानुरागाधिक्यादभ्यन्तरे
समावेशाभाव।त्कुङ्कुमरागव्याजेन बहिर्निःसृत इति भावः । मुद्रा संजाता अस्येति
तारकादित्वादितच् । 'लक्ष्मी: पद्मालया पद्मा कमला श्रीर्हरिप्रिया' इत्यमरः । 'स्त्रीस्तनाब्दौ
पयोधरौ' इति च । 'परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्' इति च । 'काश्मीरं
कुङ्कुमं प्रोक्तं टङ्कपुष्करमूलयोः' इति विश्वः । अनेन सर्वदा लक्ष्म्या दृढानुरागकथनेन
दाक्षिण्यरूपो नायकगुण उक्तः
। तदुक्तं शृङ्गारतिलके– 'यो गौरवं भयप्रेमसद्भावं
पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥' इति ॥ १० ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri