This page has been fully proofread once and needs a second look.

२०
 
गीतगोविन्दकाव्यम्
 
अमलकमलदललोचन
 
भवमोचन ए
 

त्रिभुवन[^१]भवननिदान जय जय देव हरे ॥ ५ ॥
 

 
जनकसुताकृतभूषण जितदूषण ए
 

समरशमितदशकण्ठ जय जय देव हरे ॥ ६ ॥

 
अभिनवजलधरसुन्दर धृतमन्दर ए
 

श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ ७ ॥
 
[ सर्गः १
 
.
 

 
त्वम् । इति ध्रुवः ॥ ४ ॥ <pratika> अमलेति । </pratika> आलापः । <pratika>त्रिभुवनेति ।</pratika> अमलकमल-

दले इव लोचने यस्य स तथा तस्य संबुद्धिः । अपरं च । हे भवमोचन हे संसार-

मोचन । अथवा हे मेषरूप (?) जीवत्रातः । इति पदम् । हे त्रिभुवनभवन निदान

हे त्रिलोकीसमुत्पत्त्यादिकारण । इति ध्रुवः ॥ ५ ॥ <pratika>जनकेति ।</pratika> अत्रालापः । <pratika>सम-

रेति ।</pratika> हे जनकसुताकृतभूषण जनकसुतायाः कृतं भूषणं येन । जितो दूषणो राक्षसो

येन इति पदम् । हे समरशमितदशकण्ठ संहारितो रावणो येन इति ध्रुवः ॥ ६ ॥

<pratika>
अभिनवेति ।</pratika> अत्रालापः । हे अभिनवजलधरसुन्दर । हे वृधृतमन्दर । निगदव्या-

ख्यानम् । इति पदम् । हे श्रीमुखचन्द्रचकोर श्रीमुखं चन्द्र इव तत्र चकोर इव ।

 
मुरनाम्नो नरकनाम्नो दैत्यस्य विनाशन विनाशकारिन् । अनेनापि सामर्थ्यमुक्तम्

पुनः कीदृश । सुरकुलकेलीनां देवसमूहक्रीडानां निदान आदिकारण । अनेनापि सामर्थ्य -

मुक्तम् । '"सुरो देवः'" इति विश्वः । '"सजातीये गणे गोत्रे देहेऽपि भणितं कुलम्'" इति

च । '"निदानं त्वादिकारणम्'" इत्यमरः ॥ ४ ॥ पुनः कीदृश । <pratika>अमलेति ।</pratika> भवमोचन

भवो जन्म तस्मात्प्रपन्नान्मोचयतीति तादृश । मोक्षप्रदेत्यर्थः । अत एव भवखण्डनेत्य-

नेनापौनरुक्त्यम् । यतस्तत्र भवपदस्य जगत्परतया प्रलयकारित्वमुक्तम् । अत्र तु

भवपदस्य जन्मपरतया मोक्षप्रदत्वमुक्तमेव । अनेन मोक्षप्रदत्वेन परमानन्दरूपो नायकगुण

उक्तः । कीदृश । <pratika>त्रिभुवनेति ।</pratika> त्रिभुवनमेव भवनं गृहं तदेव निधानं

वासस्थानं यस्य तादृश । यद्वा त्रिभुवने निधानमिव महाधानम् । '"दलं पर्णं छदः

पुमान्'" इत्यमरः । '"भवनं भाववेश्मनोः'" इत्यमरः । '"निधानं त्वालये निधौ'" इति

विश्वः ॥ ५ ॥ पुनः कीदृश । <pratika>जनकसुतेति ।</pratika> जनकसुताकृतभूषण जनकसुतायाः सीतायाः

कृतानि भूषणानि मकरिकापत्रादीनि येन तादृश । अनेन सकलकलाकौशलरूप-

स्तारुण्यरूपश्च नायकगुण उक्तः । पुनः कीदृश । जितो दूषणनामा राक्षसो येन

स तादृश । यद्वा जितानि स्वस्मिन् तिरस्कृतानि दूषणानि दोषा येन तादृशेत्यर्थः ।

पुनः कीदृश । समरे सङ्ग्रामे शमितो नाशितो दशकण्ठो रावणो येन सः । अनेन पर-

माभिमानिनो रावणस्य वधेनाभिमानरूपो नायकगुण उक्तः । रामावतारपौरुषवर्णनेन

रामगतक्षमारूपोऽपि नायकगुणः सूचितः । '"अस्त्रियां समरानीकरणाः'
" इत्यमरः
॥ ६ ॥ पुनः कीदृश । <pratika>अभिनवेति ।</pratika> अभिनवो नूतनो यो जलधरः सजलमेघ-

स्तद्वत्सुन्दरः । अनेनापि भवत्वमुक्तम् । पुनः कीदृश । धृतः क्षीराब्धिमन्थनावसरे मन्दरो
 
इत्यमरः
 

 
[^
'.] "भवननिधान'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri