This page has not been fully proofread.

२०
 
गीतगोविन्दकाव्यम्
 
अमलकमलदललोचन
 
भवमोचन ए
 
त्रिभुवनभवननिदान जय जय देव हरे ॥ ५ ॥
 
जनकसुताकृतभूषण जितदूषण ए
 
समरशमितदशकण्ठ जय जय देव हरे ॥ ६ ॥
अभिनवजलधरसुन्दर धृतमन्दर ए
 
श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ ७ ॥
 
[ सर्गः १
 
.
 
त्वम् । इति ध्रुवः ॥ ४ ॥ अमलेति । आलापः । त्रिभुवनेति । अमलकमल-
दले इव लोचने यस्य स तथा तस्य संबुद्धिः । अपरं च । हे भवमोचन हे संसार-
मोचन । अथवा हे मेषरूप (?) जीवत्रातः । इति पदम् । हे त्रिभुवनभवन निदान
हे त्रिलोकीसमुत्पत्त्यादिकारण । इति ध्रुवः ॥ ५ ॥ जनकेति । अत्रालापः । सम-
रेति । हे जनकसुताकृतभूषण जनकसुतायाः कृतं भूषणं येन । जितो दूषणो राक्षसो
येन इति पदम् । हे समरशमितदशकण्ठ संहारितो रावणो येन इति ध्रुवः ॥ ६ ॥
अभिनवेति । अत्रालापः । हे अभिनवजलधरसुन्दर । हे वृतमन्दर । निगदव्या-
ख्यानम् । इति पदम् । हे श्रीमुखचन्द्रचकोर श्रीमुखं चन्द्र इव तत्र चकोर इव ।
मुरनाम्नो नरकनाम्नो दैत्यस्य विनाशन विनाशकारिन् । अनेनापि सामर्थ्यमुक्तम्
पुनः कीदृश । सुरकुलकेलीनां देवसमूहक्रीडानां निदान आदिकारण । अनेनापि सामर्थ्य -
मुक्तम् । 'सुरो देवः' इति विश्वः । 'सजातीये गणे गोत्रे देहेऽपि भणितं कुलम्' इति
च । 'निदानं त्वादिकारणम्' इत्यमरः ॥ ४ ॥ पुनः कीदृश । अमलेति । भवमोचन
भवो जन्म तस्मात्प्रपन्नान्मोचयतीति तादृश । मोक्षप्रदेत्यर्थः । अत एव भवखण्डनेत्य-
नेनापौनरुवत्यम् । यतस्तत्र भवपदस्य जगत्परतया प्रलयकारित्वमुक्तम् । अत्र तु
भवपदस्य जन्मपरतया मोक्षप्रदत्वमुक्तमेव । अनेन मोक्षप्रदत्वेन परमानन्दरूपो नायकगुण
उक्तः । कीदृश । त्रिभुवनेति । त्रिभुवनमेव भवनं गृहं तदेव निधानं
वासस्थानं यस्य तादृश । यद्वा त्रिभुवने निधानमिव महाधानम् । 'दलं पर्ण छदः
पुमान्' इत्यमरः । 'भवनं भाववेश्मनोः' इत्यमरः । 'निधानं त्वालये निधौ' इति
विश्वः ॥ ५ ॥ पुनः कीदृश । जनकसुतेति । जनकसुताकृतभूषण जनकसुतायाः सीतायाः
कृतानि भूषणानि मकरिकापत्रादीनि येन तादृश । अनेन सकलकलाकौशलरूप-
स्तारुण्यरूपश्च नायकगुण उक्तः । पुनः कीदृश । जितो दूषणनामा राक्षसो येन
स तादृश । यद्वा जितानि स्वस्मिन् तिरस्कृतानि दूषणानि दोषा येन तादृशेत्यर्थः ।
पुनः कीदृश । समरे सङ्ग्रामे शमितो नाशितो दशकण्ठो रावणो येन सः । अनेन पर-
माभिमानिनो रावणस्य वधेनाभिमानरूपो नायकगुण उक्तः । रामावतारपौरुषवर्णनेन
रामगतक्षमारूपोऽपि नायकगुणः सूचितः । 'अस्त्रियां समरानीकरणाः'
॥ ६ ॥ पुनः कीदृश । अभिनवेति । अभिनवो नूतनो यो जलधरः सजलमेघ-
स्तद्वत्सुन्दरः । अनेनापि भवत्वमुक्तम् । पुनः कीदृश । धृतः क्षीराब्धिमन्थनावसरे मन्दरो
 
इत्यमरः
 
१ 'भवननिधान' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri