This page has not been fully proofread.

सर्गः १ ]
 
रसिकप्रिया - रसमञ्जर्याख्यटीकाद्वयोपेतम् १९
 
दिनमणिमण्डलमण्डन भवखण्डन ए
मुनिजनमानसहंस
 
जय जय देव हरे ॥ २ ॥
 
कालिय विषधरगञ्जन जनरञ्जन ए
 
यदुकुलनलिनदिनेश जय जय देव हरे ॥ ३ ॥
 
मधुमुरनरकविनाशन गरुडासन ए
सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥
 
ललिता मनोहरा आर्द्रा क्लिन्ना वनमाला पुष्पदाम येन । 'वनमम्भसि कानने'इति तज्ज-
न्यत्वात्पुष्पाणि कमलानि वा तेषां माला ॥१॥ दिनमणीति । अत्रालापो बोद्धव्यः ।
मुनिजनेति । हे दिनमणिमण्डलमण्डन भानुमण्डलालंकरण । सवितृमण्डलम-
ध्यवर्तित्वात् । तस्य संबुद्धिः । हे भवखण्डन संसारच्छेदक । 'नन्दिग्रहि-' इत्यादि-
ना ल्युः । ए इति गानपदम् । मुनिजनेत्यादि ध्रुवः । मुनिजनानां मानसानीव मान-
सानि तेषु हंस इव हंसः । अथ मुनीनां मानसे ध्येयत्वाद्धंसः परं ब्रह्म । मुनिमानस इति
वक्तव्ये जनग्रहणं लोकपर्यायः । जनो लोक इति पर्यायेत्यभिधाने यावन्तो मुनय इति
॥२॥ कालियेति । अत्रालापः । यदुकुलेति । हे कालियाभिधसर्पदमन । तद्धाति
वाज्जनरञ्जन । बालेन महाबलेन महाविषधरदमनाज्जनानामाह्लादोऽभूत् । हे यदुकुल-
नलिन दिनेश यदुकुलं नलिनमिव तत्प्रकाशकत्वात्सूर्य इव । अत्र पूर्वपूर्वस्योत्तरोत्तरं
प्रति हेतुभाव इति ध्रुवः ॥ ३ ॥ मधुमुरेति । अत्रालापः । सुरेति । मधुमुर-
नरकान्विनाशयति यस्तस्य संबोधनं । हे सुरकुलकेलिनिदान । असुरवधात्तत्कारण-
श्रीर्हरिप्रिया' इत्यमरः । 'कुचौ स्तनौ' इति च । 'आपादलम्बिनी माला वनमालेति
तां विदुः' इति विश्वः । 'पत्रपुष्पमयी माला वनमाला प्रकीर्तिता' ॥ १ ॥ पुनः कीदृश ।
दिनमणीति । दिनमणे: सूर्यस्य यन्मण्डलं तस्य मण्डन हारभूत । तथा च 'ध्येयः
सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः' इति पुराणोक्तवचनात् ।
एतेन स्थिरसखित्वमुक्तम् । पुनः कीदृश । भवं संसारं खण्डयतीति भवखण्डनः
प्रलयकर्ता तादृश । अनेन सामर्थ्यरूपो नायकगुण उक्तः । पुनः किंभूतः । मुनिजनानां
मानसं चित्तं तदेव मानसं सरोवरविशेषस्तत्र हंसो मरालः । अत्र मुनिजनमानसं
स्वच्छत्वाद्धंसाश्रयत्वेन च साधारणधर्मेण मानससरोवरत्वेन निरूपितम् । भगवतश्च
मुनिजनमानसेषु समुचितस्थितिं मत्वा साधारणधर्मेण हंसत्वेन निरूपणम् । 'मानसं
सरसि स्वान्ते' इति विश्वः ॥ २ ॥ पुनः कीदृश । कालियेति । कालियनाम्नो विषधरस्य
गञ्जन तिरस्कारक । अनेनातिसामर्थ्यमुक्तम् । पुनः कीदृश । जनरञ्जनेति ।
जनान्मधुरवचनादिना रञ्जयतीति जनरञ्जन । अनेन शुभवचनत्वं नायकगुण उक्तः ।
पुनः कीदृश । यदुकुलेति । यदुकुलमेव नलिनं कमलं तस्य दिनेशः सूर्य॑ः । प्रकाशकत्वात् ।
एतेन कुलीनत्वं नायकेऽप्युक्तम् । 'आशीविषो विषधरश्चक्री व्यालः सरीसृपः' इत्यमरः ।
'वा पुंसि पद्मं नलिनम्' इति च ॥ ३ ॥ पुनः कीदृश । मधुमुरेति । मधुनाम्नो
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri