This page has been fully proofread once and needs a second look.

<bold>गुर्जरीरागनिःसारतालाभ्यां गीयते ॥ प्र० ॥ २ ॥ </bold>
 
श्रितकमलाकुचमण्डल धृतकुण्डल ए
कलितललितवनमाल जय जय देव हरे ॥ ध्रुवम् ॥ १ ॥
 
षचौ भ्रमरः" इति भ्रमरो नाम छन्दः । "बालभुजङ्गमललितम्" इति छन्दश्चूडामणिरपि ।
"छन्दसा कीर्तिपूर्वेण धवलेन विनिर्मितः । पदान्तभोगरुचिरस्ततः पाटस्वराञ्चितः ॥
दशावतारकीर्त्याढ्यो धवलोऽयं प्रबन्धराट् । रागोऽत्र मध्यमादिः स्यादादितालो विल-
म्बितः ॥ लयः स्यान्मागधी रीतिः शृङ्गारोऽत्र रसः स्मृतः । कीर्तनं वासुदेवस्य विनि-
योगो नृपोत्सवे ॥" ॥ १२ ॥ इति दशावतारकीर्तिधवलो नाम प्रथमः प्रबन्धः ॥
इदानीं वर्ण्यमानं श्रीकृष्णं स्वरूपनिरूपणद्वारा मङ्गलगीतेन स्तौति । तत्रेदमाद्यं पदं
ललितरागेण लघ्वादिताल इति आदिताले गीयते ॥ "गीतमुद्ग्राह्यते येन स उद्ग्राहः
प्रकीर्तितः । आभोगस्त्वन्तिम इति ध्रुवत्वाच्च ध्रुवः स्मृतः ॥" उद्ग्राहादिधातूनां
विश्रामभूमित्वात् । अन्यानि च उद्ग्राहादिप्रतिरूपकाणि पदानीति प्रतिबोद्धव्यम् । एव-
मन्यास्वष्टपदीषु ज्ञेयम् ॥ <pratika>श्रितकमलेति । </pratika>अत्र "ए"काराद्यालापो ज्ञेयः । जय जय
देव हरे इत्यत्र ध्रुवः । श्रितं कमलायाः कुचमण्डलं येन स तथा तस्य संबोध-
नम् । धृते कुण्डले येन स तथा तस्य संबुद्धिः । ए इति एतदन्ते रागपूर्त्यै गानवे-
लायां प्रतिपदं एतावत्पदम् । जयदेव हरे इति सर्वत्र ध्रुवपदम् । कलिता धृता
 
किमिति मया धृता इत्याशङ्क्य अवताराणां प्रयोजनमाह -- <pratika>वेदानुद्धरते इति ।</pratika> वेदानुद्धरते
मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय । जगद्भुवनं निवहते कच्छपरूपेण धारयते ।
पुनः भूगोलं भूमण्डलमुद्बिभ्रते धारयते । पुनः किंभूताय । दैत्यान् दारयते विदारयते । पुनः
किंभूताय । बलिं दैत्यं छलयते वामनरूपेण वञ्चयते । पुनः कीदृशाय । क्षत्रक्षयं कुर्वते
परशुरामरूपेण दुर्वृत्तक्षत्रियाणां नाशं कुर्वते । पुनः कीदृशाय । पौलस्त्यं रावणं
श्रीरामचन्द्ररूपेण जयते । पुनः कीदृशाय । हलं कलयते दुष्टनिग्रहायायुधत्वेन बलभद्ररूपेण
कलयते । कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते । म्लेच्छान्कल्किरूपेण मूर्च्छयते
नाशयते । "आकृतिः कथिता रूपे सामान्यवपुषोरपि" इति विश्वः ॥ १२ ॥
पूर्वं केलयो जयन्तीत्युक्तं, केलिश्च नायकोत्कर्षं विना न संभवति । तस्मात्समस्तनायक-
चूडामणेर्भगवतः श्रीकृष्णदेवस्य लोकोत्तरगुणान्वर्णयन्नेव मङ्गलान्तरमथाचरति -- <pratika> श्रितेति । </pratika>
गीतस्यास्य गुर्जरी रागस्तालश्च प्रतिमठः । गीतार्थस्तु हे हरे, जय । जय जयेत्यादरे द्विर्वचनम् ।
इदं तु ध्रुवपदम् । नायकगुणानाह -- <pratika>श्रितेति । </pratika> श्रितमाश्रितं कमलायाः कुचमण्डलं
येन । लक्ष्मीप्रियत्वेन धनाढ्यत्वमपि सूचितम् । "प्लुतमात्रे प्रवृत्तिः स्याद्यत्र ताले
निरन्तरम् । प्रतिमठः स विज्ञेयः (?) सा गीयते रसः ॥" कीदृश -- <pratika>धृतेति । </pratika>धृते कुण्डले
कर्णाभरणे येन । तादृश । पुनः कीदृश । कलिता धृता लम्बिता वनमाला मनोहरा
चरणपर्यन्तावलम्बिनी पुष्पमाला येन तादृश । एतद्विशेषणद्वयेन सेव्यत्वमुक्तम् । "कमला