This page has been fully proofread once and needs a second look.

१८
 
[ सर्गः १
 
<bold>गुर्जरीरागनिःसारतालाभ्यां गीयते ॥ प्र० ॥ २ ॥
 
</bold>
 
श्रितकमलाकुचमण्डल
 
धृतकुण्डल ए
 

कलितललितवनमाल जय जय देव हरे ॥ ध्रुवम् ॥ १ ॥
 
गीतगोविन्दकाव्यम्
 

 
षचौ भ्रमरः'" इति भ्रमरो नाम छन्दः । '"बालभुजङ्गमललितम्'" इति छन्दश्चूडामणिरपि ।
'

"
छन्दसा कीर्तिपूर्वेण धवलेन विनिर्मितः । पदान्तभोगरुचिरस्तः पाटस्वराञ्चितः ॥

दशावतारकीर्त्याढ्यो धवलोऽयं प्रबन्धराट् । रागोऽत्र मध्यमादिः स्यादादितालो विल-

म्बितः ॥ लयः स्यान्मागधी रीतिः शृङ्गारोऽत्र रसः स्मृतः । कीर्तनं वासुदेवस्य विनि-

योगो नृपोत्सवे ॥" ॥ १२ ॥ इति दशावतार कीर्तिधवलो नाम प्रथमः प्रबन्धः ॥
 

इदानीं वर्ण्यमानं श्रीकृष्णं स्वरूपनिरूपणद्वारा मङ्गलगीतेन स्तौति । तत्रेदमाद्यं पदं

ललितरागेण लध्घ्वादिताल इति आदिताले गीयते ॥ '"गीतमुद्ग्राह्यते येन स उद्भाग्राहः

प्रकीर्तितः । आभोगस्त्वन्तिम इति ध्रुवत्वाच्च ध्रुवः स्मृतः ॥'" उद्भाग्राहादिधातूनां

विश्रामभूमित्वात् । अन्यानि च उद्भाग्राहादिप्रतिरूपकाणि पदानीति प्रतिबोद्धव्यम् । एव
-
मन्यास्वष्टपदीषु ज्ञेयम् ॥ <pratika>श्रितकमलेति । </pratika>अत्र '"' "काराद्यालापो ज्ञेयः । जय जय

देव हरे इत्यत्र ध्रुवः । श्रितं कमलायाः कुचमण्डलं येन स तथा तस्य संबोध-

नम्
। धृते कुण्डले येन स तथा तस्य संबुद्धिः । ए इति एतदन्ते रागपूर्लेंत्यै गानवे-

लायां प्रतिपदं एतावत्पदम् । जयदेव हरे इति सर्वत्र ध्रुवपदम् । कलिता घृता
 

 
धृता
 
किमिति मया धृता इत्याशङ्क्य अवताराणां प्रयोजनमाह - - <pratika>वेदानुद्धरते इति ।</pratika> वेदानुद्धरते

मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय । जगद्भुवनं निवहते कच्छपरूपेण धारयते

पुनः भूगोलं भूमण्डलमुद्विबिभ्रते धारयते । पुनः किंभूताय । दैत्यान् दारयते विदारयते । पुनः

किंभूताय । बलिं दैत्यं छलयते वामनरूपेण वञ्चयते । पुनः कीदृशाय । क्षत्रक्षयं कुर्वते

परशुरामरूपेण दुर्वृत्तक्षत्रियाणां नाशं कुर्वते । पुनः कीदृशाय । पौलस्त्यं रावणं

श्रीरामचन्द्ररूपेण जयते । पुनः कीदृशाय । हलं कलयते दुष्टनिग्रहायायुधत्वेन बलभद्ररूपेण

कलयते । कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते । म्लेच्छान्कल्किरूपेण मूर्च्छयते

नाशयते । '"आकृतिः कथिता रूपे सामान्यवपुषोरपि'" इति विश्वः ॥ १२ ॥
 

पूर्वं केलयो जयन्तीत्युक्तं, केलिश्च नायकोत्कर्षं विना न संभवति । तस्मात्समस्त नायक-

चूडामणेर्भगवतः श्रीकृष्णदेवस्य लोकोत्तरगुणान्वर्णयन्नेव मङ्गलान्तरमथाचरति -- <pratika> श्रितेति ।
</pratika>
गीतस्यास्य गुर्जरी रागस्तालश्च प्रतिमठः । गीतार्थस्तु हे हरे, जय । जय जयेत्यादरे द्विर्वचनम् ।

इदं तु ध्रुवपदम् । नायंकगुणानाह -- <pratika>श्रितेति । </pratika> श्रितमाश्रितं कमलायाः कुचमण्डलं

येन । लक्ष्मीप्रियत्वेन धनाढ्यत्वमपि सूचितम् । '"प्लुतमात्रे प्रवृत्तिः स्याद्यत्र ताले

निरन्तरम् । प्रतिमठः स विज्ञेयः (?) सा गीयते रसः ॥'" कीदृश -- <pratika>धृतेति । </pratika>धृते कुण्डले

कर्णाभरणे येन । तादृश । पुनः कीदृश । कलिता धृता लम्बिता वनमाला मनोहरा

चरणपर्यन्तावलम्बिनी पुष्पमाला येन तादृश । एतद्विशेषणद्वयेन सेव्यत्वमुक्तम् । '"कमला
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri