2022-10-18 04:13:50 by ambuda-bot
This page has not been fully proofread.
१८
[ सर्गः १
गुर्जरीरागनिःसारतालाभ्यां गीयते ॥ प्र० ॥ २ ॥
श्रितकमलाकुचमण्डल
धृतकुण्डल ए
कलितललितवनमाल जय जय देव हरे ॥ ध्रुवम् ॥ १ ॥
गीतगोविन्दकाव्यम्
षचौ भ्रमरः' इति भ्रमरो नाम छन्दः । 'बालभुजङ्गमललितम्' इति छन्दश्चूडामणिरपि ।
'छन्दसा कीर्तिपूर्वेण धवलेन विनिर्मितः । पदान्तभोगरुचिरस्वतः पाटस्वराञ्चितः ॥
दशावतारकीर्त्याढ्यो धवलोऽयं प्रबन्धराट् । रागोऽत्र मध्यमादिः स्यादादितालो विल-
म्बितः ॥ लयः स्यान्मागधी रीतिः शृङ्गारोऽत्र रसः स्मृतः । कीर्तनं वासुदेवस्य विनि-
योगो नृपोत्सवे ॥" ॥ १२ ॥ इति दशावतार कीर्तिधवलो नाम प्रथमः प्रबन्धः ॥
इदानीं वर्ण्यमानं श्रीकृष्णं स्वरूपनिरूपणद्वारा मङ्गलगीतेन स्तौति । तत्रेदमाद्यं पदं
ललितरागेण लध्वादिताल इति आदिताले गीयते ॥ 'गीतमुद्राह्यते येन स उद्भाहः
प्रकीर्तितः । आभोगस्त्वन्तिम इति ध्रुवत्वाच ध्रुवः स्मृतः ॥' उद्भाहादिधातूनां
विश्रामभूमित्वात् । अन्यानि च उद्भाहादिप्रतिरूपकाणि पदानीति प्रतिबोद्धव्यम् । एव
मन्यास्वष्टपदीषु ज्ञेयम् ॥ श्रितकमलेति । अत्र 'ए' काराद्यालापो ज्ञेयः । जय जय
देव हरे इत्यत्र ध्रुवः । श्रितं कमलायाः कुचमण्डलं येन स तथा तस्य संबोध-
। धृते कुण्डले येन स तथा तस्य संबुद्धिः । ए इति एतदन्ते रागपूर्लें गानवे-
लायां प्रतिपदं एतावत्पदम् । जयदेव हरे इति सर्वत्र ध्रुवपदम् । कलिता घृता
।
किमिति मया धृता इत्याशय अवताराणां प्रयोजनमाह - वेदानुद्धरते इति । वेदानुद्धरते
मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय । जगद्भुवनं निवहते कच्छपरूपेण धारयते
पुनः भूगोलं भूमण्डलमुद्विभ्रते धारयते । पुनः किंभूताय । दैत्यान् दारयते विदारयते । पुनः
किंभूताय । बलिं दैत्यं छलयते वामनरूपेण वञ्चयते । पुनः कीदृशाय । क्षत्रक्षयं कुर्वते
परशुरामरूपेण दुर्वृत्तक्षत्रियाणां नाशं कुर्वते । पुनः कीदृशाय । पौलस्त्यं रावणं
श्रीरामचन्द्ररूपेण जयते। पुनः कीदृशाय । हलं कलयते दुष्टनिग्रहायायुधत्वेन बलभद्ररूपेण
कलयते । कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते । म्लेच्छान्कल्किरूपेण मूर्च्छयते
नाशयते । 'आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः ॥ १२ ॥
पूर्व केलयो जयन्तीत्युक्तं, केलिश्च नायकोत्कर्षं विना न संभवति । तस्मात्समस्त नायक-
चूडामणेर्भगवतः श्रीकृष्णदेवस्य लोकोत्तरगुणान्वर्णयन्नव मङ्गलान्तरमथाचरति — श्रितेति ।
गीतस्यास्य गुर्जरी रागस्तालश्च प्रतिमठः । गीतार्थस्तु हे हरे, जय । जय जयेत्यादरे द्विर्वचनम् ।
इदं तु ध्रुवपदम् । नायंकगुणानाह–श्रितेति । श्रिमश्रितं कमलायाः कुचमण्डलं
येन । लक्ष्मीप्रियत्वेन धनाढ्यत्वमपि सूचितम् । 'प्लुतमात्रे प्रवृत्तिः स्याद्यत्र ताले
निरन्तरम् । प्रतिमठः स विज्ञेयः (?) सा गीयते रसः ॥' कीदृश – धृतेति । धृते कुण्डले
कर्णाभरणे येन । तादृश । पुनः कीदृश । कलिता धृता लम्बिता वनमाला मनोहरा
चरणपर्यन्तावलम्बिनी पुष्पमाला येन तादृश । एतद्विशेषणद्वयेन सेव्यत्वमुक्तम् । 'कमला
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri