This page has been fully proofread once and needs a second look.

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
s
 
श्रीजयदेवकवेरिदमुदितमुदारम्
 

शृणु शुभदं सुखदं भवसारम् ।
 

केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥

 
वेदानुद्धरते जगन्निवहते भूगोलमुद्विबिभ्रते

दैत्यान्दारयते बलिं छलयते क्षेत्रक्षयं कुर्वते ।

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
 

म्लेच्छान्सूमूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२ ॥
 

 
म्लेच्छेत्यत्र धीरोद्धतो नायकः । तल्लक्षणमुक्तं प्राक् ॥ १० ॥ इदानीं दशभिरवतारैः

कृतविस्तारभेदेन श्रीकृष्णपरत्वेनोपसंहरन्नाह । तथाच वक्ष्यति '"वेदानुद्धरते'" इत्यादि ।

केशव धृतदशविधरूप, जय <error>जयदीश </error><fix> जगदीश </fix> हरे इति ध्रुवे इति विशेषः । <pratika> श्रीजयदेवकवे-

रिति । </pratika> हे वृधृतदशविधरूप, जयदेवकवेर्मम इदं स्तोत्ररूपं उदितं भणितं शृणु

मामकीनोऽयं मां स्तौतीति बुद्ध्यावधारय । किंभूतम् । उदारम् । झटिति पदार्था-

र्पकम् । पुनश्च भवसारम् । भवे संसारे सारं साररूपम् । अथवा भवोच्छेद कहेतु-

मध्ये सारम् । मध्यमपदलोपित्वात् । अत एव सुखदम् । सद्यः परनिर्वृति हेतुत्वात् ।

अत एव शुभम् । शिवेतरक्षति हेतुवात् । अत्र शान्तो रसः । पर्यायोक्तिरलंकारः ॥११॥

इदानीं दशानामप्यवताराणाममेभेदं निरूप्य तत्तद्रूपं श्रीकृष्णं प्रणमति -- <pratika> वेदानुद्धरत

इति । </pratika>हे हरे, तुभ्यं कृष्णाय नमः । वेदानुद्धरत इत्यादि मीनावतारादिपदव्याख्याने-

नैव निगदव्याख्यातम् । वृत्तमिदं शार्दूलविक्रीडितम् । दीपकोऽलंकारः । वेदानुद्धरत

इत्यत्र पदेषूक्ता नायकाः । अत्र प्रलयपयोधीत्याद्ये कादशस्वपि पदेषु कीर्तिध-

वलं नाम छन्दः । तल्लक्षणं यथा-
-
-- "अयुजि पदे द्वादशैव युजि तु यस्य हि दश वाष्ट
-
मात्राश्चेत् । परमपि पदयुगमेवं तं कीर्तिधवलमिह धीराः प्राहुः ॥'" ध्रुवपदे तु '"षता-
-
 

 
रालो भीषणोऽन्यवत्'" इति च ॥ १० ॥ प्रत्येकावतारपुरस्कारेण भगवतः स्तुतिं कृत्वा संप्रति

समुदितदशावतारंपुरस्कारेण श्रीकृष्णं स्तौति -- <pratika> धृतदशविधेति । </pratika>धृतानि दशविधानि

रूपाणि येन तादृश, त्वं जय । संप्रति जयदेवकविः संप्रदायागतत्वेन गीते स्वनाम निबध्नन्

कृतां भगवतः स्तुतिं कृपयान्यानपि श्रावयितुमाह -- <pratika> श्रीजय देवेति । </pratika>इदं जयदेवकवेरुदितं

भाषितं शृणु । किंभूतम् । सुखदं श्रोत्रमनः सुखप्रदम् । पुनः कीदृशम् । शुभदं

मङ्गलप्रदम् । कृष्णकीर्तनत्वात् । अत एव भवसारं श्रेष्ठमहाधनरूपं वा । अत एवोदारं.

महत् । '"विधा विधौ प्रकारे च'" इत्यमरः । '"उक्तं भाषितमुदितम्'" इति च । '"उदारो

दातृमहतोः'" इत्यपि । '"कल्याणं मङ्गलं शुभम्'" इति च ॥ ११ ॥ अंशावतारान्स्तुत्वा संप्रति

दशावतारिणं कृष्णं स्तौति -- <pratika> वेदानित । ति । </pratika>कृष्णाय परिपूर्णस्वरूपिणे श्रीकृष्णरूपधारिणे

तुभ्यं नमः । ननु मीनाद्यवतारवानीश्वरस्तस्य स्तुतिः कृता चेदिदानीं गोपालं मां किं

स्तौषीत्यत आह - - <pratika>दशाकृतिकृते इति । </pratika>मीना दिदशरूपधारिणे तुभ्यं नमः । तथा च

तत्तदवतारवानीश्वरस्त्वमेव न त्वदन्य इत्यर्थः । ननु ईश्वरश्चेदहं तदाऽनित्यमीनाद्याकृतयः
४ गीत •
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri