2022-10-18 04:13:50 by ambuda-bot
This page has not been fully proofread.
सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
s
श्रीजयदेवकवेरिदमुदितमुदारम्
शृणु शुभदं सुखदं भवसारम् ।
केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते
दैत्यान्दारयते बलिं छलयते क्षेत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्सूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२ ॥
म्लेच्छेत्यत्र धीरोद्धतो नायकः । तल्लक्षणमुक्तं प्राक् ॥ १० ॥ इदानीं दशभिरवतारैः
कृतविस्तारभेदेन श्रीकृष्णपरत्वेनोपसंहरन्नाह । तथाच वक्ष्यति 'वेदानुद्धरते' इत्यादि ।
केशव धृतदशविधरूप, जय जयदीश हरे इति ध्रुवे इति विशेषः । श्रीजयदेवकवे-
रिति । हे वृतदशविधरूप, जयदेवकवेर्मम इदं स्तोत्ररूपं उदितं भणितं शृणु
मामकीनोऽयं मां स्तौतीति बुद्ध्यावधारय । किंभूतम् । उदारम् । झटिति पदार्था-
र्पकम् । पुनश्च भवसारम् । भवे संसारे सारं साररूपम् । अथवा भवोच्छेद कहेतु-
मध्ये सारम् । मध्यमपदलोपित्वात् । अत एव सुखदम् । सद्यः परनिर्वृति हेतुत्वात् ।
अत एव शुभम् । शिवेतरक्षति हेतुवात् । अत्र शान्तो रसः । पर्यायोक्तिरलंकारः ॥११॥
इदानीं दशानामप्यवताराणाममेदं निरूप्य तत्तद्रूपं श्रीकृष्णं प्रणमति – वेदानुद्धरत
इति । हे हरे, तुभ्यं कृष्णाय नमः । वेदानुद्धरत इत्यादि मीनावतारादिपदव्याख्याने-
नैव निगदव्याख्यातम् । वृत्तमिदं शार्दूलविक्रीडितम् । दीपकोऽलंकारः । वेदानुद्धरत
इत्यत्र पदेषूक्ता नायकाः । अत्र प्रलयपयोधीत्याद्ये कादशस्वपि पदेषु कीर्तिध-
वलं नाम छन्दः । तल्लक्षणं यथा-
- अयुजि पदे द्वादशैव युजि तु यस्य हि दश वाष्ट
मात्राश्चेत् । परमपि पदयुगमेवं तं कीर्तिधवलमिह धीराः प्राहुः ॥' ध्रुवपदे तु 'षता-
-
रालो भीषणोऽन्यवत्' इति च ॥ १० ॥ प्रत्येकावतारपुरस्कारेण भगवतः स्तुतिं कृत्वा संप्रति
समुदितदशावतारंपुरस्कारेण श्रीकृष्णं स्तौति – धृतदशविधेति । धृतानि दशविधानि
रूपाणि येन तादृश, त्वं जय । संप्रति जयदेवकविः संप्रदायागतत्वेन गीते स्वनाम निबध्नन्
कृतां भगवतः स्तुतिं कृपयान्यानपि श्रावयितुमाह - श्रीजय देवेति । इदं जयदेवकवेरुदितं
भाषितं शृणु । किंभूतम् । सुखदं श्रोत्रमनः सुखप्रदम् । पुनः कीदृशम् । शुभदं
मङ्गलप्रदम् । कृष्णकीर्तनत्वात् । अत एव भवसारं श्रेष्ठमहाधनरूपं वा । अत एवोदारं.
महत् । 'विधा विधौ प्रकारे च' इत्यमरः । 'उक्तं भाषितमुदितम्' इति च । 'उदारो
दातृमहतोः' इत्यपि । 'कल्याणं मङ्गलं शुभम्' इति च ॥ ११ ॥ अंशावतारान्स्तुत्वा संप्रति
दशावतारिणं कृष्णं स्तौति – वेदानित । कृष्णाय परिपूर्णस्वरूपिणे श्रीकृष्णरूपधारिणे
तुभ्यं नमः । ननु मीनाद्यवतारवानीश्वरस्तस्य स्तुतिः कृता चेदिदानीं गोपालं मां किं
स्तौषीत्यत आह - दशाकृतिकृते इति । मीना दिदशरूपधारिणे तुभ्यं नमः । तथा च
तत्तदवतारवानीश्वरस्त्वमेव न त्वदन्य इत्यर्थः । ननु ईश्वरश्चेदहं तदाऽनित्यमीनाद्याकृतयः
४ गीत •
०
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri