This page has not been fully proofread.

१६
 
[ सर्गः १
 
गीतगोविन्दकाव्यम्
 
म्लेच्छनिवहनिधने कलयसि करवालं
 
धूमकेतुमिव किमपि करालम् ।
 
केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥
 
स्यैवोपदेष्टृत्वादिज्यत्वात्तत्फलदातृत्वाच
 
किमपि प्रयोजनमभिसंधाय तन्निन्दा
नाश्चर्यम् । निन्दसीत्यत्र धीरशान्तो नायकः । तल्लक्षणम् – 'शान्तो विनीतो धीरश्च
धीरशान्तो द्विजो वणिक्' ॥ ९ ॥ अथ कल्क्यवतारः । वृतकल्किशरीरेति ध्रुवे
विशेषः । म्लेच्छेति । हे हरे, म्लेच्छ नि वह निध
म्लेच्छसमूहवधनिमित्तम् ।
 
अपि निश्चये । त्वं करवालं खङ्गं कलयसि इति वितर्कयामि । किं वितर्के । अन्यथा
चक्रादिषु सत्सु कथं खड्गस्यैव धारणम् । किंभूतं करवालम् । भीषणम् । किमिव धूमके-
तुमिव । म्लेच्छानामुत्पातशंसिनं धूमकेतुं ताराविशेषमिव । अथवा धूमः केतुश्चि
यस्य स तम् । म्लेच्छकुलविनाशपिशुनमिव । उत्पाते हि वह्निर्धूमशिखो भवति स तु
 
प्रायेण रत्नमयो भवति । खड्गतेजो हि नीलभाखरं भवति अत उभयसाम्येनोपमा ।
विधानबोधकं वेदसमूहं निन्दसि न तु सर्वमित्यर्थः । सोऽपि किमिति निन्द्यत इत्यत्
आह—दर्शितमिति । अहह कष्टम् । दर्शितो बोधितः पशुधातो येन तादृशम् । वेदोऽपि
पशूनां घातं बोधयतीत्यहह कष्टमित्येवं निन्दसीति
भाव: । एतादृशनिन्दायामपि
हेतुमाह — सदयहृदयेति । दया कृपा तत्सहितं हृदयं यस्य तादृशं । अयं भावः ।
रागवशान्निरतहिंसाञ्जनान्दृष्ट्वा 'अग्नीषोमीयं पशुमालमेत' इत्यादिविधिवाक्यैः स्वर्गादिफ्-
लदर्शन पुरस्कारेण गुडजिहिकया वैदिकमार्गे प्रवर्त्य पश्चान्नश्वरस्वर्गादिफलकं निरपराधि
बहुप्राणिवधसाध्ययागादिकं मुक्तिविरोधित्वाच्च तेषामत्यन्तमहित मिति विचार्य परमपुरुषार्थ
मोक्षसाधने निवृत्तिमार्गे तान्प्रवर्तयितुं 'न हिंस्यात्सर्वा भूतानि' इत्यादिना यज्ञादिबोधकवे-
दस्य निन्दां करोषि न तु सर्वथा वेदनिन्दायामेव तवावतारतात्पर्यम् । अतएव गूढं तत्रेमं
व्यवहारमज्ञात्वा दुरात्मनां वैदिकमार्गे विश्वास इति संमोहनायैव तवैषोऽवतारपरिग्रह
इत्यवतारप्रयोजनमुक्तमिति । 'अहहेत्यद्भुते खेदे' इति विश्वः । 'जातजात्योश्च जन्म'(?) इति
विश्वः ॥ ९ ॥ अथ कल्किनोऽवतारं स्तौति – धृतकल्कि शरीरेति । हे केशव, धृतक
ल्किशरीर धृतं कल्किनः शरीरं येन तादृश, त्वं जय । ननु पूर्वं मम सदयत्वमुक्तं कल्क्य-
बतारे तु प्राणिवधनिरतस्य मे विरुद्धमित्यत आह – म्लेच्छनिवहेत्यादि । त्वं म्लेच्छनि,
वहनिधने म्लेच्छसमूहमारणे करवालं खड्नं कलयसि धारयसि । कीदृशम् । किमपि कराल
मतिशयेन भयंकरम् । कमिव । धूमकेतुमिव औत्पातिक ग्रह विशेषमिव । रणे उदितं तत्क
रवालं पश्यतां म्लेच्छानां नाशो भवतीति करवालस्य धूमकेतुसाम्यम् । अन्यस्मिन्नप्यु.
दिते धूमकेतौ औत्पातिक ग्रहविशेषे तं पश्यतां प्राणिनां विपदो भवन्तीति भावः । यद्वा
धूमः केतुश्चिह्नं यस्य स धूमकेतुर्वह्निस्तमिव । अत्रास्य खड्गस्य नीलत्वाद्धूमसाम्यम् ।
मुष्टेश्च सुवर्णमयत्वादग्निसाम्यम् । म्लेच्छनिधनेत्यत्र 'चर्मणि द्वीपिनं हन्ति' इतिवन्निमि-
तात्कर्मसंयोगे सप्तमी । 'समूहे निवहव्यूहसंदोहविसरव्रजाः' इत्यमरः । 'निधनः स्यात्क
लेर्नाशे' इति विश्वः । 'खने तु निस्त्रिंशचन्द्रहासारिष्टयः । कौक्षेयको मण्डलाग्रः कर-
बालः कृपाणवत्' इत्यमरः । 'धूमकेतुः स्मृतो वहावुत्पातग्रह भेदयोः' इति विश्वः । क-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri