This page has been fully proofread once and needs a second look.

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १५
 
वहसि वपुषि विशदे वसनं जलदाभम्
हुलहु तिमी

हलहतिभी
तिमिलितयमुनाभम् ।
 

केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥

 
निन्दसि यज्ञविधेरहह श्रुतिजातम्

सद्यहृदय दर्शितपशुघातम् ।
 

केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥
 

 
धीरोदात्तो नायकः । तल्लक्षणं रसरत्नकोशे– ' -- "कृपावानतिगम्भीरो विनीतश्चावि-

कत्थनः । धीरोदात्तः स विज्ञेयो रामो दाशरथिर्यथा'" ॥ ७ ॥ अथ बलदेवः । धृतह-

लधररूप इति ध्रुवे विशेषः । <pratika> वहसीति । </pratika>अत्र यद्यपि '"रामो रामश्च कृष्णश्च'" इति

कृष्णचरित्रं वर्णनीयं तथापि कृष्णस्यैवैते दशापीति कृष्णस्य नायकत्वेन वर्णनीये

बलदेवोऽपि दशसु गणितः । तथा चोक्तम् – '-- "वनजौ वनजौ खर्वस्त्रिरामी सतपो-

तपः'" इति । हे राम, त्वं नीलं वसनं वहसि धत्से । किंलक्षणम् । जलदाभं मेचकम् ।

क्व । विशदे शुभ्रे वपुषि । तच्च यमुनयोपमीयते । हलहतिभयेन त्वामेव सेवितु-

मागता यमुनेव । तदिवाभातीति तदाभम् । धवलमेचकसंगत्या प्रयागलेत्वे तन्मूर्तेः

पापहारित्वं कामदलंत्वं च व्यञ्जितम् । वहसीत्यत्र धीरललितो नायकः । तल्लक्षणम्-
'
--
"
कान्तापरवशो धीरललितो निश्चितो मृदुः'" । अथवा शृङ्गारी नायकः । तल्लक्षणं

सङ्गीतराजे रसरत्नकोशे – '-- "शृङ्गारी नायकस्त्वन्यः पञ्चमः कथ्यते यथा । विलासवा-

क्कायशीलः सुभगः स्थिरवाग्युवा । गतिः सधैर्या दृष्टिश्च सविलासस्मितं वचः'" ॥ ८ ॥

अथ बुद्धावतारः । केशव धृतबुद्धशरीरेति ध्रुवे विशेषः । <pratika> निन्दसीति ।
</pratika>
हे सदयहृदय, त्वं यज्ञविधेः श्रुतिजातं ऋतुविधान संबन्धिवेदवाक्यसमूहं निन्दसि ।

किंभूतम् । दर्शितपशुघातमुपदिष्टगवाश्वादिमारणम् । अहहेत्यद्भुते । परमेश्वरा
 

 
अथ बलभद्रावतारं स्तौति -- <pratika>धृतहलधरेति । </pratika>हे केशव, धृतं हलधरस्य बलभद्रस्य रूपं

येन तादृश, जय । बलभद्रावतारस्य प्रयोजनमाह -- <pratika> वहसीति । </pratika>त्वं विशदे शुभ्रे वपुषि

देहे जलदाभं सजलमेघस्य दीप्तिमिव नीलं वसनं वस्त्रं वहसि धारयसि । कीदृशम् ।

<pratika>
हलहतीति । </pratika> हलेन हतिर्हननं तद्भीत्या तद्भयेन मिलिता या यमुना तस्या इवाभ-

दीप्तिर्यस्य तादृशम् । इयं च मलयानिलवशात्कम्पमानस्य वस्त्रस्य भययुक्तयमुनाया

उत्प्रेक्षा । भीरूणां हि कम्प उचित एवेति भावः । कदाचिद्वारुणीं पीत्वा वृन्दावने

गोपीभिः सह विहरता बलभद्रेण जलक्रीडार्थमाहूतां मत्तप्रलापोऽयमिति मत्वा गर्वेणा-

न्तिकमनागच्छन्तीं कालिन्दीं रोषतो हलायेग्रेण कृष्टवानिति पुराणप्रसिद्धि: । हलधरपदेन

दुष्टनिग्रहार्थमेव हलं धृतवानित्यवतारप्रयोजनं ध्वनितम् । ' "गात्रं वपुः संहननं शरीरं वर्ष्म

विग्रहः'" इत्यमरः । '"शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः'" इति च । '"वस्त्रमाच्छादनं

वासश्चैलं वसनमंशुकम्'" इति । '"भीति :तिः साध्वसकम्पयोः'" इति विश्वः ॥ ८ ॥ अथ बुद्धा-
व्र

तारं स्तौति -- <pratika> धृतबुद्धेति । </pratika>धृतं बुद्धस्य शरीरं येन तादृश, जय । ननु बुद्धावतारेण वेद-

निन्दकस्य मे कथं स्तुतिः क्रियत इत्यत आह -- <pratika> निन्दसीति । यश</pratika> यज्ञविधेः श्रुतिजातं यशस्
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
ज्ञस्य