This page has not been fully proofread.

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १५
 
वहसि वपुषि विशदे वसनं जलदाभम्
हुलहु तिमीतिमिलितयमुनाभम् ।
 
केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥
निन्दसि यज्ञविधेरहह श्रुतिजातम्
सद्यहृदय दर्शितपशुघातम् ।
 
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥
 
धीरोदात्तो नायकः । तल्लक्षणं रसरत्नकोशे– 'कृपावानतिगम्भीरो विनीतश्चावि-
कत्थनः । धीरोदात्तः स विज्ञेयो रामो दाशरथिर्यथा' ॥ ७ ॥ अथ बलदेवः । धृतह-
लधररूप इति ध्रुवे विशेषः । वहसीति । अत्र यद्यपि 'रामो रामश्च कृष्णश्च' इति
कृष्णचरित्रं वर्णनीयं तथापि कृष्णस्यैवैते दशापीति कृष्णस्य नायकत्वेन वर्णनीये
बलदेवोऽपि दशसु गणितः । तथा चोक्तम् – 'वनजौ वनजौ खर्वस्त्रिरामी सतपो-
इतपः' इति । हे राम, त्वं नीलं वसनं वहसि धत्से । किंलक्षणम् । जलदाभं मेचकम् ।
क्व । विशदे शुभ्रे वपुषि । तच्च यमुनयोपमीयते । हलहतिभयेन त्वामेव सेवितु-
मागता यमुनेव । तदिवाभातीति तदाभम् । धवलमेचकसंगत्या प्रयागले तन्मूर्तेः
पापहारित्वं कामदलं च व्यजितम् । वहसीत्यत्र धीरललितो नायकः । तल्लक्षणम्-
'कान्तापरवशो धीरललितो निश्चितो मृदुः' । अथवा शृङ्गारी नायकः । तल्लक्षणं
सङ्गीतराजे रसरत्नकोशे – 'शृङ्गारी नायकस्त्वन्यः पञ्चमः कथ्यते यथा । विलासवा-
क्कायशीलः सुभगः स्थिरवाग्युवा । गतिः सधैर्या दृष्टिश्च सविलासस्मितं वचः' ॥ ८ ॥
अथ बुद्धावतारः । केशव धृतबुद्धशरीरेति ध्रुवे विशेषः । निन्दसीति ।
हे सदयहृदय, त्वं यज्ञविधेः श्रुतिजातं ऋतुविधान संबन्धिवेदवाक्यसमूहं निन्दसि ।
किंभूतम् । दर्शितपशुघातमुपदिष्टगवाश्वादिमारणम् । अहहेत्यद्भुते । परमेश्वरा
 
अथ बलभद्रावतारं स्तौति – तहलधरेति । हे केशव, धृतं हलधरस्य बलभद्रस्य रूपं
येन तादृश, जय । बलभद्रावतारस्य प्रयोजनमाह - वहसीति । त्वं विशदे शुभ्रे वपुषि
देहे जलदाभं सजलमेघस्य दीप्तिमिव नीलं वसनं वस्त्रं वहसि धारयसि । कीदृशम् ।
हलहतीति । हलेन हतिर्हननं तद्भीत्या तद्भयेन मिलिता या यमुना तस्या इवाभ-
दीप्तिर्यस्य तादृशम् । इयं च मलयानिलवशात्कम्पमानस्य वस्त्रस्य भययुक्तयमुनाया
उत्प्रेक्षा । भीरूणां हि कम्प उचित एवेति भावः । कदाचिद्वारुणीं पीत्वा वृन्दावने
गोपीभिः सह विहरता बलभद्रेण जलक्रीडार्थमाहूतां मत्तप्रलापोऽयमिति मत्वा गर्वेणा-
न्तिकमनागच्छन्तीं कालिन्दीं रोषतो हलायेण कृष्टवानिति पुराणप्रसिद्धि: । हलधरपदेन
दुष्टनिग्रहार्थमेव हलं धृतवानित्यवतारप्रयोजनं ध्वनितम् । ' गात्रं वपुः संहननं शरीरं वर्ष्म
विग्रहः' इत्यमरः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः' इति च । 'वस्त्रमाच्छादनं
वासश्चैलं वसनमंशुकम्' इति । 'भीति : साध्वसकम्पयोः' इति विश्वः ॥ ८ ॥ अथ बुद्धा-
व्रतारं स्तौति – धृतबुद्धेति । धृतं बुद्धस्य शरीरं येन तादृश, जय । ननु बुद्धावतारेण वेद-
निन्दकस्य मे कथं स्तुतिः क्रियत इत्यत आह - निन्दसीति । यशविधेः श्रुतिजातं यशस्
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri