This page has been fully proofread once and needs a second look.

पुष्टि गीतगोविन्दकाव्यम्
 
वितरसि दिक्षु रणे दिक्पतिकमनीयं

दशमुखमौलिबलिं रमणीयम् ।
 

केशव धृतरा[^१]मशरीर जय जगदीश हरे ॥ ७ ॥
 
[ सर्गः १
 
-
 

 
पचारन्यायेन स्नानेन पापहानिः । तथा च दुःखत्रयाभिघातः । उभयमपि क्रियाविशे-

षणं वा । स्नपयसीति '"ग्लास्ना -'" इति मिलाङ्घ्रस्खत्वाद्ध्रस्वत्वम् । रुधिरमये इति विकारे मयटू ।
ट् ।
स्व
भावोक्तिरलंकारः । अत्र बीभत्सो रसः । प्रलयेत्यादिपदषट्के धीरोद्धतो नायकः ।

तल्लक्षणं सङ्गीतराजे रसरत्नकोशे– ' -- "मात्सर्यदर्पभूयिष्ठश्छद्म्यहंकारवाञ्छली । चण्डो

विकत्थनश्चैव धीरोद्धत उदाहृतः" ॥ तद्गुणाः -- दार्ढ्यं, तेजस्विता, दक्षता, धार्मिकत्वं

चेति । तल्लक्षणं रसरत्नकोशे यथा - '- "व्यवसायादचलनं दार्ढ्यं विघ्नशतैरपि । अधिक्षे-

पाद्यसहनं तेजः प्राणात्ययेष्वपि । दक्षता क्षिप्रकारित्वं धार्मिकत्वं तु तत्कृतिः" ॥ ६ ॥

अथ रामः । धृतरामशरीर इति ध्रुवे विशेषः । <pratika>वितरसीति । </pratika> हे राम, त्वं वित-

रसि ददासि । दशमुखमौलिबलिं रावणस्य मौलय एव बलिः । मौलिशब्दः

शिरोवाची । अथवा मौलिशब्दः किरीटे वर्तते । '"चूडाकिरीटकेशाश्च संयता

मौलयस्त्रयः'" इत्यभिधानातूत्, तथापि बलेर्मांससाध्यत्वान्मौलिशब्देन तात्स्थ्या-

च्छिरांसि लक्ष्यन्ते । शिरांसि छेदंछेदं दिक्पतिभ्यो बलिदानं कृतवानित्यर्थः । जगतां

रक्षोपलक्षणोपद्रवोपशान्त्यै रक्षः शिरांस्येव बलित्वेनोपहृतवानिति । कुत्र । दिक्षु ।

किंभूतं बलिम् । दिक्पतिकमनीयमभिलषणीयम् । पुनः किंभूतम् । रावणवधद्वारा

लोकाभिरामत्वाद्रमणीयम् । अत्र यावन्तो दिक्पतयस्तावन्त्येव शिरांसीति कम-

नीयत्वे हेतुः । अत्रापि वितीर्णवानिति वक्तव्ये तत्कालापेक्षया वर्तमानापदेशो वा ।

यो वितीर्णवान्स त्वं जय इत्यादिकल्पनीयम् । अत्र जातिरलंकारः । वितरसीत्यत्र
 
-
 

 
जगत् । शमितभवतापं शमितो भवस्य संसारस्य तापः संतापो येन तादृशम् । प्राणिनां

पापसंबन्धादेव संतापस्तत्तीर्थस्नानेन तु सर्वं पापं विलयं गतमिति ततः संतापना-

शोऽप्यभूदिति । अस्य दर्शनमात्रेण तापो गच्छति, जले मज्जत:तः संतप्तस्य तापनाश उचित

एवेति ध्वनिः । '"रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजो : 'जोः" इति विश्व: । 'वः । "भवः संसार-

संतापश्रेयःशंकरजन्मसु'" इति च ॥ ६ ॥ अथ रामावतारं स्तौति -- <pratika>धृतरघुपतिरूपेति ।
</pratika>
हे केशव, धृतं रघुपतेः रामचन्द्रस्य रूपं येन तादृश, त्वं जय । श्रीरामावतारपुरुषार्थ-

माह - - <pratika>वितरसीति । </pratika>रणे संग्रामे दिक्षु हरित्सु दशमुखमौलिबलिं रावणस्य ये मौलयो

मस्तकानि समुकुटानि तान्येव बलिमुपहारं वितरसि ददासि । कीदृशम् । दिक्पतिकमनीयं

दिशां ये पतय इन्द्रादयस्तेषां कमनीयमभीष्टम् । तत्र हेतु:तुः रमणीयम् । '"किरीटमूर्धचूडासु

मौलिः केशे च संयते' । '" । "करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्'" इत्यमरः ॥ ७ ॥
 
-
 

 
[^
'.] "धृतरघुपतिरूप'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri