2022-10-18 04:13:50 by ambuda-bot
This page has not been fully proofread.
पुष्टि गीतगोविन्दकाव्यम्
वितरसि दिक्षु रणे दिक्पतिकमनीयं
दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥
[ सर्गः १
-
पचारन्यायेन स्नानेन पापहानिः । तथा च दुःखत्रयाभिघातः । उभयमपि क्रियाविशे-
षणं वा । नपयसीति 'ग्लास्ना -' इति मिलाङ्घ्रस्खत्वम् । रुधिरमये इति विकारे मयटू ।
खभावोक्तिरलंकारः । अत्र बीभत्सो रसः । प्रलयेत्यादिपदषके धीरोद्धतो नायकः ।
तल्लक्षणं सङ्गीतराजे रसरत्नकोशे– 'मात्सर्यदर्पभूयिष्ठश्यहंकारवाञ्छली । चण्डो
विकत्थनश्चैव धीरोद्धत उदाहृतः ॥ तद्गुणाः - दा, तेजस्विता, दक्षता, धार्मिकत्वं
चेति । तल्लक्षणं रसरत्नकोशे यथा - 'व्यवसायादचलनं दार्ढ्य विघ्नशतैरपि । अधिक्षे-
पाद्यसहनं तेजः प्राणात्ययेष्वपि । दक्षता क्षिप्रकारित्वं धार्मिकत्वं तु तत्कृतिः ॥ ६ ॥
अथ रामः । धृतरामशरीर इति ध्रुवे विशेषः । वितरसीति । हे राम, त्वं वित-
रसि ददासि । दशमुखमौलिबलिं रावणस्य मौलय एव बलिः । मौलिशब्दः
शिरोवाची । अथवा मौलिशब्दः किरीटे वर्तते । 'चूडाकिरीटकेशाश्च संयता
मौलयस्त्रयः' इत्यभिधानातू, तथापि बलेर्मांससाध्यत्वान्मौलिशब्देन तात्स्थ्या-
च्छिरांसि लक्ष्यन्ते । शिरांसि छेदंछेदं दिक्पतिभ्यो बलिदानं कृतवानित्यर्थः । जगतां
रक्षोपलक्षणोपद्रवोपशान्त्यै रक्षः शिरांस्येव बलिवेनोपहृतवानिति । कुत्र । दिक्षु ।
किंभूतं बलिम् । दिक्पतिकमनीयमभिलषणीयम् । पुनः किंभूतम् । रावणवधद्वारा
लोकाभिरामत्वाद्रमणीयम् । अत्र यावन्तो दिक्पतयस्तावन्त्येव शिरांसीति कम-
नीयत्वे हेतुः । अत्रापि वितीर्णवानिति वक्तव्ये तत्कालापेक्षया वर्तमानापदेशो वा ।
यो वितीर्णवान्स त्वं जय इत्यादिकल्पनीयम् । अत्र जातिरलंकारः । वितरसीत्यत्र
-
जगत् । शमितभवतापं शमितो भवस्य संसारस्य तापः संतापो येन तादृशम् । प्राणिनां
पापसंबन्धादेव संतापस्तत्तीर्थस्नानेन तु सर्व पापं विलयं गतमिति ततः संतापना-
शोऽप्यभूदिति । अस्य दर्शनमात्रेण तापो गच्छति, जले मज्जत: संतप्तस्य तापनाश उचित
एवेति ध्वनिः । 'रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजो : ' इति विश्व: । 'भवः संसार-
संतापश्रेयःशंकरजन्मसु' इति च ॥ ६ ॥ अथ रामावतारं स्तौति – धृतरघुपतिरूपेति ।
हे केशव, धृतं रघुपतेः रामचन्द्रस्य रूपं येन तादृश, त्वं जय । श्रीरामावतारपुरुषार्थ-
माह - वितरसीति । रणे संग्रामे दिक्षु हरित्सु दशमुखमौलिबलिं रावणस्य ये मौलयो
मस्तकानि समुकुटानि तान्येव बलिमुपहारं वितरसि ददासि । कीदृशम् । दिक्पतिकमनीयं
दिशां ये पतय इन्द्रादयस्तेषां कमनीयमभीष्टम् । तत्र हेतु: रमणीयम् । 'किरीटमूर्धचूडासु
मौलिः केशे च संयते' । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्' इत्यमरः ॥ ७ ॥
-
१ 'धृतरघुपतिरूप' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri