2022-10-20 06:51:15 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
क्षत्त्रियरुधिरमये जगदपगतपापम्
स्नपयसि पयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६॥
कुर्वन्नसीति वर्तमानसामीप्याद्वा प्रवाहानादित्वेन प्रतिवामनावतारं छलनप्रारम्भापरि-
समाप्तत्वाद्वर्तमानापदेशः । वामनस्याकारेण खर्वत्वात्प्रभाप्राग्भारेणाविभाव्यस्वरूपत्वा-
दद्भुतत्वम् । क्व । विक्रमणे विक्रमत्रयकरणे । अत्र हेतुगर्भविशेषणम् । पदेति । पद-
नखनीरेण जनितं जनपावनं येन । इदमत्राकूतम् । बलिना वामनस्य चरणार्धे क्रिय-
माणे सहसा वृद्धिमाप्ते चरणार्थं यदुदकं गृहीतं तन्नखमात्र एव पर्याप्तम् । अतः
पदनीरे वक्तव्ये पदनखनीर इत्युक्तिः । अथवा तृतीये पदविन्यासे चरणाग्र एव
ब्रह्मलोकमितो झटिति ब्रह्मणा दीयमानार्घजलजनितविष्णुपादाग्रसंभवजलेन पावन
इति । अत्राद्भुतो रसः । अतिशयोक्तिरलंकारः । इति पञ्चमम् ॥ ५ ॥ अथ परशु-
रामः । धृतभृगुपतिरूप इति ध्रुवे विशेषः ।<pratika> क्षत्त्रियेति । </pratika> एतत्पदस्य पुराणकथासापेक्षा
व्याख्या । हे राम, जगत्स्नपयसि । क्व । पयसि जले । किंभूते जले । क्षत्त्रियरुधिरमये
क्षत्त्रक्षतजविकारे । परशुरामः किलः क्षत्त्रक्षयं कृत्वा कुरुक्षेत्रे रामह्रदतीर्थे क्षत्त्रशोणि-
तजलेन पितॄनतार्प्सीदिति पौराणिकाः । तत्राद्यापि जगत्स्नाति, अपगतपापं च भवति ।
तदेव कविराह । अत्रापि स्नानं प्रति रामशब्दस्यैव प्रवृत्तिनिमित्तत्वात्स्नपयसीति पदान्तरा-
ध्याहारेण भूतार्थालंकारस्थाने लये गतिश्चिन्तनीया ॥ यस्त्वं स्नपयसि स जयेति वा ।
किंभूतं जगत् । अपगतपापमिति हेतुगर्भं विशेषणम् । अतएव शमितभवतापं शमितो
भवतापोऽपगतभवतापत्वादाध्यात्मिकादिदुःखत्रयं येनेति तत्तथा । अत्र भाविनि भूतवदु-
हे अद्भुतवामन आश्चर्यवामन, विक्रमेण पराक्रमेण बलिं दैत्यं छलयसि वञ्चयसि । भगवा-
नुपेन्द्रो वामनरूपं कृत्वा बलेः सकाशात्पदत्रयमितां भूमिं प्रार्थ्य पश्चाद्बृहद्रूपं प्रकटी-
कृत्य चतुर्दशभुवनं पदत्रयेणापूर्य तदपराधेन तं बद्ध्वा चाधः क्षिप्तवानिति पुराणप्रसिद्धिः ।
अद्भुतत्वमेवाह -- <pratika>पदनखेति । </pratika> पदनखसंबन्धि यन्नीरं गङ्गाजलं तेन जनितमुत्पादितं जना-
नां पावनं पावित्र्यं येन<error> तादृश । </error><fix> तादृशः । </fix> अत्रापि प्रवर्धमानस्य भगवतस्त्रिविक्रमस्य चरणाङ्गुष्ठन-
खाग्रेण विदीर्णे ब्रह्माण्डस्य प्रथमे पार्थिवावरणे तेनैव वर्त्मना तच्चरणारविन्दप्रक्षालनादे-
वागतं द्वितीयावरणजलं ब्रह्मदत्तार्घेण जलेनैकीभूतं क्रमेण मर्त्यलोकमागतं गङ्गेति प्रसिद्धं
लोकान्पावयतीति पुराणप्रसिद्धिः । अतएव भूलोकस्थितेनापि वामनेन ब्रह्माण्डजल-
स्यानयनादाश्चर्यम् । "अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्" इत्यमरः ॥ ५ ॥
परशुरामावतारं स्तौति -- <pratika> धृतभृगुपतिरूपेति । </pratika> हे केशव, धृतं भृगुपतेः परशुरामस्य
रूपं येन तादृश, जय । परशुरामावतार प्रयोजनमाह -- <pratika> क्षत्त्रियेति । </pratika> क्षत्त्रियाणां रुधि-
राणि प्रचुराणि यत्र तादृशे, पयसि कुरुक्षेत्राख्यतीर्थजले जगत्प्राणिजातमपगतपापं यथा
स्यादेवं स्नपयसि । यदवधि परशुरामेणैकविंशतिवारं क्षत्त्रियान्हत्वा तद्रुधिरैः कुरुक्षेत्रे पञ्च
ह्रदान्विधाय पितॄणां तर्पणमकारि तदवधि तन्महातीर्थं जातमिति पुराणप्रसिद्धिः । कीदृशं

नां पावनं पावित्र्यं येन