2022-10-20 05:11:55 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे
धरणिधरणकिणचक्रगरिष्ठे।
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥
षणम् । तेन पोतचेष्टितमङ्गीकृत्यापि मनागप्यायासं नाप्तवानित्यर्थः । इति प्रथमं
पदम् । केशव हरे जगदीश इति संबोधनत्रयमादरातिशयद्योतनार्थम् । अत्र
केशव धृतमीनशरीर जय जगदीश हरे इति पाठः ॥ इति ध्रुवपदम् ॥ गानवेलायां
केशव केशव इति द्विरुक्तिः ॥ अत्रार्धमागधी रीतिः ॥ अत्र केशवस्य केवलशब्दवा-
च्यत्वं <error>हरिशब्दमहितकेशवशब्दवाच्यत्वं</error><fix>हरिशब्दमहितकेशवशब्दवाच्यत्वम् </fix> इति व्याख्यानम् । तत्पाठमात्रमप्यजानतां
प्रमादेन क्रियाविशेषणानां कर्मसंज्ञा नपुंसकता च । धृतमीनशरीर इति मत्स्यावतारः ।
अत्रोपमातिशयोक्ती अलंकारौ । उत्साहस्थायिभावो वीरो रसः । दशस्वपि पदेषु धीर-
ललितो नायकः ॥ १॥ अथ कूर्मः । केशवेत्यादि ध्रुवपदं पूर्ववत् । धृतकच्छपरूप इति
कूर्मावतारकथनं विशेषः ॥ <pratika> तवेति । </pratika> तवातिविपुपुलतरे विशाले अतिक्रान्तं विपुलतरं
तस्मिंश्च धरणीधरणेन हेतुना जातं यत्किणचक्रं तेन गरिष्ठे गौरवयुक्ते पृष्ठे क्षितिस्ति-
ष्ठति इति भवप्रवाहस्यानादित्वादनेकवारं धरणीधरणे चिह्नबहुत्वम् । इति द्वितीयप-
दम् ॥ २ ॥ अथ वराहः ।<pratika> वसतीति । </pratika> धृतशूकररूपेति ध्रुवे विशेषः । धरणी पृथ्वी
तव दशनशिखरे दंष्ट्राग्रभागे लग्ना संसक्ता वसति । केव । शशिनि चन्द्रमसि मग्ना
धयः समुद्रास्तेषां जले निमज्जन्तं वेदं मीनशरीरमुपादाय धृतवानसि । कथम् । अखेदं यथा
स्यात्तथा विहितं कृतं वहित्रस्य पोतस्य चरितं यत्र तत्तथा । अत्र पयोधिपदेनैव जलत्वे
प्राप्ते पुनर्जलपदोपादानमन्तर्धामादिरहितत्वेन विश्रामस्थलाभावं सूचयितुम् । तथा च
निरालम्बे पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव तच्छरीरपरिग्रह इति भावः । "पृथु-
रोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः" ॥ १ ॥ कच्छपरूपं स्तौति -- <pratika> धृतकच्छपेति । </pratika>
हे केशवधृतकच्छपरूप धृतं कच्छपस्य रूपं येन तादृश, जय । ननु कच्छपरूपं मया
कस्य हेतोर्धृतमित्यत आह -- <pratika> क्षितिरिति । </pratika> तव पृष्ठे क्षितिः पृथ्वी तिष्ठति । तिष्ठतीति
वर्तमानकालनिर्देशेनाधुनापि तव पृष्ठे क्षितिस्तिष्ठतीति कच्छपावतारप्रयोजनं सर्वलोकप्र-
सिद्धमेवेति भावः । ननु पञ्चपञ्चाशत्कोटियोजनविस्तृता पृथ्वी मम पृष्ठे कथं स्थितेत्यत
आह -- <pratika> अतिविपुलतर इति । </pratika> अतिशयेन पृथ्व्यपेक्षयाधिकविस्तीर्णे । पुनः कीदृशे
धरणिरिति । धरण्याः पृथ्व्या धारणेन यत्किणचक्रं रक्ताकृति मृतरुधिरमण्डलं तेन गरिष्ठे
गौरवयुक्ते । "कूर्मे कमठकच्छपौ" इत्यमरः । "व्रणचिह्ने घुणे किणः" इति हारावलिः ॥ २ ॥
वराहरूपं स्तौति -- <pratika> धृतशूकररूपेति । </pratika> हे केशव धृतशूकररूप धृतं शूकरस्य रूपं येन
तादृश जय । क्रोडावतारपरिग्रहप्रयोजनमाह -- <pratika> वसतीति । </pratika> तव दशनशिखरे दन्ताग्रे
लग्ना संश्लिष्टा धरणिः पृथ्वी वसति । कुत्र केव । शशिनि चन्द्रे निमग्ना कलङ्ककलेव