This page has been fully proofread once and needs a second look.

सर्ग: १] रसिकप्रिया- रसमञ्जर्याख्य टीकाद्वयोपेतम्
 
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे

धरणिधरणकिणचक्रगरिष्ठे
 

 

केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥

वसति दशनशिखरे धरणी तव लग्ना

शशिनि कलङ्ककलेव निमग्ना ।
 

केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥
 
११
 

 
षणम् । तेन पोतचेष्टितमङ्गीकृत्यापि मनागप्यायासं नाप्तवानित्यर्थः । इति प्रथमं

पदम् । केशव हरे जगदीश इति संबोधनत्रयमादरातिशयद्योतनार्थम् । अत्र

केशव धृतमीनशरीर जय जगदीश हरे इति पाठः ॥ इति ध्रुवपदम् ॥ गानवेलायां

केशव केशव इति द्विरुक्तिः ॥ अत्रार्धमागधी रीतिः ॥ अत्र केशवस्य केवलशब्दवा-

च्यत्वं <error>हरिशब्दम हित केशवशब्दवाच्यत्वं</error><fix>हरिशब्दमहितकेशवशब्दवाच्यत्वम् </fix> इति व्याख्यानम् । तत्पाठमात्रमप्यजान
तां
प्रमादेन क्रियाविशेषणानां कर्मसंज्ञा नपुंसकता च । धृतमीनशरीर इति मत्स्यावतारः ।

अत्रोपमातिशयोक्ती अलंकारौ । उत्साहस्थायिभावो वीरो रसः । दशस्वपि पदेषु धीर-

ललितो नायकः ॥ १॥ अथ कूर्मः । केशवेत्यादि ध्रुवपदं पूर्ववत् । घृधृतकच्छपरूप इति

कूर्मावतारकथनं विशेषः ॥ <pratika> तवेति । </pratika> तवा तिविविपुपुलतरे विशाले अतिक्रान्तं विपुलतरं

तस्मिंश्च धरणीधरणेन हेतुना जातं यत्किणचक्रं तेन गरिष्ठे गौरवयुक्ते पृष्ठे क्षितिस्ति-
कृ

ष्ठ
ति इति भवप्रवाहस्यानादित्वादनेकवारं धरणीधरणे चिह्नबहुत्वम् । इति द्वितीयप-

दम् ॥ २ ॥ अथ वराहः ।<pratika> वसतीति । </pratika> धृतशूकररूपेति ध्रुवे विशेषः । धरणी पृथ्वी

तव दशनशिखरे दंष्ट्राग्रभागे लग्ना संसक्ता वसति । केव । शशिनि चन्द्रमसि मग्ना
 

 

 
धयः समुद्रास्तेषां जले निमज्जन्तं वेदं मीनशरीरमुपादाय धृतवानसि । कथम् । अखेदं यथा

स्यात्तथा विहितं कृतं वहित्रस्य पोतस्य चरितं यत्र तत्तथा । अत्र पयोधिपदेनैव जलत्वे

प्राप्ते पुनर्जलपदोपादानमन्तर्धामादिरहितत्वेन विश्रामस्थलाभावं सूचयितुम् । तथा च

निरालम्बे पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव तच्छरीरपरिग्रह इति भावः । '"पृथु-

रोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः'" ॥ १ ॥ कच्छपरूपं स्तौति -- <pratika> धृतकच्छपेति ।
</pratika>
हे केशव धृतकच्छपरूप धृतं कच्छपस्य रूपं येन तादृश, जय । ननु कच्छपरूपं मया

कस्य हेतोघृर्धृतमित्यत आह -- <pratika> क्षितिरिति । </pratika> तव पृष्ठे क्षितिः पृथ्वी तिष्ठति । तिष्ठतीति

वर्तमानकालनिर्देशे नाधुनापि तव पृष्ठे क्षितिस्तिष्ठतीति कच्छपावतार प्रयोजनं सर्वलोकप्र-

सिद्धमेवेति भावः । ननु पञ्चपञ्चाशत्कोटियोजनविस्तृता पृथ्वी मम पृष्ठे कथं स्थितेत्यत

आह -- <pratika> अतिविपुलतर इति । </pratika> अतिशयेन पृथ्व्यपेक्षयाधिक विस्तीर्णे । पुनः कीदृशे

धरणिरिति । धरण्याः पृथ्व्या धारणेन यत्किणचक्रं रक्त।ताकृति मृतरुधिरमण्डलं तेन गरिष्ठे

गौरवयुक्ते । '"कूर्मे कमठकच्छपौ'" इत्यमरः । '"व्रणचिह्ने घुणे किण: 'णः" इति हारावलिः ॥ २ ॥

वराहरूपं स्तौति -- <pratika> धृतशूकररूपेति । </pratika> हे केशव धृतशूकररूप धृतं शूकरस्य रूपं येन

तादृश जय । क्रोडावतारपरिग्रहप्रयोजनमाह -- <pratika> वसतीति । </pratika> तव दशनशिखरे दन्ताये
ग्रे
लग्ना संश्लिष्टा धरणिः पृथ्वी वसति । कुत्र केव । शशिनि चन्द्रे निमग्ना कलङ्ककलेव
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri