2022-10-18 04:13:49 by ambuda-bot
This page has not been fully proofread.
सर्ग: १] रसिकप्रिया- रसमञ्जर्याख्य टीकाद्वयोपेतम्
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे
धरणिधरणकिणचऋगरिष्ठे
।
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमना ।
केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥
११
षणम् । तेन पोतचेष्टितमङ्गीकृत्यापि मनागप्यायासं नाप्तवानित्यर्थः । इति प्रथमं
पदम् । केशव हरे जगदीश इति संबोधनत्रयमादरातिशयद्योतनार्थम् । अत्र
केशव धृतमीनशरीर जय जगदीश हरे इति पाठः ॥ इति ध्रुवपदम् ॥ गानवेलायां
केशव केशव इति द्विरुक्तिः ॥ अत्रार्धमागधी रीतिः ॥ अत्र केशवस्य केवलशब्दवा-
च्यत्वं हरिशब्दम हित केशवशब्दवाच्यत्वं इति व्याख्यानम् । तत्पाठमात्रमप्यजानत
प्रमादेन क्रियाविशेषणानां कर्मसंज्ञा नपुंसकता च । धृतमीनशरीर इति मत्स्यावतारः ।
अत्रोपमातिशयोक्ती अलंकारौ । उत्साहस्थायिभावो वीरो रसः । दशखपि पदेषु धीर-
ललितो नायकः ॥ १॥ अथ कूर्मः । केशवेत्यादि ध्रुवपदं पूर्ववत् । घृतकच्छपरूप इति
कूर्मावतारकथनं विशेषः ॥ तवेति । तवा विविपुलतरे विशाले अतिक्रान्तं विपुलतरं
तस्मिंश्च धरणीधरणेन हेतुना जातं यत्किणचक्रं तेन गरिष्ठे गौरवयुक्त पृष्ठे क्षितिस्ति-
कृति इति भवप्रवाहस्यानादित्वादनेकवार धरणीधरणे चिह्नबहुलम् । इति द्वितीयप-
दम् ॥ २ ॥ अथ वराहः । वसतीति । धृतशूकररूपेति ध्रुवे विशेषः । धरणी पृथ्वी
तव दशनशिखरे दंष्ट्राग्रभागे लग्ना संसक्ता वसति । केव । शशिनि चन्द्रमसि मना
।
धयः समुद्रास्तेषां जले निमज्जन्तं वेदं मीनशरीरमुपादाय धृतवानसि । कथम् । अखेदं यथा
स्यात्तथा विहितं कृतं वहित्रस्य पोतस्य चरितं यत्र तत्तथा । अत्र पयोधिपदेनैव जलत्वे
प्राप्ते पुनर्जलपदोपादानमन्तर्धामादिरहितत्वेन विश्रामस्थलाभावं सूचयितुम् । तथा च
निरालम्बे पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव तच्छरीरपरिग्रह इति भावः । 'पृथु-
रोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः' ॥ १ ॥ कच्छपरूपं स्तौति – धृतकच्छपेति ।
हे केशव धृतकच्छपरूप धृतं कच्छपस्य रूपं येन तादृश, जय । ननु कच्छपरूपं मया
कस्य हेतोघृतमित्यत आह - क्षितिरिति । तव पृष्ठे क्षितिः पृथ्वी तिष्ठति । तिष्ठतीति
वर्तमानकालनिर्देशे नाधुनापि तव पृष्ठे क्षितिस्तिष्ठतीति कच्छपावतार प्रयोजनं सर्वलोकप्र-
सिद्धमेवेति भावः । ननु पञ्चपञ्चाशत्कोटियोजनविस्तृता पृथ्वी मम पृष्ठे कथं स्थितेत्यत
आह - अतिविपुलतर इति । अतिशयेन पृथ्व्यपेक्षयाधिक विस्तीर्णे । पुनः कीदृशे
धरणिरिति । धरण्याः पृथ्व्या धारणेन यत्किणचक्रं रक्त।कृति मृतरुधिरमण्डलं तेन गरिष्ठे
गौरवयुक्ते । 'कूर्मे कमठकच्छपौ' इत्यमरः । 'व्रणचिह्ने घुणे किण: ' इति हारावलिः ॥ २ ॥
वराहरूपं स्तौति – धृतशूकररूपेति । हे केशव धृतशूकररूप धृतं शूकरस्य रूपं येन
तादृश जय । क्रोडावतारपरिग्रहप्रयोजनमाह - वसतीति । तव दशनशिखरे दन्ताये
लग्ना संश्लिष्टा धरणिः पृथ्वी वसति । कुत्र केव । शशिनि चन्द्रे निमना कलङ्ककलेव
-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri