This page has been fully proofread once and needs a second look.

<bold>अष्टपदी १</bold>
 
<bold>मालवरागेण रूपकतालेन गीयते ।</bold>
 
प्रलयपयोधिजले धृतवानसि वेदम्
विहित वहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर जय जगदीश हरे ॥ ध्रुवम् ॥ १ ॥
 
च । श्रुतिधरनामा कविर्विश्रुतो विख्यातः स तु तस्य गुणैरेव प्रसिद्धः । अपरं च
धोयीनामा कविः कविक्ष्मापतिः । कविराज इत्यर्थः । धोयीति तस्य नाम देशरूढ्या
व्युत्पन्नं प्रातिपदिकम् । इति षट् पण्डितास्तस्य राज्ञो लक्ष्मणसेनस्य प्रसिद्धा इति रूढिः ।
शार्दूलविक्रीडितं छन्दः । समुच्चयोऽलंकारः ॥ ४ ॥ इदानीं केलिं विवर्णयिषुर्नायकस्य
वर्णनेन तद्गुणाकर्णनप्रवीणाञ्श्रोतॄन्विधातुं तदवान्तरकेलीरपि वर्णयितुं श्रीकृष्णं
नायकं दशभिरवतारैस्तास्ताः केलीः कुर्वाणमुपश्लोकयति ॥ आदितालेन गीयते । लघ्वा-
दितालः । मालवरागेण -- <pratika>प्रलयेति ।</pratika> हे हरे धृतमीनशरीर । केशव । जगदीश ।
असीति । <error>त्वं</error><fix>त्वम् </fix> अखेदं विहितवहित्रचरित्रं यथा स्यात्तथा प्रलयपयोधिजले कल्पान्त-
सागरवारिणि वेदं धृतवान् । अतो जय ॥ अत्र जयशब्देन सर्वोत्कृष्टत्वम् । तेन सर्व-
दाऽसाधारण्येन जगत्पाहीति योजना । एवं सर्वत्रासीति तिङन्तप्रतिरूपकं पदं युष्म-
दर्थेऽव्ययम् । <error>अखेदं ।</error><fix>अखेदम् । </fix> अनु च । विहितवहित्रचरित्रमित्युभयमपि साधारणक्रियाविशे-
 
मेव न सत्कवितायां कौशल्यमिति भावः । महाहंकारकथनाय राजोपमा । तथाहंकारादेव
स्वस्य कविराजपदवीमानीतवान् । सत्कविमध्ये तु तस्य गणनापि नेति भावः । गिरां
वचसां संदर्भशुद्धिं गुणालंकारसंपन्नग्रन्थरचनाविशेषं जयदेव एव जानीते नान्यः । अतो-
ऽन्यकाव्यश्रवणे तथा न संतोषो यथा <error>यजदेवकविताश्रवणेनेत्येतदेव</error><fix> जयदेवकविताश्रवणेनेत्येतदेव </fix> श्रोतव्यमिति भावः ।
"पल्लवः किसलये षिङ्गे विटपे विस्तरे बले" इति विश्वः । "लघु क्षिप्रमरं द्रुतम्" । "उत्तरं
प्रतिवाक्ये स्यादूर्ध्वे दिव्ये भ्रमेऽन्यवत्" इति च ॥ ४ ॥ भक्तजनमनोरथपूरणाय भगवतः
सदावतारपरिग्रह इतीहापि मम मनोऽभिलषिते भगवत्केलिवर्णनरूपे कर्मणि, संभावित-
बहुप्रत्यूहनिराकरणं स एव करिष्यतीत्याशयेन भगवतोऽवताराणामसंख्यत्वेऽपि प्रधान-
तया दशावतारपुरस्कारेणैव कृष्णस्तुतिं करिष्यतीत्यादौ मीनरूपं स्तौति -- <pratika>प्रलयेति । </pratika>
गीतस्यास्य मालवरागः । रूपकतालः । "ताललक्षणं रूपके स्यात्" इति संगीतरत्नाकरः ।
गीतार्थस्तु हे केशव, जय सर्वोत्कर्षेण वर्तस्व । ननु मे सर्वोत्कर्षेण वर्तने कुतः साम-
र्थ्यमित्यत आह -- <pratika>जगदीशेति । </pratika> जगतां चतुर्दशभुवनानामीशः प्रभुः । तथा च चतुर्द-
शभुवननाथस्य कथं न सामर्थ्यमिति भावः । तत्र हेत्वन्तरमाह -- हे हरे । हरति
भक्तानां क्लेशमिति <error>हरिस्तादृश । पुनः कीदृश ।</error><fix>हरिस्तादृशः । पुनः कीदृशः ।</fix> धृतं परिगृहीतं स्वेच्छया मीनशरीरं येन
<error>तादृश ।</error><fix>तादृशः</fix> एतद्ध्रुवपदं प्रतिपदमनुवर्तमानम् । तदुक्तम् "ध्रुवत्वाच्च ध्रुवो ज्ञेयः" इति । अत्र
यद्यपि क्वचित्तनुसंधारणमात्रमेवानित्यं ततोऽपि तिर्यग्योनिमीनादिशरीरमयं किमिति ग्राह्य-
मित्यत आह -- <pratika>प्रलयेति । </pratika> त्वं प्रलयपयोधिजले प्रलयकालीनाः परस्परमिलिता ये पयो-