This page has been fully proofread once and needs a second look.

१०.
 
गीतगोविन्दकाव्यम्
 
<bold>अष्टपदी १
</bold>
 
<bold>
मालवरागेण रूपकतालेन गीयते ।
 
</bold>
 
प्रलयपयोधिजले धृतवानसि वेदम्
 
[ सर्गः १
 

विहित वहित्रचरित्रमखेदम् ।
 

केशव धृतमीनशरीर जय जगदीश हरे ॥ ध्रुवम् ॥ १ ॥
 

 
च । श्रुतिधरनामा कविर्विश्रुतो विख्यातः स तु तस्य गुणैरेव प्रसिद्धः । अपरं च

धोयीनामा कविः कविक्ष्मापतिः । कविराज इत्यर्थः । धोयीति तस्य नाम देशरूढ्या

व्युत्पन्नं प्रातिपदिकम् । इति षट् पण्डितास्तस्य राज्ञो लक्ष्मणसेनस्य प्रसिद्धा इति रूढिः ।

शार्दूलविक्रीडितं छन्दः । समुच्चयोऽलंकारः ॥ ४ ॥ इदानीं केलिं विवर्णयिषुर्नायकस्य

वर्णनेन तद्रुगुणाकर्णनप्रवीणाञ्श्रोतृतॄन्विधातुं तदवान्तरकेलीरपि वर्णयितुं श्रीकृष्णं

नायकं दशभिरवतारैस्तास्ताः केलीः कुर्वाणमुपश्लोकयति ॥ आदितालेन गीयते । लध्घ्वा-

दितालः । मालवरागेण - - <pratika>प्रलयेति ।</pratika> हे हरे धृतमीनशरीर । केशव । जगदीश ।

असीति । <error>त्वं</error><fix>त्वम् </fix> अखेदं विहितवहित्रचरित्रं यथा स्यात्तथा प्रलयपयोधिजले कल्पान्त-

सागरवारिणि वेदं धृतवान् । अतो जय ॥ अत्र जयशब्देन सर्वोत्कृष्टत्वम् । तेन सर्व-

दाऽसाधारण्येन जगत्पाहीति योजना । एवं सर्वत्रासीति तिङन्तप्रतिरूपकं पदं युष्म-

दर्थेऽव्ययम् । <error>अखेदं ।</error><fix>अखेदम् । </fix> अनु च । विहितवहित्रचरित्रमित्युभयमपि साधारणक्रियाविशे-

 
मेव न सत्कवितायां कौशल्यमिति भावः । महाहंकारकथनाय राजोपमा । तथाहंकारादेव

स्वस्य कविराजपदवीमानीतवान् । सत्कविमध्ये तु तस्य गणनापि नेति भावः । गिरां

वचसां संदर्भशुद्धिं गुणालंकारसंपन्नग्रन्थरचना विशेषं जयदेव एव जानीते नान्यः । अतो-

न्यकाव्यश्रवणे तथा न संतोषो यथा <error>यजदेवकविता श्रवणेनेत्येतदेव</error><fix> जयदेवकविताश्रवणेनेत्येतदेव </fix> श्रोतव्यमिति भावः ।
'

"
पल्लव:वः किसलये पिनेषिङ्गे विटपे विस्तरे बले'" इति विश्वः । '"लघु क्षिप्रमरं द्रुतम्' । '" । "उत्तरं

प्रतिवाक्ये स्यादूर्ध्वे दिव्ये भ्रमेऽन्यवत्'" इति च ॥ ४ ॥ भक्तजनमनोरथपूरणाय भगवतः

सदावतारपरिग्रह इतीहापि मम मनोऽभिलषिते भगवत्केलिवर्णनरूपे कर्मणि, संभावित-

बहुप्रत्यूहनिराकरणं स एव करिष्यतीत्याशयेन भगवतोऽवताराणामसंख्यत्वेऽपि प्रधान-

तया दशावतारपुरस्कारेणैव कृष्णस्तुतिं करिष्यतीत्यादौ मीनरूपं स्तौति -- <pratika>प्रलयेति
। </pratika>
गीतस्यास्य मालवरागः । रूपकताल: । 'लः । "ताललक्षणं रूपके स्यात्'" इति संगीतरलात्नाकरः ।

गीतार्थस्तु हे केशव, जय सर्वोत्कर्पेण वर्तस्व । ननु मे सर्वोत्कर्षेण वर्तस्व । ननु मे सर्वोत्कर्षेण वर्तने कुतः साम-

र्थ्यमित्यत आह -- <pratika>जगदीशेति । </pratika> जगतां चतुर्दशभुवनानामीशः प्रभुः । तथा च चतुर्द-

शभुवननाथस्य कथं न सामर्थ्यमिति भावः । तत्र हेत्वन्तरमाह -- हे हरे । हरति

भक्तानां क्लेशमिति हरिस्तादृश । पुनः कीदृश । धृतं परिगृहीतं स्वेच्छया मीनशरीरं येन

तादृश । एतद्ध्रुवपदं प्रतिपदमनुवर्तमानम् । तदुक्तम् '"ध्रुवत्वाच्च ध्रुवो ज्ञेयः'" इति । अत्र

यद्यपि क्वचित्तनुसंधारणमात्रमेवानित्यं ततोऽपि तिर्यग्योनिमी नादि शरीरमयं किमिति ग्राह्य-

मित्यत आह -- <pratika>प्रलयेति । </pratika> त्वं प्रलयपयोधिजले प्रलयकालीनाः परस्परमिलिता ये पयो
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
-