This page has not been fully proofread.

१०.
 
गीतगोविन्दकाव्यम्
 
अष्टपदी १
मालवरागेण रूपकतालेन गीयते ।
 
प्रलयपयोधिजले धृतवानसि वेदम्
 
[ सर्गः १
 
विहित वहिनचरित्रमखेदम् ।
 
केशव धृतमीनशरीर जय जगदीश हरे ॥ ध्रुवम् ॥ १ ॥
 
च । श्रुतिधरनामा कविर्विश्रुतो विख्यातः स तु तस्य गुणैरेव प्रसिद्धः । अपरं च
धोयीनामा कविः कविक्ष्मापतिः । कविराज इत्यर्थः । धोयीति तस्य नाम देशरूढ्या
व्युत्पन्नं प्रातिपदिकम् । इति षट् पण्डितास्तस्य राज्ञो लक्ष्मणसेनस्य प्रसिद्धा इति रूढिः ।
शार्दूलविक्रीडितं छन्दः । समुच्चयोऽलंकारः ॥ ४ ॥ इदानीं केलिं विवर्णयिषुर्नायकस्य
वर्णनेन तद्रुणाकर्णनप्रवीणाञ्श्रोतृन्विधातुं तदवान्तरकेलीरपि वर्णयितुं श्रीकृष्णं
नायकं दशभिरवतारैस्तास्ताः केलीः कुर्वाणमुपश्लोकयति ॥ आदितालेन गीयते । लध्वा-
दितालः । मालवरागेण - प्रलयेति । हे हरे धृतमीनशरीर । केशव । जगदीश ।
असीति । त्वं अखेदं विहितवहिनचरित्रं यथा स्यात्तथा प्रलयपयोधिजले कल्पान्त-
सागरवारिणि वेदं धृतवान् । अतो जय ॥ अत्र जयशब्देन सर्वोत्कृष्टत्वम् । तेन सर्व-
दाऽसाधारण्येन जगत्पाहीति योजना । एवं सर्वत्र सीति तिङन्तप्रतिरूपकं पदं युष्म-
दर्थेऽव्ययम् । अखेदं । अनु च । विहितवहित्रचरित्रमित्युभयमपि साधारणक्रियाविशे-
मेव न सत्कवितायां कौशल्यमिति भावः । महाहंकारकथनाय राजोपमा । तथाहंकारादेव
स्वस्य कविराजपदवीमानीतवान् । सत्कविमध्ये तु तस्य गणनापि नेति भावः । गिरां
वचसां संदर्भशुद्धिं गुणालंकारसंपन्नग्रन्थरचना विशेषं जयदेव एव जानीते नान्यः । अतो-
इन्यकाव्यश्रवणे तथा न संतोषो यथा यजदेवकविता श्रवणेनेत्येतदेव श्रोतव्यमिति भावः ।
'पल्लव: किसलये पिने विटपे विस्तरे बले' इति विश्वः । 'लघु क्षिप्रमरं द्रुतम्' । 'उत्तरं
प्रतिवाक्ये स्यादूर्ध्वे दिव्ये भ्रमेऽन्यवत्' इति च ॥ ४ ॥ भक्तजनमनोरथपूरणाय भगवतः
सदावतारपरिग्रह इतीहापि मम मनोऽभिलषिते भगवत्केलिवर्णनरूपे कर्मणि, संभावित-
बहुप्रत्यूहनिराकरणं स एव करिष्यतीत्याशयेन भगवतोऽवताराणामसंख्यत्वेऽपि प्रधान-
तया दशावतारपुरस्कारेणैव कृष्णस्तुतिं करिष्यतीत्यादौ मीनरूपं स्तौति – प्रलयेति
गीतस्यास्य मालवरागः । रूपकताल: । 'ताललक्षणं रूपके स्यात्' इति संगीतरलाकरः ।
गीतार्थस्तु हे केशव, जय सर्वोत्कर्पेण वर्तस्व । ननु मे सर्वोत्कर्षेण वर्तने कुतः साम-
र्थ्यमित्यत आह—जगदीशेति । जगतां चतुर्दशभुवनानामीशः प्रभुः । तथा च चतुर्द-
शभुवननाथस्य कथं न सामर्थ्यमिति भावः । तत्र हेत्वन्तरमाह — हे हरे । हरति
भक्तानां क्लेशमिति हरिस्तादृश । पुनः कीदृश । धृतं परिगृहीतं स्वेच्छया मीनशरीरं येन
तादृश । एतद्ध्रुवपदं प्रतिपदमनुवर्तमानम् । तदुक्तम् 'ध्रुवत्वाच्च ध्रुवो ज्ञेयः' इति । अत्र
यद्यपि क्वचित्तनुसंधारणमात्रमेवानित्यं ततोऽपि तिर्यग्योनिमी नादि शरीरमयं किमिति ग्राह्य-
मित्यत आह—प्रलयेति । त्वं प्रलयपयोधिजले प्रलयकालीनाः परस्परमिलिता ये पयो•
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri