2022-10-19 13:36:09 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-
स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ४ ॥
बन्धः । वैष्णवा अधिकारिणः । दीपकमलंकारः । द्रुतविलम्बितं वृत्तम् । "द्रुतविल-
म्बितमाह नभौ भरौ" । पाञ्चाली रीतिः । कौशिकी वृत्तिः ॥ अत्र मधुरकोमलकान्त-
पदावलीत्यादिपदैर्विलासकलासु कुतूहलस्यौचित्योद्भावनेन शृङ्गाररसस्वरूपानुरूपो
वाक्यार्थ उन्निद्रो भवति । तथा चोक्तम् -- "औचित्यमुचितं वाक्यं सन्ततं संमतं सताम् ।
त्यागोदग्रमिवैश्वर्यं शीलोज्ज्वलमिव श्रुतम्" ॥ ३ ॥ इदानीं कविः कविगणनायां परै-
रपि कविभिरहं परिगणित इति स्वप्रशंसार्थं क्षेपकमपि तत्कृतं श्लोकं स्वप्रबन्धस्य कुर्व-
न्नाह -- <pratika>वाच इति ।</pratika> तानेव परिगणितान्कवीन्स्वस्वगुणेनोपश्लोकितानाह । उमापति-
धरनामा कविः वाचो वाणीः पल्लवयति विस्तारयति । साकूतैर्विशेषणैर्गद्यादिप्रबन्धे
चतुरः । अपरं च । गिरां वाचां संदर्भशुद्धिं गुम्फवैशद्यं जयदेव एव जानीते । शर-
णसंज्ञः कविः दुरूहद्रुतेः श्लाघ्यो दुर्विचारपदपदार्थज्ञानात्प्रशस्यः । शृङ्गारप्रधाननिर्दो-
षार्थनिर्माणैराचार्यगोवर्धनस्पर्धी कोऽपि न । एतेन तस्य सर्वाधिक्यमुक्तं भवति ॥ अपरं
अनेनैव पदन्यासः कामं धारामधुच्युतः ॥ बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन
वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ औज्ज्वल्यकान्तिरित्याहुर्गुणं गुणविपश्चितः । पुरा-
णचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥" इति । अर्थमधुरत्वादिलक्षणं तु वामने । तथा च
तत्सूत्राणि -- "उक्तिवैचित्र्यं माधुर्यं" "अपारुष्यं सौकुमार्यं" "परुषेऽर्थेऽप्यपारुष्यम् । यथा मृते
यशः शेष इत्यर्थः" । "दीप्तरसत्वं कान्तत्वम्" इति ॥ ३ ॥ तद्गुणविशिष्टापि सरस्वती लक्ष्मण-
सेनमहाराजसभासु महाकवीनामुमापतिधरादीनामस्ति सा किं श्रोत्राणां न सुखावहेत्यत
आह -- <pratika>वाच इति ।</pratika> उमापतिधरनामा लक्ष्मणसेनामात्यो वाचः पल्लवयति विस्तारयति ।
तथा चोमापतिधरस्य वाङ्माधुर्यशून्यं शब्दार्थगुणशून्यं सच्चित्राख्यमधमकाव्यं न सहृदयहृ-
दयाह्लादजनकमिति भावः । शरणनामा कविर्दुरूहस्य काव्यस्य शीघ्ररचने श्लाघ्यः स्तुत्यः ।
तथा च शरणकवेरपि काव्यं गूढार्थत्वादिदोषयुक्तं प्रसादादिगुणरहितं चेति तदपि न विद-
ग्धमनोविनोदास्पदमिति भावः । तथा शृङ्गारोत्तरेति शृङ्गाररस एवोत्तरः श्रेष्ठो यत्र,
शृङ्गारेणोत्तरं प्रधानं वा यत्सत्प्रमेयमुत्तमं वस्तु तस्य रचनैः कवितायां ग्रन्थनैराचार्यगोव-
र्धनस्पर्धी गोवर्धनाचार्येण सह स्पर्धावान्कोऽपि न विश्रुतो न ख्यातः । अत्र शृङ्गारेत्या-
दिना शृङ्गाररसप्रधानकाव्यरचनायामेव तस्य सामर्थ्यम् । रसान्तरवर्णने तु सोऽप्यप्रौढ
एवेति तत्काव्ये वर्णनीयार्थस्य शुद्धत्वेऽपि माधुर्यगुणसंपन्नपदरचनायां सोऽप्यशक्तश्चेति
<error>ध्यनितम् ।</error><fix>ध्वनितम् । </fix> इतरविद्याध्ययनादिनाचार्यत्वं सत्काव्यरचनायामप्रयोजकमिति सोपहासमुक्त-
<pratika>माचार्येति ।</pratika> तथा च स न सत्कविर्नापि सत्कविहृदयं तस्येति भावः । धोयी कविक्ष्मापतिः
धोयीनामा कविराजः । श्रुतिधरः श्रुतिः श्रवणं तन्मात्रादेव ग्रन्थग्राही । तस्योच्चारितमात्रग्राहित्व-