This page has been fully proofread once and needs a second look.


 
गीतगोविन्दकाव्यम्
 
[ सर्गः १
 
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।

मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥
 
यथा-

 
लोकातीतचरित्रस्य लोकेशस्य पुनः सदा । स्वजायानर्तनं युक्तमिति युक्ततरं वचः ॥'
"
अत्र चित्तसद्मनोरभेदारोपाद्रूपकालंकारः । अनुप्रासश्च । '"उक्ता वसन्ततिलका तभजा

जगौ गः'" ॥ ओजो गुणः । गौडीया रीतिः । भारती वृत्तिः । भूरिगुरुत्वात्संभाविता

गीतिः ॥ अत्र वसुभिर्दीयत इति तदपत्याभिधानेन प्राप्तपितृधनस्य केलिकरणमुचित -
-
मिति अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन वासुदेवपदेन सकलप्रबन्धस्यापि पीयूषवर्षेणेव

समुचितार्थविशेषेण प्रबन्धः स्फुरदिव चमत्कारकारितामापद्यते । तथा चोक्तम्-
'
--
"
उचितार्थविशेषेण प्रबन्धार्थः प्रकाशते । गुणप्रभावभव्येन विभवेनेव सज्जनः ॥'
- '
"
यथा -- "
जातं वंशे भुवनविदिते पुष्करावर्तकानाम्'" इत्यत्राचेतनस्य चेतनाध्यारोपेण

मेघस्य दूत्ययोग्यताभिधानाय प्रथितपुष्करावर्तक वंशत्वाद्युपन्यस्तम् ॥ २ ॥ कविरि-

दानीं स्वप्रबन्धस्य प्रयोजनमाविष्करोति -- <pratika>यदीति ।</pratika> हे श्रोतरित्यध्याहार्यम् । तदा

तर्हि जयदेवसरस्वतीं प्रबन्धरूपां वाणीं शृणु। किंलक्षणाम् । मधुरकोमलकान्तपदा-

वलीम् । मधुरा कोमला कान्ता पदानामावलिर्यस्यां सा । एतेन माधुर्यौजःप्रसादाद्या

दशापि गुणा उक्ता भवन्ति । तदेति किम् । यदि हरिस्मरणे मनः सरसं एकाग्रं

सरागं वर्तते । अपरं च । यदि विलासकलासु कुतूहलम् । विलासिनां शृङ्गारिणां

कलास्तासु । '"विलासो गमनादिः स्याच्चेष्टा श्लिष्टाङ्ग्या कृता'" इति । एतेनास्य

प्रबन्धस्य प्रयोजनाभिधेयसंबन्धाधिकारिण उक्ता भवन्ति । विलासकलाशिक्षा

अवान्तर प्रयोजनम् । हरिस्मरणं परमं प्रयोजनम् । स्मार्यस्मारकलक्षणः सं-
-
 

 

 
श्चरणयोर्विषयभूतयोश्चारणचक्रवर्ती नटसार्वभौमः । नृत्यादिना सदा लक्ष्म्याराधन पर
पर
इत्यर्थः । एतेन दारिद्र्यराहित्यं सूचितम् । दरिद्रेण हि शृङ्गारादिरसो न ज्ञायत इति

भावः । '"आलेख्याश्चर्ययोश्चित्रम्'" इत्यमरः । '"गृहं गेहोदवसितं वेश्म सद्म निकेतं-
नम्'
त-
नम्"
इति च । '"चारणास्तु कुशीलवाः'" इत्यपि ॥ २ ॥ संप्रति प्रेक्षावत्प्रवृत्त्यर्थमितर-

काव्यापेक्षया स्वकाव्यस्योत्कर्षं कथयन्नेव प्रकृतकाव्यस्याधिकारि प्रयोजनमाह - - <pratika>यदीति ।
</pratika>
हे सज्जनगण, यदि हरिस्मरणे कृष्णानुचिन्तने मनः सरसं सानुरागम् । यदि विलास-

कलासु विलासः स्त्रीणां हावविशेषस्तत्संबन्धिनीषु कलासु कुतूहलं कौतुकं तदा जयदे-

वस्य कवेः सरस्वतीं शृणु । कीदृशीम् । मधुरकोमलकान्तपदावलीम् । मधुरत्वं द्विविधं

शब्दाश्रितमर्थाश्रितं च । तत्र शब्दमधुरत्वं पृथक्पदत्वं, अर्थमधुरत्वं चोक्तिवैचित्र्यं तद्युक्ता

मधुरा । तथा कोमलत्वमपि द्विविधम् । तत्र शब्दकोमलत्वं बन्धस्यापरुषत्वम् ।

अर्थकोमलत्वं परुषेऽप्यर्थेऽपरुषत्वं तदुभययुक्ता कोमला । कान्तत्वमपि द्विविधम् । तत्र

शब्दगतमुज्ज्वलन्धविशेषादिना मनः श्रोत्रप्रीतिप्रदत्वं, अर्थगतं च दीप्तरसवत्त्वं तदुभय-

युक्ता कान्ता रमणीया एतादृशी पदावली पदपरम्परा यत्र तादृशीम् । '"शृङ्गारादौ

रसे वीर्ये गुणे रागे द्रवे रसः'" इत्यमरः । विलासलक्षणं दशरूपके– ' -- "तात्कालिको विशे-

स्तु विलासोऽङ्गक्रियास्विति' । '" । "कला चन्द्रकलायां स्यात्क्रीडनात्'" इति कोषः । शब्द-

माधुर्यादिलक्षणानि तु वामनेन लिखितानि '"बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri