This page has not been fully proofread.


 
गीतगोविन्दकाव्यम्
 
[ सर्गः १
 
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥
 
यथा-
लोकातीतचरित्रस्य लोकेशस्य पुनः सदा । वजायानर्तनं युक्तमिति युक्ततरं वचः ॥'
अत्र चित्तसद्मनोरभेदारोपाद्रूपकालंकारः । अनुप्रासश्च । 'उक्ता वसन्ततिलका तभजा
जगौ गः' ॥ ओजो गुणः । गौडीया रीतिः । भारती वृत्तिः । भूरिगुरुत्वात्संभाविता
गीतिः ॥ अत्र वसुभिर्दीयत इति तदपत्याभिधानेन प्राप्तपितृधनस्य केलिकरणमुचित -
मिति अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन वासुदेवपदेन सकलप्रबन्धस्यापि पीयूषवर्षेणेव
समुचितार्थविशेषेण प्रबन्धः स्फुरदिव चमत्कारकारितामापद्यते । तथा चोक्तम्-
'उचितार्थविशेषेण प्रबन्धार्थः प्रकाशते । गुणप्रभावभव्येन विभवेनेव सज्जनः ॥'
- 'जातं वंशे भुवनविदिते पुष्करावर्तकानाम्' इत्यत्राचेतनस्य चेतनाध्यारोपेण
मेघस्य दूत्ययोग्यताभिधानाय प्रथितपुष्करावर्तक वंशत्वाद्युपन्यस्तम् ॥ २ ॥ कविरि-
दानीं स्वप्रबन्धस्य प्रयोजनमाविष्करोति – यदीति । हे श्रोतरित्यध्याहार्यम् । तदा
तर्हि जयदेवसरस्वतीं प्रबन्धरूपां वाणीं शृणु। किंलक्षणाम् । मधुरकोमलकान्तपदा-
वलीम् । मधुरा कोमला कान्ता पदानामावलिर्यस्यां सा । एतेन माधुर्यौजःप्रसादाद्या
दशापि गुणा उक्ता भवन्ति । तदेति किम् । यदि हरिस्मरणे मनः सरसं एकाग्रं
सरागं वर्तते । अपरं च । यदि विलासकलासु कुतूहलम् । विलासिनां शृङ्गारिणां
कलास्तासु । 'विलासो गमनादिः स्याचेष्टा लिटाङ्गया कृता' इति । एतेनास्य
प्रबन्धस्य प्रयोजनाभिधेयसंबन्धाधिकारिण उक्ता भवन्ति । विलासकलाशिक्षा
अवान्तर प्रयोजनम् । हरिस्मरणं परमं प्रयोजनम् । स्मार्यस्मारकलक्षणः सं-
-
 

 
श्चरणयोर्विषयभूतयोश्चारणचक्रवर्ती नटसार्वभौमः । नृत्यादिना सदा लक्ष्म्याराधन पर
इत्यर्थः । एतेन दारिद्र्यराहित्यं सूचितम् । दरिद्रेण हि शृङ्गारादिरसो न ज्ञायत इति
भावः । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । 'गृहं गेहोदवसितं वेश्म सद्म निकेतं-
नम्' इति च । 'चारणास्तु कुशीलवाः' इत्यपि ॥ २ ॥ संप्रति प्रेक्षावत्प्रवृत्त्यर्थमितर-
काव्यापेक्षया स्वकाव्यस्योत्कर्षं कथयन्नेव प्रकृतकाव्यस्याधिकारि प्रयोजनमाह - यदीति ।
हे सज्जनगण, यदि हरिस्मरणे कृष्णानुचिन्तने मनः सरसं सानुरागम् । यदि विलास-
कलासु विलासः स्त्रीणां हावविशेषस्तत्संबन्धिनीषु कलासु कुतूहलं कौतुकं तदा जयदे-
वस्य कवेः सरस्वतीं शृणु । कीदृशीम् । मधुरकोमलकान्तपदावलीम् । मधुरत्वं द्विविधं
शब्दाश्रितमर्थाश्रितं च । तत्र शब्दमधुरत्वं पृथक्पदत्वं, अर्थमधुरत्वं चोक्तिवैचित्र्यं तद्युक्ता
मधुरा । तथा कोमलत्वमपि द्विविधम् । तत्र शब्दकोमलत्वं बन्धस्यापरुषत्वम् ।
अर्थकोमलत्वं परुषेऽप्यर्थेऽपरुषत्वं तदुभययुक्ता कोमला । कान्तत्वमपि द्विविधम् । तत्र
शब्दगतमुज्ज्वलवन्धविशेषादिना मनः श्रोत्रप्रीतिप्रदत्वं, अर्थगतं च दीप्तरसवत्वं तदुभय-
युक्ता कान्ता रमणीया एतादृशी पदावली पदपरम्परा यत्र तादृशीम् । 'शृङ्गारादौ
रसे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । विलासलक्षणं दशरूपके– 'तात्कालिको विशे-
घस्तु विलासोऽङ्गक्रियास्विति' । 'कला चन्द्रकलायां स्यात्क्रीडनात्' इति कोषः । शब्द-
माधुर्यादिलक्षणानि तु वामनेन लिखितानि 'बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri