This page has not been fully proofread.

सर्ग: १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
श्री वासुदेवरति केलि कथासमेत-
मेतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥
 
-
 
स्त्रेऽपि — 'किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिक्षा-
स्तस्मिन्व्यवस्थिता ॥' इति । परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय ।
यतः — 'कान्तासंमिततया' इत्युपदेशप्रामाण्यात् । यथा — एवं श्रीवासुदेवरति के-
लिकथासमेतम् । श्रीश्च वासुदेवश्च तौ । तयो रतिकेलिकथासमेतम् । अत्र 'स्त्रीनामला-
ञ्छितं सर्वं श्री' रिति श्रीशब्देन राधाभिधीयते । अथवा श्रीः शोभा लक्ष्मीर्वा तद्वतो
वासुदेवस्य । तदसूचि पूर्वपये माधवशब्देन, रतिकेलीति सुरतक्रीडाकथनेन वा ।
रत्या शृङ्गारस्थायिभावेनानुरागेण याः केलयः कथाः परस्परसंकथनानि तत्समेतम् ।
अथ कविरात्मनो विशेषणद्वारेण सरस्वतीचरण किंकरत्वं अनु च प्रबन्धस्य पद्मावतीदे-
वतासमाराधनफलवमाह - वाग्देवतेति । वाग्देवताच रितेन चित्रितं संजातचित्रं
चित्तसद्म यस्य स तथा । सरस्वत्यनुस्मरणपरहृदय इत्यर्थः । अपरं च । लक्ष्मीचरणसेव-
काग्रणीः । पद्मं करेऽस्ति यस्याः सा पद्मावती लक्ष्मीः । 'शरादीनां च' इति दीर्घः ।
अथ पद्मावती अष्टाक्षरमन्त्राधिदैवतं तस्याश्चरणचारणेन परिचर्याविशेषेण चक्रवर्ती ।
कविराज इत्यर्थः । 'पद्मावती तस्य कलत्रमेके वदन्ति यत्तन्न विचारचारु । यतः
सदाचारपरम्परैषा गृह्णन्ति तन्नाम न नाम सन्तः ॥ कर्मादिसदैवतसंप्रयोगे तत्कीर्तनं
किं न विशेषगर्हम् । रहो विहाय क्व च नापि दृष्टं सतां स्वकान्ताप्रणयादिकं तु ॥' अत-
स्तब्याख्योपेक्षा । एवं यद्यप्यस्ति तत्त्वं तथापि महतामिहालौकिकचमत्कारि चरितं
किंचिदीक्ष्यते—'तथाहि सत्यभामाग्रे ननर्त नरकान्तकृत् । देहार्धे च बभारोमामीशो
योगिवरोऽपि सन् ॥ अथवा भक्तियोगस्य स्वभावः कोऽप्यनीदृशः । यतस्तद्योग-
युक्ता हि गणयन्ति न लौकिकम् ॥ अथात्मा जायते यस्यां सा जायेति श्रुतीरणात् ।
तत्स्वरूपपरस्खत्वात्सा भक्तिर्या तथा सह ॥ तथा हि धर्मकार्याणि न सन्त्यत्र तया
विना । सर्वेषु धर्मकार्येषु पन्युक्ता दक्षिणाङ्गगा ॥ किंतु सा भक्तिरत्रोक्ता योप-
चारेण वर्जिता । तां विनाऽतोऽनुरज्यन्ति सन्तः स्खेनेष्टदैवते ॥ शृङ्गारित्वाद
स्त्रीयां जायां नर्तयतीह सः । परार्थनिष्ठबुद्धीनां न हि लोकव्यतिक्रमः ॥ लोको वेद-
स्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । तत्र लोकस्य मुख्यत्वात्तदुक्तिर्नान्यथा भवेत् ॥
अतः पद्मावती तस्य कलत्रमिति नान्यथा । परभागवतस्यास्य जयदेवस्य युज्यते ॥
 
1
 
तीति ध्वनिः । तथा च यद्यपि कृष्णकेलिवर्णनमन्यत्रापि ग्रन्थे वर्तते तथापि पूर्वैर्वर्णितमपि
लोकोत्तरापूर्वसत्काव्यरचनानिबद्धमतिचमत्कारकारि भविष्यति । यथा पुरुषैरभिधीयमान
एवार्थोऽन्येषां वाङ्मनोवचनभङ्गिमारूढोऽन्यमेव श्रोत्रचमत्कारं करोतीति नानर्थको मे
प्रयास इति भावः । पुनः कीदृशः कविः । पद्मावती नाम जयदेवपत्ती तस्याश्चरणयोर्य-
च्चारणं संचारणम् । नर्तनमिति यावत् । तेन चक्रवर्ती नटसार्वभौम इत्यर्थः । एतेन
कवेः कृष्णभक्त्याधिक्यं शृङ्गारित्वं च ध्वनितम् । तेन सरसकाव्यकरणेऽधिकारः सूचितः
तदुक्तम् – 'शृङ्गारी चेत्कविः काव्यं जातं रसमयं जगत् । स एव यत्राशृङ्गारी सर्वं विर-
सतां व्रजेत् ॥" इति । केचित्तु पद्मा इति संज्ञां विधत्ते । पद्मावती लक्ष्मीस्तस्या-
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri