This page has been fully proofread once and needs a second look.


 
गीतगोविन्दकाव्यम्
 
वाग्देवताचरितचित्रितचित्तसद्मा

पद्मावतीचरणचारणचक्रवर्ती ।
 
. [ सर्गः १
 

 
"प्रधाने यत्र वाक्यार्थे यत्रायान्ति रसादयः । काव्ये तस्मिन्नलंकारो
रसादिरिति मे
 
'प्रधाने यत्र वाक्यार्थे यत्रायान्ति रसादयः । काव्ये तस्मिन्नलंकारो

मतिः'" ॥ प्रकृते तु शृङ्गारस्य प्राधान्यमपि प्रतिपन्नम् । अत्र वैदर्भी रीतिः - '- "अस्पृष्टा
क्षे

दो
षमात्राभिरनल्पगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥'" शृङ्गारा-

वस्थानसूचिका कौशिकी वृत्तिः । संभाविता गीतिः । तस्याश्च लक्षणम् – '-- "संभाविता

भूरिगुरुर्द्विकला वार्तिके पथि'" । मध्यो लयः । प्रसादो गुणः । अनुकुलो नायकः ।

स्वाधीनपतिका नायिका ॥ पूर्वार्धेऽभिलाषलक्षणो विप्रलम्भः । अपरार्धे संभोगश्च

शृङ्गारः । एवं केलय इति कथाबीजलक्षणं वस्त्वपि निर्दिष्टं भवति ॥ एवं च त्रिवि-

धमपि काव्यमुखं महाकविना समुन्मीलितं भवति ॥ यदत्र कश्चित्संभोगशृङ्गारल-

क्षणं वस्त्ववदत् स एव चास्य विवेचनक्षमः ॥ शार्दूलविक्रीडितं छन्दः । यथा - - "सूर्या
-
श्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्" ॥ १ ॥ कविरिदानीं सकलकलिकलुषहारि-

हरिचरितानुस्मरणसरसतापादनेन तद्भक्तानंनुगृह्णन्समुचितेष्टदेवताभावनाभावितान्तः-

करणस्तत्फलभूतं शृङ्गारोत्तरं प्रबन्धं कर्तुं प्रवितिजानीते- -- <pratika>वाग्देवतेति । </pratika>जयदेवक-

विरेतं गीतगोविन्दाभिधं प्रबन्धं करोति । अत्र जगदानन्दकन्दलीकन्द गोविन्दपदार-

विन्दमकरन्दामोदमधुरतराखास्वादमधुकरमधुरचेता भागवतप्रधानः परमकारुणिको

जयदेवकविर्देवदेवे भगवत्याविष्टचित्तः कलिकलुषान्तःकरणत्वेनेतस्ततः परिविक्षिप्तान्

सुखेन तदभिमुखीकरणाय कलावती केलि कुतूलिनं लिसोदरं निरूपयितुं निर्गुणं निरू-

पयिषुः '"निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरःराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेष-

निरूपणैः ॥'" इति दर्शयितुं धर्मार्थकामाः स्वनुष्ठिता मोक्षायेति मोक्षोपायतया धर्मा-
र्थं

र्थ
योरुपरि वर्तमानस्य पुरुषार्थ विशेषस्य निदानत्वेन पितॄणामानृण्यहेतुभूतापत्योत्पत्ति-

द्वारेण नितम्बिनीमूलत्वमुपदर्शयितुं तद्विशिष्टं वासुदेवं विवर्णयिषुरिमं प्रबन्धमुपनि-

बध्नाति । तथा चोक्तमभियुक्तैः– ' -- "संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृर्णां

किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । तल्लक्ष्मीसमुपार्जनं पुलकिनां

रक्तस्वरं गायतां तत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥'" इति । कामशा-
'

 
"
रहश्चोपांशु चालिङ्गे एकान्तार्थेऽव्ययम्'" (?) ॥ १ ॥ अत्र रागिमुमुक्षुसाधारणप्रवृत्त्यर्थं सक-

लजनमनोहरं शृङ्गाररसगर्भं भगवत्केलिवर्णनरूपं काव्यं क्रियत इत्यभिधेयं प्रतिजानीते-
चा
--
<pratika>वा
ग्देवतेति ।</pratika> जयदेवकविरेतं गीतगोविन्दाख्यं प्रबन्धं करोति । कीदृशम् । श्रीः लक्ष्मी

राधारूपेणावतीर्णा, वासुदेवः कृष्णस्तयो रतिकेलिकथया सुरतक्रीडानुवर्णनेन समेतं

युक्तम् । ननु वासुदेवकेलिवर्णनं बहुषु ग्रन्थेषु वर्तत इति किमनेनेत्यत आह -- वाग्देवतेति ।
बा

वा
क्स्वरूपा या देवता सरस्वती तस्याश्चरितेन प्रसादमाधुर्यादिगुणसंपन्नलोकोत्तरकाव्यरच
-
नारूपेण चित्रितं चित्रमालेख्यं तद्युक्तं कृतं चित्तरूपं सद्म गृहं यस्य सः । अत्र सकल-

जनाह्लादकारित्वेन नानावर्णमयत्वेन वाग्देवताचरितस्य चित्रत्वेन निरूपणम् । चित्तं च

विचित्रकविता रूपमहाधन निधानत्वेन कृष्ण के लिवर्णना दिना संसारतापसंतप्तक
बि
विजनविश्रा-

मस्थानत्वेन सद्मतया निरूपितम् । अपरमपि गृहं विविधपुत्रिकाभिरालेख्यैर्मण्डितं भव-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri