This page has not been fully proofread.


 
गीतगोविन्दकाव्यम्
 
वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्ती ।
 
. [ सर्गः १
 
रसादिरिति मे
 
'प्रधाने यत्र वाक्यार्थे यत्रायान्ति रसादयः । काव्ये तस्मिन्नलंकारो
मतिः' ॥ प्रकृते तु शृङ्गारस्य प्राधान्यमपि प्रतिपन्नम् । अत्र वैदर्भी रीतिः - 'अस्पृष्टा
क्षेषमात्राभिरनल्पगुणगुम्फिता । विपञ्चीखरसौभाग्या वैदर्भी रीतिरिष्यते ॥' शृङ्गारा-
वस्थानसूचिका कौशिकी वृत्तिः । संभाविता गीतिः । तस्याश्च लक्षणम् – 'संभाविता
भूरिगुरुर्द्विकला वार्तिके पथि' । मध्यो लयः । प्रसादो गुणः । अनुकुलो नायकः ।
स्वाधीनपतिका नायिका ॥ पूर्वार्धेऽभिलाषलक्षणो विप्रलम्भः । अपरार्धे संभोगश्च
शृङ्गारः । एवं केलय इति कथाबीजलक्षणं वस्त्वपि निर्दिष्टं भवति ॥ एवं च त्रिवि-
धमपि काव्यमुखं महाकविना समुन्मीलितं भवति ॥ यदत्र कश्चित्संभोगशृङ्गारल-
क्षणं वस्त्ववदत् स एव चास्य विवेचनक्षमः ॥ शार्दूलविक्रीडितं छन्दः । यथा - सूर्या
श्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १ ॥ कविरिदानीं सकलकलिकलुषहारि-
हरिचरितानुस्मरणसरसतापादनेन तद्भक्तानंनुगृह्णन्समुचितेष्टदेवताभावनाभावितान्तः-
करणस्तत्फलभूतं शृङ्गारोत्तरं प्रबन्धं कर्तुं प्रविजानीते- वाग्देवतेति । जयदेवक-
विरेतं गीतगोविन्दाभिधं प्रबन्धं करोति । अत्र जगदानन्दकन्दलीकन्द गोविन्दपदार-
विन्दमकरन्दामोदमधुरतराखादमधुकरमधुरचेता भागवतप्रधानः परमकारुणिको
जयदेवकविर्देवदेवे भगवत्याविष्टचित्तः कलिकलुषान्तःकरणत्वेनेतस्ततः परिविक्षिप्तान्
सुखेन तदभिमुखीकरणाय कलावती केलि कुतूइलिनं इलिसोदरं निरूपयितुं निर्गुणं निरू-
पयिषुः 'निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेष-
निरूपणैः ॥' इति दर्शयितुं धर्मार्थकामाः स्वनुष्ठिता मोक्षायेति मोक्षोपायतया धर्मा-
र्थंयोरुपरि वर्तमानस्य पुरुषार्थ विशेषस्य निदानत्वेन पितॄणामानृण्यहेतुभूतापत्योत्पत्ति-
द्वारेण नितम्बिनीमूलत्वमुपदर्शयितुं तद्विशिष्टं वासुदेवं विवर्णयिषुरिमं प्रबन्धमुपनि-
बध्नाति । तथा चोक्तमभियुक्तैः– 'संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृर्णां
किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । तल्लक्ष्मीसमुपार्जनं पुलकिनां
रक्तस्वरं गायतां तत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥' इति । कामशा-
'रहश्चोपांशु चालिङ्गे एकान्तार्थेऽव्ययम्' (?) ॥ १ ॥ अत्र रागिमुमुक्षुसाधारणप्रवृत्त्यर्थं सक-
लजनमनोहरं शृङ्गाररसगर्भ भगवत्केलिवर्णनरूपं काव्यं क्रियत इत्यभिधेयं प्रतिजानीते-
चाग्देवतेति । जयदेवकविरेतं गीतगोविन्दाख्यं प्रबन्धं करोति । कीदृशम् । श्रीः लक्ष्मी
राधारूपेणावतीर्णा, वासुदेवः कृष्णस्तयो रतिकेलिकथया सुरतक्रीडानुवर्णनेन समेतं
युक्तम् । ननु वासुदेवकेलिवर्णनं बहुषु ग्रन्थेषु वर्तत इति किमनेनेत्यत आह—वाग्देवतेति ।
बाक्स्वरूपा या देवता सरस्वती तस्याश्चरितेन प्रसादमाधुर्यादिगुणसंपन्नलोकोत्तरकाव्यरच
नारूपेण चित्रितं चित्रमालेख्यं तयुक्तं कृतं चित्तरूपं सद्म गृहं यस्य सः । अत्र सकल-
जनाह्लादकारित्वेन नानावर्णमयत्वेन वाग्देवताचरितस्य चित्रत्वेन निरूपणम् । चित्तं च
विचित्रकविता रूपमहाधन निधानत्वेन कृष्ण के लिवर्णना दिना संसारतापसंतप्तक
बिजनविश्रा-
मस्थानत्वेन सद्मतया निरूपितम् । अपरमपि गृहं विविधपुत्रिकाभिरालेख्यैर्मण्डितं भव-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri