This page has been fully proofread once and needs a second look.

नकनिमित्तता । मेघाडम्बरतादेस्तन्महद्व्याख्यानकौशलम् ॥ अन्यहेतुभिरन्यस्योत्पत्ति-
श्चेद्दृश्यते तदा । विस्मयस्थायिभावत्वादद्भुतोपस्थितिर्न किम् ॥ धात्रीयोगान्न शृङ्गारो
न हास्यो रहसीङ्गितैः । न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम् । तस्मादत्र विभा-
वानुभावसंचारिभिर्भवेत् । शृङ्गारो नन्दसामीप्यात्तयोश्चलितयोः स्वतः ॥ यथा
द्रव्याणि नानात्वं भावान्तरविभावतः । व्रजन्ति नानारसतां तथा भावास्त एव हि ॥
एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके । विभावाद्यवियुक्तेन भावकेन विभावि-
ताः॥" तस्मात्काव्याभिप्रायसूचितशृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्यमिति । अत्र
मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिराक्रमणाच्चेतसोऽन्यथावृत्तिः सूचिता ।
अम्बरमिति स्वच्छन्दविहारभङ्गशङ्कां मा कृथा इति । वनभुव इति बहुवचनेन नानाव-
स्थरतक्षमं प्रदेशबाहुल्यं द्योतितम् । नक्तमिति कालस्य स्वच्छन्दप्रच्छन्नकामुकयोग्य-
त्वमुक्तम् । माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः । यमुनाकूल
इति रतिश्रमनिराससाधनशिशिरसमीरसद्भावार्थम् । अयमिति रत्युद्रेकाकुलतया स्वाङ्गे-
ष्वप्यौदासीन्यद्योतनाय । यथा श्रीह[^१]र्षमिश्रस्य हंसेन स्वात्मनि निराशीभूतेन -- "गति-
स्तयोरेकतरस्तमर्दयन्" इत्याद्यभाणि । यथा वा श्रीका[^२]लिदासस्य ईश्वरेण तयावगणिते
आत्मन्यनास्थापरत्वेन -- "अयं जनः प्रष्टुमनास्तपोधने" इत्याद्यवादि । अत्र वर्णवृत्त्य-
नुप्रासः शब्दालंकारः । पूर्वार्धे समुच्चयोऽर्थालंकारः । तल्लक्षणं तु -- "तत्सिद्धिहेतावेक-
स्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ" । यथा -- "दुर्वाराः स्मरमार्गणाः प्रियतमो
दूरे" इत्यादि । उत्तरार्धे चाशीः । तद्योजनं च -- सर्वोत्कृष्टास्ताः केलयो विलासकलासु
कुतूहलिनः पान्तु । अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टिः -- "सेष्टा संसृष्टिरे-
तेषां भेदेन यदिह स्थितिः" इति । अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिल-
कायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्दुसुन्द-
रवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी
सकलकविकुलललामभूता कामपि विच्छित्तिमातनोति । यथा -- "मग्नानि द्विषतां
कुलानि समरे त्वत्खड्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा ।
मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्यु-
कृपाणे दृशौ ॥" अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि । तन्न । तल्लक्षणाः
भावात् ॥ लक्षणं तु -- "तदेवोक्तं काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति । नात्र "वपुःप्रादु-
र्भावात् -- "इतिवद्धेतोर्वाक्यार्थता । नापि "प्रणयसलीलपरिहासरसाधिगतैः" इतिवदने-
कपदार्थता । नापि "भस्मोद्धूलन भद्रमस्तु भवते" इतिवद्धेतोरेकपदार्थता । तस्य गतिं
त एव प्रष्टव्याः । एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वच्चित्तचमत्कृ-
तिमातनोति ॥ तर्हि काव्यचारुतानिबन्धनशृङ्गाररसस्वीकारेण रसवदलंकारतेत्यपि
नाशङ्कनीयम् । यतोऽत्र शृङ्गारस्य प्राधान्यान्नालंकारत्वं येनालंकारता स्यात् । यदाह --
 
ससि" इत्यमरः । "दोषा नक्तं रात्रौ" इति च । "••• <missing>****</missing>त्रस्नौ भीरुभीरुकभीलुकाः" इत्यपि ।
"निदेशः शासनं च सः" इति च । "निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इति च ।
 
[^१.] नैषधे. [^२.] कुमारसंभवे स० ५