This page has been fully proofread once and needs a second look.

सर्गः १]
 
रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ।
 
1
 
नकनिमित्तता । मेघाडम्बरतादेस्तन्महद्व्याख्यानकौशलम् ॥ अन्यहेतुभिरन्यस्योत्पत्ति-

श्चेद्दृश्यते तदा । विस्मयस्थायिभावत्वादद्भुतोपस्थितिर्न किम् ॥ धात्रीयोगान्न शृङ्गारो

न हास्यो रहसीङ्गितैः । न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम् । तस्मादत्र विभा
बा
-
वा
नुभावसंचारिभिर्भवेत् । शृङ्गारो नन्दसामीप्यात्तयोश्चलितयोः स्वतः ॥ यथा

द्रव्याणि नानात्वं भावान्तरविभावतः । व्रजन्ति नानारसतां तथा भावास्त एव हि ॥

एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके । विभावाद्यवियुक्तेन भावकेन विभावि-

ताः॥'" तस्मात्काव्याभिप्रायसूचितशृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्य मिति । अत्र

मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिराक्रमणाच्चैचेतसोऽन्यथावृत्तिः सूचिता ।

अम्बरमिति स्वच्छन्दविहारभङ्गशङ्कां मा कृथा इति । वनभुव इति बहुवचनेन नानाव-

स्थरतक्षमं प्रदेशबाहुल्यं द्योतितम् । नक्तमिति कालस्य स्वच्छन्द प्रच्छन्न कामुकयोग्य-

त्वमुक्तम् । माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः । यमुनाकूल

इति रतिश्रमनिराससाधन शिशिरसमीरसद्भावार्थम् । अयमिति रत्युद्रेकाकुलतया स्वाङ्गे-
ध्

ष्
वप्यौदासीन्यद्योतनाय । यथा श्रीह[^१]र्षमिश्रस्य हंसेन स्वात्मनि निराशीभूतेन – '-- "गति-

स्तयोरेकतरस्त मर्दयन्'" इत्याद्यभाणि । यथा वा श्रीका[^२]लिदासस्य ईश्वरेण तयावगणिते

आत्मन्यन।नास्थापरत्वेन — '-- "अयं जनः प्रष्टुमनास्तपोधने'" इत्याद्यवादि । अत्र वर्णवृत्त्य-

नुप्रासः शब्दालंकारः । पूर्वार्धे समुच्चयोऽर्थालंकारः । तल्लक्षणं तु— ' -- "तत्सिद्धिहेतावेक-

स्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ'" । यथा - '- "दुर्वाःवाराः स्मरमार्गणाः प्रियतमो

दूरे'" इत्यादि । उत्तरार्धे चाशीः । तद्योजनं च -- सर्वोत्कृष्टास्ताः केलयो विलासकलासु

कुतूह लिनः
(:
पान्तु । अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टिः– ' -- "सेष्टा संसृष्टिरे-

तेषां भेदेन यदिह स्थितिः'" इति । अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिल-

कायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्दुसुन्द-

रवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी

सकल कविकुलललामभूता कामपि विच्छित्तिमातनोति । यथा – '-- "मग्नानि द्विषतां

कुलानि समरे त्वत्खड्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा ।

मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्यु-

कृपाणे दृशौ ॥'" अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि । तन्न । तल्लक्षणाः

भावात् ॥ लक्षणं तु–' -- "तदेवोक्तं काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति । नात्र '"वपुःप्रादु-

र्भावात्-' -- "इतिवद्धेतोर्वाक्यार्थता । नापि '"प्रणयसलीलपरिहासरसाधिगतैः'" इतिवदने-

कपदार्थता । नापि '"भस्मोद्धूलन भद्रमस्तु भवते'" इतिवद्धेतोरेकपदार्थता । तस्य गतिं

त एव प्रष्टव्याः । एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वच्चित्तचमत्कृ
-
तिमातनोति ॥ तर्हि काव्यचारुतानिबन्धन शृङ्गाररसस्वीकारेण रसवदलंकारतेत्यपि

नाशङ्कनीयम् । यतोऽत्र शृङ्गारस्य प्राधान्यान्नालंकारत्वं येनालंकारता स्यात् । यदाह-
--
 
ससि '" इत्यमरः । '"दोषा नक्तं रात्रौ'" इति च । "••• त्रस्खौनौ भीरुमीभीरुकभीलुकाः'" इत्यपि ।
'

"
निदेश:शः शासनं च सः'" इति च । '"निकुञ्जकुञ्जौ वा क्कीलीबे लतादिपिहितोदरे'" इति च ।
 
6000
 

 
[^
.] नैषधे. [^.] कुमारसंभवे स० ५
 
३ गीत•
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri