This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्ग: १
 
-
 

 
भावानाह–अम्बरमाकाशं मेघैर्मेंदुरं सान्द्रस्निग्धं वर्तते । अपरं च । तमालद्रुमैः
श्यामा वनभुवो वर्तन्ते । अपरं च नक्तं रात्रिकालः । एवं देशकालवस्तुलक्षणा
विभावाः सूचिताः। किमुक्तं भवति । अत्र काव्ये शृङ्गाररसप्राधान्यात्तस्य मेघाद्या-
स्त्रयोऽप्युद्दीपनभावा उक्ता भवन्ति । राधाद्या आलम्बनविभावाः । भीरुरित्यस्यानु-
भावः । हर्षावेगशङ्कौत्सुक्यत्रीडाचपलतादयो व्यभिचारिणः । इत्थं कार्यकारणसहका-
रिभी रतिस्थायिभावः सकलरससम्राट् सप्रपञ्चः संभोगाख्योऽभिलाषविरहेर्ष्यासूयाल-
क्षणो विप्रलम्भः शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति । तदुक्तम्- 'कारणान्यथ
कार्याणि सहकारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥
विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो
रसः स्मृतैः ॥' तथा चाभाणि भरतेन – 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्प-
त्तिः–' इति । एवमेतेन पथा श्रीजयदेवेन कविना रसमुख्ये स्थिरीकृते तदाशयम-
बुद्ध्वा कैश्विव्याख्यातं तत्तावन्न विचक्षणपरीक्षाक्षममीक्षामहे । तथाहि । इत्थं नन्दनि-
देशतो नन्दादेशाच्चलितयोः केलयो जयन्ति । इत्थमिति किम् । राधा काचन गोपिका
तस्या नन्देन संबोधनम् । हे राधे, इमं मम शिशुं रात्रौ भीरुं त्वमेव गृहं प्रापय
वय्येव मम विश्वास इति । तदा नायकस्य शिशुलेन परवशवं, तस्याश्च धात्रीलं
नन्दस्य दूतीकर्म, शृङ्गार विभावानां भयानक हेतुवं, कवि निरूपितरसस्यान्यथावं चाप-
द्यते । तत्र तेषामायुष्मतां क उपालम्भः । यतः– 'निर्देशो भाषणादेशसामीप्यार्थम-
जानतः । आदेश एव विश्रान्तमतेर्व्याख्या भवेन्न किम् ॥ लोके किं कूपमण्डूकः
समुद्रमपि तत्समम् । न वेद वेदवादोऽयमिति श्रुतिभिया किल ॥' अथैवं नन्दादेशा-
दनु तथा प्राम्यतायां शृङ्गारो विनाशितो भवति । यथाह – 'अथ शृङ्गारपरता सुतरां
सा तिरस्कृता । यतः कुलवधूवत्स चमत्काराय संवृता ॥ श्वशुरे वदति प्रायः सूनो
रतमनु स्रुषाम् । सा नाम ग्राम्यतापीष्टा सापि नेष्टा विपश्चितः ॥ प्रयुक्तं कविना द्वित्वं
तदाशयमजानता । नन्दनिर्देशहारिण्यास्तस्या एकत्वमिष्यते ॥ नायकत्वं यदानातं
हरेः काव्यकृता कृतौ । तस्यां तस्मिन्विनिक्षिप्ते गतिः का नाम तस्य ते ॥ यो गीतगो-
विन्द इति प्रबन्धो गोविन्द नेतारमनुप्रबद्धः । राधावशे तत्र कृतेऽर्भकत्वात्स गीतराधः
कथमत्र न स्यात् ॥ प्रामाण्यं सुधियोऽवदन्कविगिरां धर्मोपदेशे बुधा यत्तन्नो भवितुं
मुदार्हति गुरोराज्ञा विचार्या न यत् । तत्रेदं तु विचारणीयमिह यो यस्याः करे
दीयते रक्षायै स च कामयेत यदि तां तत्किंचिदद्यावधि ॥ शृङ्गारोपक्रमे चात्र भया-
भूमयस्त माल द्रुमै स्तमाल वृक्षैः श्यामाः । कुत्र जयन्तीत्यत आह — प्रत्यध्वेति । यमु
नायाः कूले प्रत्यध्वकुञ्जद्रुमम् । अध्वन्यध्वनि कुञ्जे कुञ्जे द्रुमे द्रुम इत्यर्थः । यद्वाऽध्वनः
कुञ्जन् द्रुमांल्लक्षीकृत्येत्यर्थः । न च नक्तं भीरुरयं त्वमेव तदिममित्यत्र 'द्वितीयाटौस्स्वेनः '
इति सूत्रेणैनादेशः कथं न भवतीति वाच्यम् । अन्वादेशविषयत्वाभावात् । किंचित्कार्य
विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । किंचित्कार्यं विधातुमिति ।
अपूर्व बोधयितुमित्यर्थः । भीरुत्वस्य अनुवाक्यत्वेन विवक्षितत्वात् । 'अम्बरं व्योम्नि वा-
१. काव्यप्रकाशे ४ उल्लासे.
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri