This page has not been fully proofread.

सर्गः १ ] रसिकप्रिया-रसमञ्जर्याख्यटींकाद्वयोपेतम्
 

 
इत्थं नन्दनिदेशतञ्चलितयोः
 
प्रत्यध्वकुञ्जद्रुमं
 
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १ ॥
 
न या ग्रन्थग्रन्थिप्रकटनपटुः किं तु तददो
द्वयं युक्तं कर्तुं प्रभवतितरां कुम्भनृपतिः ॥ १८ ॥
शृङ्गारोत्तरसत्काव्यवेदिविद्वन्मुदे मया ।
मेघैर्मेदुरमित्यादिपद्यं व्याक्रियतेऽधुना ॥ १९ ॥
 
गमकालापपेशलतया मध्यमग्रामे षाडवेन मध्यमग्रहेण मध्यमांदिरागेण गीयते ।
 
गणपतिमभिमतफलदं वरदं प्रणिपत्य सिद्धिगुण विशदम् ।
गीतौ जयदेवकृते धातुं कुम्भो नृपस्तनुते ॥ २० ॥
अथ कुम्भकर्णनृपतिः स्तुत्वा नत्वा सरखतीं देवीम् ।
स्वरपाटतेनकानां करोति गुम्फं सुमानार्थम् ॥ २१ ॥
 
L
 
मेघैरिति ॥ जयन्ति सर्वोत्कर्षेण वर्तन्ते । सर्वोत्कृष्टत्वेन नमस्करणीयत्वमुक्तम् ।
तेन नमस्क्रिया काव्यमुखं योतितम् । आशीर्वा । कास्ताः । रहःकेलयः सुरतक्रीडाः ।
'रहो गुह्ये रहो रते' इति । तासां विषयं निर्दिशति — क्व । यमुनाकूले प्रत्यध्वकुञ्जद्रु-
मम् । अध्वनि कुञ्जद्रुमोऽध्वकुञ्जद्रुमः । अध्वकुञ्जद्रुमं प्रतीति प्रत्यध्वकुञ्जद्रुमम् । ननु चात्र
नित्यसमासत्वाद्वाक्येन न भवितव्यम् । नैतदस्ति । प्रतिशब्दस्य वीप्सायां कर्मप्रवच
नीयसंज्ञा विहिता । तद्योगे यथा स्यादित्येवमर्थः । तस्याश्च वाक्य एव प्रयोगो नान्यत्रेति
वाक्यमपि स्यात् । 'अर्थमर्थं प्रति' इत्यादि भाष्यकार प्रयोगाच्च । कस्मिन्सति । रह
एकान्ते । एकान्तं कयोः । राधामाधवयोः । अत्र राधाया जगद्गुरुपरिग्रहेण सकल-
मातृत्वेनाभ्यर्हितत्वादल्पाक्षरतरत्वाच्च पूर्वनिपातः । किंलक्षणयोः । इत्थं वक्ष्यमाण-
प्रकारेण, कृष्णोक्तेरनु नन्दनिदेशत इति । नन्दसमीपाच्चलितयोः । तमेव प्रकार-
माह—हे राधे, तत्तस्माद्धेतोरिमं मल्लक्षणं जनं त्वमेव गृहं प्रापय । सामान्यनारी-
व्यावृत्त्या गृहिणीनिर्वर्से संभोगादिकर्मणि समुदिता भवेत्यर्थः । अत्र गृहशब्देन
तात्स्थ्याद्गृहिण्युच्यते गृहशब्दच्छलेन तामेव पुरस्कृत्य वनविहारदर्शनात् । अत्र
प्राप्नोतिरुदयार्थे वर्तते । 'प्राक्ला (?) भोक्ष्ययुक्तिषु' इति चूडामणिः । त्वयैवाहं गृहि-
णीमान् स्यामिति यावत् । एवकारोऽन्ययोगव्यावृत्त्यर्थः । तस्मादिति किम् । यतोऽयं
मल्लक्षणो जनो भीरुः, भीरुरिति एभिर्भावहेतुभिः स्मराहतीः सोढुमसमर्थः । तानेव
 
इE खलु प्रारिप्सितसमाप्त्यर्थमेतत्काव्यप्रतिपाद्यं राधामाधव केलिस्मरणरूपं मङ्गलमा-
दावाचरति — मेघैरिति । राधामाधवयो रहः केलय एकान्तक्रीडा जयन्ति सर्वोत्कर्षेण
वर्तन्ते । किंभूतयो: । इत्थमनेन प्रकारेण नन्दनिदेशतो नन्दाज्ञया चलितयोः प्रस्थितयोः ।
कीदृशो नन्दनिदेश इत्यत आह - त्वमेवेत्यादि । हे राधे, तत्तस्मात्त्वमेवेमं कृष्णं गृहं
अत्रैवकारः कोपोक्तौ । बाल्येऽयं यत्त्वयैतावद्दूरमानीतस्तस्मात्त्वमेव गृहमपि प्राप-
येत्येवाभिप्रायात् । कुतः । यतोऽयं कृष्णो नक्तं रात्रौ भीरुः शिशुत्वाद्भयशीलः । भयहेत्व-
न्तरमाह—मेघैरित्यादि । अम्बरमाकाशं मेषैर्भेदुरं स्निग्धम् । तथा च वनभुवः कानन -
 
आपय ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri